Followers

Search Here...

Monday, 31 March 2025

ஸ்கந்தம் 10: அத்யாயம் 8 (கண்ணன் யசோதைக்கு உலகத்தை தன் வாயில் காட்டுகிறான் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 கண்ணன் யசோதைக்கு உலகத்தை தன் வாயில் காட்டுகிறான்

ஸ்கந்தம் 10: அத்யாயம் 8

श्रीशुक उवाच

गर्गः पुरोहितः राजन् यदूनां सुमहातपाः।
व्रजं जगाम नन्दस्य वसुदेव प्रचोदितः॥ 1

तं दृष्ट्वा परम प्रीतः प्रत्युत्थाय कृताञ्जलिः।
आनर्च आधोक्षज-धिया प्रणिपात-पुरस्सरम्॥ 2

सुपविष्टं कृतातिथ्यं गिरा सूनृतया मुनिम्।
नन्दयित्वा अब्रवीत् ब्रह्मन् पूर्णस्य करवाम किम्॥ 3

महत् विचलनं नॄणां गृहिणां दीन-चेतसाम्।
निःश्रेयसाय भगवन् कल्पते न अन्यथा क्वचित्॥ 4

ज्योतिषां अयनं साक्षात् यत् तत् ज्ञानम् अतीन्द्रियम्।
प्रणीतं भवता येन पुमान् वेद परावरम्॥ 5

त्वं हि ब्रह्मविदां श्रेष्ठः संस्कारान् कर्तुम् अर्हसि।
बालयोः अनयोः नॄणां जन्मना ब्राह्मणः गुरुः॥ 6

श्रीगर्ग उवाच

यदूनाम् अहम् आचार्यः ख्यातः च भुवि सर्वतः।
सुतं मया संस्कृतं ते मन्यते देवकी-सुतम्॥ 7

कंसः पापमति सख्यं तव च आनक-दुन्दुभेः।
देव्याः अष्टमः गर्भः न स्त्री भवितुम् अर्हति॥ 8

इति सञ्चिन्तयन् श्रुत्वा देवक्या दारिका वचः।
अपि हन्त आगता आशङ्का तर्हि तत् नः अनयोः भवेत्॥ 9

श्रीनन्द उवाच

अलक्षितः अस्मिन् रहसि मामकैः अपि गोव्रजे।
कुरु द्विजाति संस्कारं स्वस्तिवाचन-पूर्वकम्॥ 10

श्रीशुक उवाच

एवं सम्प्रार्थितः विप्रः स्वचिकीर्षितम् एव तत्।
चकार नामकरणं गूढः रहसि बालयोः॥ 11

श्रीगर्ग उवाच

अयं हि रोहिणी-पुत्रः रमयन् सुहृदः गुणैः।
आख्यास्यते राम इति बलाधिक्यात् बलं विदुः।
यदूनाम् अपृथग्भावात् सङ्कर्षणम् उशन्ति उत॥ 12

आसन् वर्णाः त्रयः हि अस्य गृह्णतः अनुयुगं तनूः।
शुक्लः रक्तः तथा पीतः इदानीं कृष्णतां गतः॥ 13

प्राक् अयम् वसुदेवस्य क्वचित् जातः तव आत्मजः।
वासुदेव इति श्रीमान् अभिज्ञाः सम्प्रचक्षते॥ 14

बहूनि सन्ति नामानि रूपाणि च सुतस्य ते।
गुण-कर्म-अनुरूपाणि तानि अहं वेद नः जनाः॥ 15

एषः वः श्रेयः आधास्यत् गोप-गोकुल-नन्दनः।
अनेन सर्व-दुर्गाणि यूयम् अञ्जस् तरिष्यथ॥ 16

पुराणेन व्रज-पते साधवः दस्यु-पीडिताः।
अराजके रक्ष्यमाणाः जिग्युर्दस्यून् समेधिताः॥ 17

यः एतस्मिन् महाभागाः प्रीतिं कुर्वन्ति मानवाः।
नारयः अभिभवन्ति एतान् विष्णु-पक्षान् इव असुराः॥ 18

तस्मात् नन्द-आत्मजः अयम् ते नारायण-समः गुणैः।
श्रिया कीर्त्या अनु-भावेन गोपायस्व समाहितः॥ 19

