Followers

Search Here...

Sunday, 30 March 2025

ஸ்கந்தம் 9: அத்யாயம் 21 (பரதன் பரம்பரை) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

பரதன் பரம்பரை

ஸ்கந்தம் 9: அத்யாயம் 21


श्री-शुकः उवाच।
वितथस्य सुतः मन्युः बृहत्-क्षत्रः जयः ततः।
महा-वीर्यः नरः गर्गः सङ्कृतिः तु नर-आत्मजः ॥१॥

गुरुः च रन्ति-देवः च सङ्कृतेः पाण्डु-नन्दन।
रन्ति-देवस्य हि यशः इह अमुत्र च गीयते ॥२॥

वियद्-वित्तस्य ददतः लब्धं लब्धं बुभुक्षतः।
निष्किञ्चनस्य धीरस्य सकुटुम्बस्य सीदतः ॥३॥

व्यतीयुः अष्ट-चत्वारिंशत्-अहनि अपिबतः किल।
घृत-पायस-संयावं तोयं प्रातः उपस्थितम् ॥४॥

कृच्छ्र-प्राप्त-कुटुम्बस्य क्षुत्-तृड्भ्यां जात-वेपथोः।
अतिथिः ब्राह्मणः काले भोक्तु-कामस्य च आगमत् ॥५॥

तस्मै संव्यभजत् सः अन्नम् आदृत्य श्रद्धया अन्वितः।
हरिं सर्वत्र संपश्यन् सः भुक्त्वा प्रययौ द्विजः ॥६॥

अथ अन्यः भोक्ष्यमाणस्य विभक्तस्य मही-पतेः।
विभक्तं व्यभजत् तस्मै वृषलाय हरिं स्मरन् ॥७॥

याते शूद्रे तम् अन्यः आगात् अतिथिः श्वभिः आवृतः।
राजन् मे दीयताम् अन्नं सगणाय बुभुक्षते ॥८॥

सः आदृत्य अवशिष्टं यत् बहु-मान-पुरस्कृतम्।
तत् च दत्त्वा नमः चक्रे श्वभ्यः श्व-पतये विभुः ॥९॥

पानीय-मात्रम् उच्छेषं तत् च एक-परितर्पणम्।
पास्यतः पुल्कसः अभ्यागात् अपः देहि अशुभस्य मे ॥१०॥

तस्य ताम् करुणाम् वाचम् निशम्य विपुल-श्रमाम्।
कृपया भृश-सन्तप्तः इदम् आह अमृतम् वचः ॥११॥

न कामये अहम् गतिम् ईश्वरात् पराम्
अष्ट-ऋद्धि-युक्ताम् अपुनः-भवम् वा।
आर्तिम् प्रपद्ये अखिल-देह-भाजाम्
अन्तः स्थितः येन भवन्ति अदुःखाः ॥१२॥

क्षुत्-तृट्-श्रमः गात्र-परिश्रमः च
दैन्यम् क्लमः शोक-विषाद-मोहाः।
सर्वे निवृत्ताः कृपणस्य जन्तोः
जिजीविषोः जीव-जल-अर्पणात् मे ॥१३॥

इति प्रभाष्य पानीयम् म्रियमाणः पिपासया।
पुल्कसाय अददात् धीरः निसर्ग-करुणः नृपः ॥१४॥

तस्य त्रिभुवन-अधीशाः फलदाः फलम् इच्छताम्।
आत्मानम् दर्शयाञ्चक्रुः माया विष्णु-विनिर्मिताः ॥१५॥

सः वै तेभ्यः नमस्कृत्य निःसङ्गः विगत-स्पृहः।
वासुदेवे भगवति भक्त्या चक्रे मनः परम् ॥१६॥

ईश्वर-आलम्बनम् चित्तम् कुर्वतः अनन्य-राधसः।
माया गुण-मयी राजन् स्वप्नवत् प्रत्यलीयत ॥१७॥

