Followers

Search Here...

Sunday, 30 March 2025

ஸ்கந்தம் 9: அத்யாயம் 23 (யயாதியின் பிள்ளைகள்) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

யயாதியின் பிள்ளைகள்

ஸ்கந்தம் 9: அத்யாயம் 23

श्रीशुक उवाच।
अनोः सभानरश्चक्षुः परोक्षश्च त्रयः सुताः।
सभानरात् कालनरः सृञ्जयस्तत्सुतस्ततः॥ 1

जनमेजयस्तस्य पुत्रो महाशालो महामनाः।
उशीनरस्तितिक्षुश्च महामनस आत्मजौ॥ 2

शिबिर्वनः शमिर्दक्षश्चत्वारोशीनरात्मजाः।
वृषादर्भः सुवीरश्च मद्रः कैकेय आत्मजाः॥ 3

शिबेश्चत्वार एवासंस्तितिक्षोश्च रुशद्रथः।
ततो होमोऽथ सुतपा बलिः सुतपसोऽभवत्॥ 4

अङ्गवङ्गकलिङ्गाद्याः सुह्मपुण्ड्रान्ध्रसंज्ञिताः।
जज्ञिरे दीर्घतमसो बलेः क्षेत्रे महीक्षितः॥ 5

चक्रुः स्वनाम्ना विषयान् षडिमान् प्राच्यकांश्च ते।
खनपानोऽङ्‌गतो जज्ञे तस्माद् दिविरथस्ततः॥ 6

सुतो धर्मरथो यस्य जज्ञे चित्ररथोऽप्रजाः।
रोमपाद इति ख्यातस्तस्मै दशरथः सखा॥ 7

शान्तां स्वकन्यां प्रायच्छदृष्यशृङ्‌ग उवाह याम्।
देवेऽवर्षति यं रामा आनिन्युर्हरिणीसुतम्॥ 8

नाट्यसंगीतवादित्रैर्विभ्रमालिङ्गनार्हणैः।
स तु राज्ञोऽनपत्यस्य निरूप्येष्टिं मरुत्वतः॥ 9

प्रजामदाद् दशरथो येन लेभेऽप्रजाः प्रजाः।
चतुरङ्गो रोमपादात् पृथुलाक्षस्तु तत्सुतः॥ 10

बृहद्रथः - बृहत्कर्मा - बृहद्‍भानुः - च - तत्-सुताः।
आद्यात् - बृहन्मनाः - तस्मात् - जयद्रथः - उदाहृतः॥ 11

विजयः - तस्य - सम्भूत्याम् - ततः - धृतिः - अजायत।
ततः - धृतव्रतः - तस्य - सत्कर्मा - अधिरथः - ततः॥ 12

यः - असौ - गङ्गा-तटे - क्रीडन् - मञ्जूषा-अन्तर्गतं - शिशुम्।
कुन्त्या - अपविद्धं - कानीनम् - अनपत्यः - अकरोत् - सुतम्॥ 13

वृषसेनः - सुतः - तस्य - कर्णस्य - जगती-पते।
द्रुह्योः - च - तनयः - बभ्रुः - सेतुः - तस्य - आत्मजः - ततः॥ 14

आरब्धः - तस्य - गान्धारः - तस्य - धर्मः - ततः - धृतः।
धृतस्य - दुर्मदः - तस्मात् - प्रचेताः - प्राचेतसं - शतम्॥ 15

म्लेच्छ-अधिपतयः - अभूवन् - उदीचीं - दिशम् - आश्रिताः।
तुर्वसोः - च - सुतः - वह्निः - वह्नेः - भर्गः - अथ - भानुमान्॥ 16

त्रिभानुः - तत्-सुतः - अस्य - अपि - करन्धमः - उदार-धीः।
मरुतः - तत्-सुतः - अपुत्रः - पुत्रं - पौरवम् - अन्वभूत्॥ 17

दुष्मन्तः - सः - पुनः - भेजे - स्वं - वंशं - राज्य-कामुकः।
ययातेः - ज्येष्ठ-पुत्रस्य - यदोः - वंशं - नर-ऋषभ॥ 18

वर्णयामि - महा-पुण्यं - सर्व-पाप-हरं - नृणाम्।
यदोः - वंशं - नरः - श्रुत्वा - सर्व-पापैः - प्रमुच्यते॥ 19


यत्र - अवतीर्णः - भगवान् - परमात्मा - नर - आकृतिः।
यदोः - सहस्रजित् - क्रोष्टा - नलः - रिपुः - इति - श्रुताः॥ 20