इति आत्मानं समादिश्य गर्गे च स्वगृहं गते।
नन्दः प्रमुदितः मेने आत्मानं पूर्णम् आशिषाम्॥ 20
कालेन व्रज-ताल्पेन गोकुले राम-केशवौ।
जानुभ्यां सह पाणिभ्यां रिङ्गमाणौ विजह्रतुः॥ 21

तावङ्घ्रि-युग्मम् अनु-कृष्य सरीसृपन्तौ
घोष-प्रघोष-रुचिरं व्रज-कर्दमेषु।
तन्-नाद-हृष्ट-मनसौ अनुसृत्य लोकं
मुग्ध-प्रभीत-वद-उपेयतुः अन्ति मात्रोः॥ 22

तन्-मातरौ निज-सुतौ घृणया स्नुवन्त्यौ
पङ्काङ्ग-राग-रुचिरौ उपगृह्य दोर्भ्याम्।
दत्त्वा स्तनं प्रपिबतोः स्म मुखं निरीक्ष्य
मुग्ध-स्मित-अल्प-दशनं ययतुः प्रमोदम्॥ 23

यर्ह्यङ्गना-दर्शनीय-कुमार-लीलौ।
अन्तः-व्रजे तद-अबलाः प्रगृहीत-पुच्छैः।
वत्सैरितः तत उभाव् अनु-कृष्यमाणौ
प्रेक्षन्त्य उझ्झित-गृहाः जहृषुः हसन्त्यः॥ 24

शृङ्ग्य-अग्नि-दंष्ट्र्य-असि-जल-द्विज-कण्टकेभ्यः
क्रीडा-परावतिचलौ स्व-सुतौ निषेधुम्।
गृह्याणि कर्तुम् अपि यत्र न तत्-जनन्यौ
शेकात आपतुर् अलं मनसः अनवस्थाम्॥ 25

कालेन अल्पेन राजर्षे रामः कृष्णः च गोकुले।
अघृष्ट-जानुभिः पद्भिः विचक्रमतुः अञ्जसा॥ 26

ततः तु भगवान् कृष्णः वयस्यैः व्रज-बालकैः।
सह-रामः व्रज-स्त्रीणां चिक्रीडे जनयन् मुदम्॥ 27

कृष्णस्य गोप्यः रुचिरं वीक्ष्य कौमार-चापलम्।
शृण्वन्त्याः किल तत्-मातुः इति ऊचुः समागताः॥ 28

वत्सान् मुञ्चन् क्वचित् असमये क्रोश-सञ्जात-हासः
स्तेयं स्वाद्वत्ति अथ दधि पयः कल्पितैः स्तेय-योगैः।
मर्कान् भोक्ष्यन् विभजति स चेत् न अत्ति भाण्डं भिनत्ति
द्रव्यालाभे स गृह-कुपितः याति उपक्रोश्य तोकान्॥ 29

हस्ताग्राह्ये रचयति विधिं पीठ-कोलूखलाद्यैः
छिद्रं हि अन्तर्-निहित-वयुनः शिक्य-भाण्डेषु तद्वित्।
ध्वान्तागारे धृत-मणि-गणं स्व-अङ्गम् अर्थ-प्रदीपं
काले गोप्यः यर्हि गृह-कृत्येषु सुव्यग्र-चित्ताः॥ 30

एवं धार्ष्ट्यान्य् उशति कुरुते मेह-नादीनि वास्तौ
स्तेय-उपायैः विरचित-कृतिः सुप्रतीकः यथा आस्ते।
इत्थं स्त्रीभिः स भय-नयन-श्री-मुख-आलोकिनीभिः
व्याख्यात-अर्थाः प्रहसित-मुखी न हि उपालब्धुम् ऐच्छत्॥ 31

एकदा क्रीडमानाः ते राम-आद्या गोप-दारकाः।
कृष्णः मृदं भक्षितवान् इति मात्रे न्यवेदयन्॥ 32

सा गृहीत्वा करे कृष्णम् उपालभ्य हितैषिणी।
यशोदा भय-संभ्रान्त-प्रेक्षण-अक्षम-भाषता॥ 33