तत्-प्रसङ्ग-अनुभावेन रन्तिदेव-अनुवर्तिनः।
अभवन् योगिनः सर्वे नारायण-परायणाः ॥१८॥

गर्गात् शिनिः ततः गार्ग्यः क्षत्रात् ब्रह्म हि अवर्तत।
दुरित-क्षयः महा-वीर्यात् तस्य त्रय्या-अरुणिः कविः ॥१९॥

पुष्कर-अरुणिः इति अत्र ये ब्राह्मण-गतिम् गताः।
बृहत्क्षत्रस्य पुत्रः अभूत् हस्ती यत् हस्तिनापुरम् ॥२०॥

अजमीढः द्विमीढः-च पुरुमीढः-च हस्तिनः।
अजमीढस्य वंश्याः स्युः प्रियमेध-आदयः द्विजाः॥ 21

अजमीढात् बृहदिषुः तस्य पुत्रः बृहद्धनुः।
बृहत्कायः ततः तस्य पुत्रः आसीत् जयद्रथः॥ 22

तत्सुतः विशदः तस्य सेनजित् समजायत।
रुचिराश्वः दृढ-हनुः काश्यः वत्सः-च तत्सुताः॥ 23

रुचिराश्व-सुतः पारः पृथुसेनः तत्-आत्मजः।
पारस्य तनयः नीपः तस्य पुत्र-शतम् तु अभूत्॥ 24

सः कृत्व्याम् शुक-कन्यायाम् ब्रह्मदत्तम् अजीजनत्।
सः योगी गवि-भार्यायाम् विष्वक्सेनम् अधात् सुतम्॥ 25

जैगीषव्य-उपदेशेन योग-तन्त्रम् चकार ह।
उदक्स्वनः ततः तस्मात् भल्लादः बार्हदीषवाः॥ 26

यवीनरः द्विमीढस्य कृतिमान् तत्सुतः स्मृतः।
नाम्ना सत्यधृतिः यस्य दृढनेमिः सुपार्श्व-कृत्॥ 27

सुपार्श्वात् सुमतिः तस्य पुत्रः सन्नतिमान् ततः।
कृतीः हिरण्यनाभात् यः योगम् प्राप्य जगौ स्म षट्॥ 28

संहिताः प्राच्य-साम्नाम् वै नीपः हि उग्रायुधः ततः।
तस्य क्षेम्यः सुवीरः-अथ सुवीरस्य रिपुञ्जयः॥ 29

ततः बहुरथः नाम पुरुमीढः-अप्रजः अभवत्।
नलिन्याम् अजमीढस्य नीलः शान्तिः सुतः ततः॥ 30

शान्तेः सुशान्तिः तत्-पुत्रः पुरुजः अर्कः ततः अभवत्।
भर्म्याश्वः तनयः तस्य पञ्च-आसन् मुद्गल-आदयः॥ 31

यवीनरः बृहदिषुः काम्पिल्यः संजयः सुताः।
भर्म्याश्वः प्राह पुत्राः मे पञ्चानाम् रक्षणाय हि॥ 32

विषयाणाम् अलम् इमे इति पञ्चाल-संज्ञिताः।
मुद्गलात् ब्रह्म निर्वृत्तम् गोत्रम् मौद्गल्य-संज्ञितम्॥ 33

मिथुनम् मुद्गलात् भार्म्यात् दिवोदासः पुमान् अभूत्।
अहल्या कन्यका यस्याम् शतानन्दः तु गौतमात्॥ 34

तस्य सत्यधृतिः पुत्रः धनुर्वेद-विशारदः।
शरद्वान् तत्-सुतः यस्मात् उर्वशी-दर्शनात् किल॥ 35

शर-स्तम्बे अपतत् रेतः मिथुनम् तत् अभूत् शुभम्।
तत् दृष्ट्वा कृपया-अगृह्णात् शन्तनुः मृगयाम् चरन्।
कृपः कुमारः कन्या च द्रोण-पत्नी अभवत् कृपी॥ 36

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवम स्कन्धे एकविंशोऽध्यायः॥ 21 ॥

No comments: