புரு பரம்பரை
ஸ்கந்தம் 9: அத்யாயம் 20
श्री-शुकः उवाच।
पूरोः वंशं प्रवक्ष्यामि यत्र जातः असि भारत।
यत्र राज-ऋषयः वंश्याः ब्रह्म-वंश्याः च जज्ञिरे ॥१॥
जनमेजयः हि अभूत् पूरोः प्रचिन्वान् तत्-सुतः ततः।
प्रवीरः अथ नमस्युः वै तस्मात् चारु-पदः अभवत् ॥२॥
तस्य सुद्युः अभूत् पुत्रः तस्मात् बहु-गवः ततः।
संयातिः तस्य आंहयातिः रौद्र-आश्वः तत्-सुतः स्मृतः ॥३॥
ऋतेयुः तस्य कक्षेयुः स्थण्डिलेयुः कृतेयुकः।
जलेयुः सन्ततेयुः च धर्म-सत्य-व्रतेयवः ॥४॥
दश एते अप्सरसः पुत्राः वनेयुः च अवमः स्मृतः।
घृताच्याम् इन्द्रियाणि इव मुख्यस्य जगद्-आत्मनः ॥५॥
ऋतेयुः रन्तिभारः अभूत् त्रयः तस्य आत्मजाः नृप।
सुमतिः ध्रुवः अप्रतिरथः कण्वः अप्रतिरथ-आत्मजः ॥६॥
तस्य मेधातिथिः तस्मात् प्रस्कण्व-आद्याः द्विजातयः।
पुत्रः अभूत् सुमतेः रैभ्यः दुष्यन्तः तत्-सुतः मतः ॥७॥
दुष्यन्तः मृगयाम् यातः कण्व-आश्रम-पदं गतः।
तत्र आसीनाम् स्व-प्रभया मण्डयन्तीं रमाम् इव ॥८॥
विलोक्य सद्यः मुमुहे देव-मायाम् इव स्त्रियम्।
बभाषे तां वर-आरोहां भटैः कतिपयैः वृतः ॥९॥
तत्-दर्शन-प्रमुदितः संनिवृत्त-परिश्रमः।
पप्रच्छ काम-संतप्तः प्रहसन् श्लक्ष्णया गिरा ॥१०॥
का त्वं कमल-पत्र-आक्षि कस्य असि हृदय-अङ्गमे।
किं वा चिकीर्षितं तु अत्र भवत्या निर्जने वने ॥११॥
व्यक्तं राजन्य-तनयां वेद्मि अहं त्वां सुमध्यमे।
न हि चेतः पौरवाणां अधर्मे रमते क्वचित् ॥१२॥
श्री-शकुन्तला उवाच।
विश्वा-मित्र-आत्मजैः एव अहं त्यक्ता मेनकया वने।
वेद एतत् भगवान् कण्वः वीर किं करवाम ते ॥१३॥
आस्यतां हि अरविन्द-आक्ष गृह्यतां अर्हणं च नः।
भुज्यतां सन्ति नीवाराः उष्यतां यदि रोचते ॥१४॥
दुष्यन्तः उवाच।
उपपन्नम् इदं सुभ्रु जातायाः कुशिक-आन्वये।
स्वयं हि वृणुते राज्ञां कन्यकाः सदृशं वरम् ॥१५॥
ओम् इति उक्ते यथा धर्मम् उपयेमे शकुन्तलाम्।
गान्धर्व-विधिना राजा देश-काल-विधान-वित् ॥१६॥
अमोघ-वीर्यः राज-ऋषिः महिष्यां वीर्यम् आदधे।
श्वोभूते स्वपुरं यातः कालेन असूत सा सुतम् ॥१७॥
कण्वः कुमारस्य वने चक्रे समुचिताः क्रियाः।
बद्ध्वा मृगेन्द्रान् तरसा क्रीडति स्म स बालकः ॥१८॥
तं दुरत्यय-विक्रान्तम् आदाय प्रमद-उत्तमा।
हरेः अंश-अंश-सम्भूतं भर्तुः अन्तिकम् आगमत् ॥१९॥
यदा न जगृहे राजा भार्या-पुत्रौ अनिन्दितौ।
श्रृण्वतां सर्व-भूतानां खे वाक् आहा-शरीरिणी ॥२०॥
माता भस्त्रा पितुः पुत्रः येन जातः सः एव सः।
भरस्व पुत्रं दुष्यन्त मा अवमंस्थाः शकुन्तलाम् ॥२१॥
रेतोधाः पुत्रः नयति नर-देव यम-अक्षयात्।
त्वं च अस्य धाता गर्भस्य सत्यं आह शकुन्तला ॥२२॥
पितरि उपरते सः अपि चक्रवर्ती महा-यशाः।
महिमा गीयते तस्य हरेः अंश-भुवः भुवि ॥२३॥
चक्रं दक्षिण-हस्ते अस्य पद्म-कोशः अस्य पादयोः।
ईजे महा-अभिषेकेण सः अभिषिक्तः अधिराट् विभुः ॥२४॥
पञ्च-पञ्चाशता मेध्यैः गङ्गायाम् अनु वाजिभिः।
मामतेयं पुरोधाय यमुनाम् अनु प्रभुः ॥२५॥
अष्ट-सप्तति मेध्य-अश्वान् बबन्ध प्रददद् वसु।
भरतस्य हि दौष्यन्तेः अग्निः साची-गुणे चितः।
सहस्रं बद्वशः यस्मिन् ब्राह्मणा गाः विभेजिरे ॥२६॥
त्रयः त्रिंशत्-शतं हि अश्वान् बद्ध्वा विस्मापयन् नृपान्।
दौष्यन्तिः अत्यगात् मायां देवानां गुरुम् आययौ ॥२७॥
मृगान् शुक्ल-दतः कृष्णान् हिरण्येन परीवृतान्।
अदात् कर्मणि मष्णारे नियुतानि चतुर्दश ॥२८॥
भरतस्य महत् कर्म न पूर्वे न अपरे नृपाः।
न एव अपुः न एव प्राप्स्यन्ति बाहुभ्यां त्रिदिवं यथा ॥२९॥
किरात-हूणान् यवनान् अन्ध्रान् कङ्कान् खशान् शकान्।
अब्रह्मण्यान् नृपान् च अहन् म्लेच्छान् दिग्विजये अखिलान् ॥३०॥
जित्वा पुरा असुरान् देवान् ये रस-औकांसि भेजिरे।
देव-स्त्रियः रसां नीताः प्राणिभिः पुनः आहरत् ॥३१॥
सर्व-अकामान् दुदुहतुः प्रजानां तस्य रोदसी।
समाः त्रि-नव-साहस्रीः दिक्षु चक्रम् अवर्तयत् ॥३२॥
सः सम्राट् लोकपाल-आख्यम् ऐश्वर्यम् अधिराट् श्रियम्।
चक्रम् च अस्खलितं प्राणान् मृषेत्य् उपरराम ह ॥३३॥
तस्य आसन् नृप वैदर्भ्यः पत्न्यः तिस्रः सुसम्मताः।
जघ्नुः त्याग-भयात् पुत्रान् न अनुरूपाः इति ईरिते ॥३४॥
तस्य एवं वितथे वंशे तदर्थं यजतः सुतम्।
मरुत्स्तोमेन मरुतः भरद्वाजम् उपाददुः ॥३५॥
अन्तर्वत्न्यां भ्रातृ-पत्न्यां मैथुनाय बृहस्पतिः।
प्रवृत्तः वारितः गर्भं शप्त्वा वीर्यम् अवासृजत् ॥३६॥
तं त्यक्तु-कामां ममतां भर्तृ-त्याग-विशङ्किताम्।
नाम-निर्वाचनं तस्य श्लोकम् एनं सुराः जगुः ॥३७॥
मूढे भर द्वाजम् इमं भर द्वाजं बृहस्पते।
यातौ यद् उक्त्वा पितरौ भरद्वाजः ततः तु अयम् ॥३८॥
चोद्यमानाः सुरैः एवम् मत्वा वितथम् आत्मजम्।
व्यसृजन् मरुतः अभिभ्रन् दत्तः अयं वितथे अन्वये ॥३९॥
No comments:
Post a Comment