कस्मात् मृदम् अदान्त-आत्मन् भवान् भक्षितवान् रहः।
वदन्ति तावका हि एते कुमाराः ते अग्रजः अपि अयम्॥ 34

श्रीकृष्ण उवाच

न अहं भक्षितवान् अम्ब सर्वे मिथ्या-अभिशंसिनः।
यदि सत्य-गिरः तर्हि समक्षं पश्य मे मुखम्॥ 35

यद्य् एवं तर्हि व्यादेहि इति उक्तः स भगवान् हरिः।
व्यादत्त अव्याहत-ऐश्वर्यः क्रीडाम् अनुज-बालकः॥ 36

सा तत्र ददृशे विश्वं जगत् स्थास्नु च खं दिशः।
स-आद्रि-द्वीप-अब्धि-भूगोलं स-वाय्व्-अग्नि-इन्दु-तारकम्॥ 37

ज्योतिश्चक्रं जलं तेजो नभः स्वान् वियदेव च।
वैकारिकाणि इन्द्रियाणि मनः मात्रा गुणाः त्रयः॥ 38

एतत् विचित्रं सह-जीव-काल
स्वभाव-कर्म-आशय-लिङ्ग-भेदम्।
सूनोः तनौ वीक्ष्य विदारित-आस्ये
व्रजं सह आत्मानम् अवाप शङ्काम्॥ 39

किं स्वप्न एतद् उत देव-माया
किं वा मदीयः बत बुद्धि-मोहः।
अथो अमुष्य एव मम अर्भकस्य
यः कश्चन औत्पत्तिक आत्म-योगः॥ 40

अथो यथावत् न वितर्क-गोचरं
चेतो-मनः-कर्म-वचोभिः अञ्जसा।
यद् आश्रयं येन यतः प्रतीयते
सुदुर्विभाव्यं प्रणतास्मि तत्पदम्॥ 41

अहं मम असौ पतिः एष मे सुतः
व्रजेश्वरस्य अखिल-वित्तपा सती।
गोप्यः च गोपाः सह-गोधनाः च मे
यत् मायया इत्थं कुमतिः स मे गतिः॥ 42

इत्थं विदित-तत्त्वायां गोपिकायां स ईश्वरः।
वैष्णवीं व्यतनोत् मायां पुत्र-स्नेहमयीं विभुः॥ 43

सद्यः नष्ट-स्मृति गोपी सा आरोप्य अङ्कम् आत्मजम्।
प्रवृद्ध-स्नेह-कलिला हृदयाः आसीत् यथा पुरा॥ 44

त्रय्या च उपनिषद्भिः च साङ्ख्य-योगैः च सात्वतैः।
उपगीयमान-माहात्म्यं हरिं सामान्यतः आत्मजम्॥ 45

श्री राज उवाच

नन्दः किम् अकरोत् ब्रह्मन् श्रेयः एवम् महोदयम्।
यशोदा च महा-भागा पपौ यस्याः स्तनं हरिः ॥ ४६ ॥

पितरौ न अनु अविन्देताम् कृष्ण उदार अर्भक ईहितम्।
गायन्ति अद्य अपि कवयः यत् लोक शमल आपहम् ॥ ४७ ॥

श्री शुक उवाच

द्रोणः वसूनाम् प्रवरो धरया सह भार्यया।
करिष्यमान आदेशान् ब्रह्मणः तम् उवाच ह ॥ ४८ ॥

जातयोः नौ महा-देवे भुवि विश्व-ईश्वरे हरौ।
भक्तिः स्यात् परमा लोके यया अञ्जः दुर्गतिम् तरेत् ॥ ४९ ॥

अस्तु इति उक्तः सः भगवान् व्रजे द्रोणः महा-यशाः।
जज्ञे नन्दः इति ख्यातः यशोदा सा धरा अभवत् ॥ ५० ॥

ततः भक्तिः भगवति पुत्री-भूते जनार्दने।
दम्पत्योः नितराम् आसीत् गोप गोपीषु भारत ॥ ५१ ॥

कृष्णः ब्रह्मणः आदेशं सत्यम् कर्तुम् व्रजे विभुः।
सह रामः वसंश् चक्रे तेषाम् प्रीतिम् स्व-लीलया ॥ ५२ ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे अष्टमोऽध्यायः ॥ 8 ॥

No comments:

Post a Comment