கம்சனின் அட்டூழியம்
ஸ்கந்தம் 10: அத்யாயம் 4
श्रीशुक उवाच
बहिः अन्तःपुर-द्वारः सर्वाः पूर्ववत् आवृताः।
ततः बाल-ध्वनिं श्रुत्वा गृह-पालाः समुत्थिताः ॥१॥
ते तु तूर्णम् उपव्रज्य देवक्या गर्भ-जन्म तत्।
आचख्युः भोज-राजाय यद् उद्विग्नः प्रतीक्षते ॥२॥
स तल्पात् तूर्णम् उत्थाय कालः अयम् इति विह्वलः।
सूती-गृहम् अगात् तूर्णम् प्रस्खलन् मुक्त-मूर्धजः ॥३॥
तम् आह भ्रातरं देवी कृपणा करुणं सती।
स्नुषे अयम् तव कल्याण स्त्रियम् मा हन्तुम् अर्हसि ॥४॥
बहवः हिंसिता भ्रातः शिशवः पावक-उपमाः।
त्वया दैव-निसृष्टेन पुत्रिका एका प्रदीयताम् ॥५॥
ननु अहं ते हि अवरजा दीना हत-सुता प्रभो।
दातुम् अर्हसि मन्दायाः अङ्गे इमां चरमां प्रजाम् ॥६॥
श्रीशुक उवाच
उपगुह्य आत्मजाम् एवं रुदत्या दीना अदीनवत्।
याचितः ताम् विनिर्भर्त्स्य हस्तात् आचिच्छिदे खलः ॥७॥
तां गृहीत्वा चरणयोः जात-मात्रां स्वसुः सुताम्।
अपोथयत् शिला-पृष्ठे स्वार्थ-उन्मूलित-सौहृदः ॥८॥
सा तत्-हस्तात् समुत्पत्य सद्यः देवी अम्बरं गता।
अदृश्यता अनुजा विष्णोः सायुध-अष्ट-महा-भुजा ॥९॥
दिव्य-स्रक्-अम्बर-आलेप रत्न-आभरण-भूषिता।
धनुः-शूल-इषु-चर्म-आसि शङ्ख-चक्र-गदा-धरा ॥१०॥
सिद्ध-चारण-गन्धर्वैः अप्सरः-किन्नर-उरगैः।
उपाहृत-उरु-बलिभिः स्तूयमाना इदम् अब्रवीत् ॥११॥
किं मया हतया मन्द जातः खलु तव अन्तकृत्।
यत्र क्व वा पूर्व-शत्रुः मा हिंसीः कृपणान् वृथा ॥१२॥
इति प्रभाष्य तं देवी माया भगवती भुवि।
बहु-नाम-निकेषु बहु-नामा बभूव ह ॥१३॥
तया अभिहितम् आकर्ण्य कंसः परम-विस्मितः।
देवकीं वसुदेवं च विमुच्य प्रश्रितः अब्रवीत् ॥१४॥
अहो भगिनि अहो भाम मया वां बत पाप्मना।
पुरुषाद इव अपत्यं बहवः हिंसिताः सुताः ॥१५॥
सः तु अहम् त्यक्त-कारुण्यः त्यक्त-ज्ञाति-सुहृत् खलः।
कान् लोकान् वै गमिष्यामि ब्रह्म-हा इव मृतः श्वसन् ॥१६॥
दैवम् अपि अनृतं वक्ति न मर्त्याः एव केवलम्।
यत् विश्रम्भात् अहं पापः स्वसुः निहतवान् शिशून् ॥१७॥
मा शोचतम् महा-भागौ आत्मजान् स्व-कृतं-भुजः।
जन्तवः न सदैव एकत्र दैव-अधीनाः तदा आसते ॥१८॥
भुवि भौमानि भूतानि यथा यान्ति अपयान्ति च।
न अयम् आत्मा तथा एतेषु विपर्येति यथा एव भूः ॥१९॥
यथा एव एवं-विदः भेदः यत् आत्म-विपर्ययः।
देह-योग-वियोगौ च संसृतिः न निवर्तते ॥२०॥
तस्मात् भद्रे स्व-तनयान् मया व्यापादितान् अपि।
मा अनुशोच यतः सर्वः स्व-कृतं विन्दते अवशः ॥२१॥
यावत् हतः अस्मि हन्ता अस्मि इति आत्मानं मन्यते अस्वदृक्।
तावत् तत्-अभिमानी अज्ञः बाध्य-बाधकताम् इयात् ॥२२॥
क्षमध्वं मम दौरात्म्यं साधवः दीन-वत्सलाः।
इति उक्त्वा अश्रु-मुखः पादौ श्यालः स्वस्रोः अथ अग्रहीत् ॥२३॥
मोचयामास निगडात् विश्रब्धः कन्यका-गिरा।
देवकीं वसुदेवं च दर्शयन् आत्म-सौहृदम् ॥२४॥
भ्रातुः समनुतप्तस्य क्षान्त्वा रोषं च देवकी।
व्यसृजत् वसुदेवः च प्रहस्य तम् उवाच ह ॥२५॥
एवम् एतत् महा-भाग यथा वदसि देहिनाम्।
अज्ञान-प्रभवः अंधीः स्व-पर इति भिदा यतः ॥२६॥
शोक-हर्ष-भय-द्वेष लोभ-मोह-मद-आन्विताः।
मिथः घ्नन्तः न पश्यन्ति भावैः भावं पृथक्-दृशः ॥२७॥
श्री-शुक उवाच।
कंसः एवं प्रसन्नाभ्याम् विशुद्धं प्रतिभाषितः।
देवकी वसुदेवाभ्याम् अनुज्ञातः अविशत् गृहम् ॥२८॥
तस्यां रात्र्यां व्यतीतायां कंसः आहूय मंत्रिणः।
तेभ्यः आचष्ट तत् सर्वं यत् उक्तं योग-निद्रया ॥२९॥
आकर्ण्य भर्तुः गदितं तम् ऊचुः देव-शत्रवः।
देवान् प्रति कृत-अमर्षाः दैतेयाः न अति-कोविदाः ॥३०॥
एवं चेत् तर्हि भोजेन्द्र पुर-ग्राम-व्रज-आदिषु।
अनिर्दशान् निर्दशान् च हनिष्यामः अद्य वै शिशून् ॥३१॥
किम् उद्यमैः करिष्यन्ति देवाः समर-भीरवः।
नित्यम् उद्विग्न-मनसः ज्याघोषैः धनुषः तव ॥३२॥
अस्यतः ते शर-व्रातैः हन्यमानाः समन्ततः।
जिजीविषवः उत्सृज्य पलायन-पराः ययुः ॥३३॥
केचित् प्राञ्जलयः दीनाः न्यस्त-शस्त्राः दिवौकसः।
मुक्त-कच्छ-शिखाः केचित् भीताः स्म इति वादिनः ॥३४॥
न त्वं विस्मृत-शस्त्र-अस्त्रान् विरथान् भय-संवृतान्।
हंस्य् अन्यासक्त-विमुखान् भग्न-चापान् अयुध्यतः ॥३५॥
किं क्षेम-शूरैः विबुधैः अ-संयुग-विकत्थनैः।
रहो-जुषा किं हरिणा शंभुना वा वन-उकसा।
किं इन्द्रेण अल्प-वीर्येण ब्रह्मणा वा तपस्यता ॥३६॥
तथापि देवाः सापत्न्यान् न उपेक्ष्याः इति मन्महे।
ततः तत्-मूल-खनने नियुञक्ष्व अस्मान् अनुव्रतान् ॥३७॥
यथा अमयः अङ्गे समुपेक्षितः नृभिः
न शक्यते रूढ-पदः चिकित्सितुम्।
यथा इन्द्रिय-ग्रामः उपेक्षितः तथा
रिपुः महान् बद्ध-बलः न चाल्यते ॥३८॥
मूलं हि विष्णुः देवानां यत्र धर्मः सनातनः।
तस्य च ब्रह्म-गो-विप्राः तपः यज्ञाः स-दक्षिणाः ॥३९॥
तस्मात् सर्वात्मना राजन् ब्राह्मणान् ब्रह्मवादिनः।
तपस्विनः यज्ञशीलान् गाः च हन्मः हविर्दुघाः ॥४०॥
विप्राः गावः च वेदाः च तपः सत्यं दमः शमः।
श्रद्धा दया तितिक्षा च क्रतवः च हरेः तनूः ॥४१॥
सः हि सर्व-सुर-अध्यक्षः हि असुर-द्विट् गुहा-आशयः।
तत्-मूलाः देवताः सर्वाः स-ईश्वराः स-चतुर्मुखाः।
अयं वै तत्-वध-उपायः यत् ऋषीणां विहिंसनम् ॥४२॥
श्रीशुक उवाच।
एवं दुर्मंत्रिभिः कंसः सह सम्मन्त्र्य दुर्मतिः।
ब्रह्म-हिंसां हितं मेने काल-पाश-आवृतः असुरः ॥४३॥
संदिश्य साधु-लोकस्य कदने कदन-प्रियान्।
काम-रूप-धरान् दिक्षु दानवान् गृहम् आविशत् ॥४४॥
ते वै रजः-प्रकृतयः तमसा मूढ-चेतसः।
सतां विद्वेषम् आचेरुः आरात् आगत-मृत्यवः ॥४५॥
आयुः श्रियं यशः धर्मं लोकान् आशिषः एव च।
हन्ति श्रेयांसि सर्वाणि पुंसः महत्-अतिक्रमः ॥४६॥
No comments:
Post a Comment