चत्वारः - सूनवः - तत्र - शतजित् - प्रथम - आत्मजः।
महाहयः - वेणुहयः - हैहयः - च - इति - तत् - सुताः॥ 21

धर्मः - तु - हैहय - सुतः - नेत्रः - कुन्तेः - पिता - ततः।
सः - अहञ्जिः - अभवत् - कुन्तेः - महिष्मान् - भद्रसेनकः॥ 22

दुर्मदः - भद्रसेनस्य - धनकः - कृतवीर्य - सूः।
कृताग्निः - कृतवर्मा - च - कृतौजाः - धनक - आत्मजाः॥ 23

अर्जुनः - कृतवीर्यस्य - सप्त - द्वीप - ईश्वरः - अभवत्।
दत्तात्रेयात् - हरेः - अंशात् - प्राप्त - योग - महा - गुणः॥ 24

न - नूनं - कार्तवीर्यस्य - गतिं - यास्यन्ति - पार्थिवाः।
यज्ञ - दान - तपः - योग - श्रुत - वीर्य - जय - आदिभिः॥ 25

पञ्च - अशीति - सहस्राणि - हि - अव्याहत - बलः - समाः।
अनष्ट - वित्त - स्मरणः - बुभुजे - अक्षय्य - षड्वसु॥ 26

तस्य - पुत्र - सहस्रेषु - पञ्च - एव - उर्वरिताः - मृधे।
जयध्वजः - शूरसेनः - वृषभः - मधुर - ऊर्जितः॥ 27

जयध्वजात् - तालजङ्घः - तस्य - पुत्र - शतं - तु - अभूत्।
क्षत्रं - यत् - तालजङ्घ - आाख्यम् - और्व - तेज - उपसंहृतम्॥ 28

तेषां - ज्येष्ठः - वीतिहोत्रः - वृष्णिः - पुत्रः - मधोः - स्मृतः।
तस्य - पुत्र - शतं - तु - आसीत् - वृष्णि - ज्येष्ठं - यतः - कुलम्॥ 29

माधवाः - वृष्णयः - राजन् - यादवाः - च - इति - संज्ञिताः।
यदु - पुत्रस्य - च - क्रोष्टोः - पुत्रः - वृजिनवान् - ततः॥ 30

श्वाहिः - ततः - रुशेकुः - वै - तस्य - चित्ररथः - ततः।
शशबिन्दुः - महा-योगी - महा-भाजः - महान् - अभूत्॥ 31

चतुर्दश - महा-रत्नः - चक्रवर्ती - अपराजितः।
तस्य - पत्नीसहस्राणां - दशानां - सुमहा-यशाः॥ 32

दश - लक्ष - सहस्राणि - पुत्राणां - तासु - अजीजनत्।
तेषां - तु - षट् - प्रधानानां - पृथुश्रवः - आत्मजः॥ 33

धर्मः - नाम - औशना - तस्य - हय-मेध - शतस्य - याट्।
तत् - सुतः - रुचकः - तस्य - पञ्च - आसन् - आत्मजाः - श्रृणु॥ 34

पुरुजित् - रुक्मरुक्मेषुः - पृथुज्या - मघसंज्ञिताः।
ज्यामघः - तु - अप्रजः - अपि - अन्यां - भार्यां - शैब्या - पतिः - भयात्॥ 35

न - अविन्दत् - शत्रु - भवनात् - भोज्यां - कन्यां - अहार्षीत्।
रथस्थां - तां - निरीक्ष्य - आह - शैब्या - पतिम् - अमर्षिता॥ 36

का - इयम् - कुहक - मत्स्थानं - रथम् - आरोपिता - इति - वै।
स्नुषा - तव - इति - अभिहिते - स्मयन्ती - पतिम् - अब्रवीत्॥ 37

अहं - बन्ध्या - सपत्नि - च - स्नुषा - मे - युज्यते - कथम्।
जनयिष्यसि - यं - राज्ञि - तस्य - इयम् - उपयुज्यते॥ 38

अन्वमोदन्त - तत् - विश्वे - देवाः - पितरः - एव - च।
शैब्या - गर्भम् - अधात् - काले - कुमारं - सुषुवे - शुभम्।
सः - विदर्भः - इति - प्रोक्तः - उपयेमे - स्नुषां - सतीम्॥ 39

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे यदुवंशानुवर्णनं त्रयोविंशोऽध्यायः॥ 23 ॥

No comments: