Followers

Search Here...

Sunday, 30 March 2025

ஸ்கந்தம் 9: அத்யாயம் 19 (யயாதி மோக்ஷம்) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

யயாதி மோக்ஷம்

ஸ்கந்தம் 9: அத்யாயம் 19

श्रीशुक उवाच।
स इत्थं आचरन् कामान् स्त्रैणः अपह्नवम् आत्मनः।
बुद्ध्वा प्रियायै निर्विण्णो गाथाम् एताम् अगायत ॥१॥

श्रृणु भार्गव्यम् अमुं गाथां मद्विध-आचरितां भुवि।
धीरा यस्य अनुशोचन्ति वने ग्राम-निवासिनः ॥२॥

बस्त एकः वने कश्चित् विचिन्वन् प्रियम् आत्मनः।
ददर्श कूपे पतितां स्वकर्म-वशगां अजाम् ॥३॥

तस्या उद्धरण-उपायं बस्तः कामी विचिन्तयन्।
व्यधत्त तीर्थम् उद्धृत्य विषाणाग्रेण रोधसी ॥४॥

सोत्तीर्य कूपात् सुश्रोणी तमेव चकमे किल।
तया वृतं समुद्वीक्ष्य बह्व्यः अजाः कान्त- कामिनीः ॥५॥

पीवानं श्मश्रुलं प्रेष्ठं मीढ्वांसं याभ- कोविदम्।
सः एकः अजा-वृषः तासां बह्वीनां रति-वर्धनः।
रेमे काम-ग्रह-ग्रस्तः आत्मानं न अवबुध्यत ॥६॥

तमेव प्रेष्ठतमया रममाणम् अज- अन्यया।
विलोक्य कूप-संविग्ना न अमृष्यत् बस्त-कर्म तत् ॥७॥

तं दुर्हृदं सुहृद्-रूपं कामिनं क्षण-सौहृदम्।
इन्द्रिय-आरामम् उत्सृज्य स्वामिनं दुःखिता ययौ ॥८॥

सोऽपि च अनुगतः स्त्रैणः कृपणः ताम् प्रसादितुम्।
कुर्वन् इडविडा-आकारं न अशक्नोत् पथि संधितुम् ॥९॥

तस्याः तत्र द्विजः कश्चित् अज-स्वामी अछिनत् रुषा।
लम्बन्तं वृषणं भूयः सन्दधे अर्थाय योगवित् ॥१०॥

सम्बद्ध-वृषणः सः अपि हि अजया कूप-लब्धया।
कालं बहु-तिथं भद्रे कामैः न अद्यापि तुष्यति ॥११॥

तथा अहं कृपणः सुभ्रु भवत्याः प्रेम-यन्त्रितः।
आत्मानं न अभिजानामि मोहितः तव मायया ॥१२॥

यत् पृथिव्यां व्रीहि-यवं हिरण्यं पशवः स्त्रियः।
न दुह्यन्ति मनः-प्रीतिं पुंसः काम-हतस्य ते ॥१३॥

न जातु कामः कामानाम् उपभोगेन शाम्यति।
हविषा कृष्ण-वर्त्म इव भूयः एव अभिवर्धते ॥१४॥

यदा न कुरुते भावं सर्व-भूतेषु अमङ्गलम्।
सम-दृष्टेः तदा पुंसः सर्वाः सुख-मया दिशः ॥१५॥

या दुस्त्यजा दुर्मतिभिः जीर्यतः या न जीर्यते।
तां तृष्णां दुःख-निवहां शर्म-कामो द्रुतं त्यजेत् ॥१६॥

मात्रा स्वस्रा दुहित्रा वा न अविविक्त-आसनो भवेत्।
बलवान् इन्द्रिय-ग्रामः विद्वांसम् अपि कर्षति ॥१७॥

पूर्णं वर्ष-सहस्रं मे विषयान् सेवतः असकृत्।
तथापि च अनुसवनं तृष्णा तेषु उपजायते ॥१८॥

तस्मात् एताम् अहं त्यक्त्वा ब्रह्मणि अध्यायमानसम्।
निर्द्वन्द्वो निरहंकारः चरिष्यामि मृगैः सह ॥१९॥

दृष्टं श्रुतम् असत् बुद्ध्वा न अनुध्यायेत् न संविशेत्।
संसृतिं च आत्म-नाशं च तत्र विद्वान् सः आत्मदृक् ॥२०॥

इत्युक्त्वा नाहुषः जायां तदीयं पूरवे वयः।
दत्त्वा स्वां जरसं तस्मात् आददे विगतस्पृहः ॥२१॥

दिशि दक्षिण-पूर्वस्यां द्रुह्युम् दक्षिणतः यदुम्।
प्रतीच्यां तुर्वसुं चक्रे उदीच्यां अनुं ईश्वरम् ॥२२॥

भूमण्डलस्य सर्वस्य पूरुम् अर्हत्तमं विशाम्।
अभिषिच्य अग्रजाः तस्य वशे स्थाप्य वनं ययौ ॥२३॥

आसेवितं वर्ष-पूगान् षड्वर्गं विषयेषु सः।
क्षणेन मुमुचे नीडं जातपक्ष इव द्विजः ॥२४॥

स तत्र निर्मुक्त-समस्त-सङ्गः।
आत्मानुभूत्या विधुत-त्रिलिङ्गः।
परे अमले ब्रह्मणि वासुदेवे।
लेभे गतिं भागवतीं प्रतीतः ॥२५॥

श्रुत्वा गाथां देवयानी मेने प्रस्तोभम् आत्मनः।
स्त्री-पुंसोः स्नेह-वैक्लव्यात् परिहासम् इव इरितम् ॥२६॥

सा सन्निवासं सुहृदां प्रपायाम् इव गच्छताम्।
विज्ञाय ईश्वर-तन्त्राणां माया-विरचितं प्रभोः ॥२७॥

सर्वत्र सङ्गम् उत्सृज्य स्वप्न-औपम्येन भार्गवी।
कृष्णे मनः समावेश्य व्यधुनोत् लिङ्गम् आत्मनः ॥२८॥

नमस् तुभ्यं भगवते वासुदेवाय वेधसे।
सर्व-भूत-अधिवासाय शान्ताय बृहते नमः ॥२९॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवम स्कन्धे एकोनविंश: अध्यायः ॥ 19 ॥

No comments: