யயாதி இளமை திரும்பியது
ஸ்கந்தம் 9: அத்யாயம் 18
श्री-शुक-उवाच।
यति-र्ययातिः सं-यातिः आयतिः वियतिः कृतिः।
षट्-इमे नहुषस्य आसन् इन्द्रियाणि इव देहिनः ॥१॥
राज्यं न ऐच्छत् यतिः पित्रा दत्तं तत् परिणाम-वित्।
यत्र प्रविष्टः पुरुषः आत्मानं न अवबुध्यते ॥२॥
पितरि भ्रंशिते स्थानात् इन्द्राण्या धर्षणात् द्विजैः।
प्रापिते अजगरत्वं वै ययातिः अभवत् नृपः ॥३॥
चतसृषु आदेशत् दिक्षु भ्रातॄन् भ्राता यवीयसः।
कृत-दारः जुगोप उर्वीं काव्यस्य वृषपर्वणः ॥४॥
श्री-राजा-उवाच।
ब्रह्म-ऋषिः भगवान् काव्यः क्षत्र-बन्धुः च नाहुषः।
राजन्य-विप्रयोः कस्मात् विवाहः प्रति-लोमकः ॥५॥
श्री-शुक-उवाच।
एकदा दानव-इन्द्रस्य शर्मिष्ठा नाम कन्यका।
सखी-सहस्र-संयुक्ता गुरु-पुत्र्या च भामिनी ॥६॥
देव-यानीयाः पुरो-उद्यानें पुष्पित-द्रुम-सङ्कुले।
व्यचरत् कल-गीत-अलि-नलिनी-पुलिने अबला ॥७॥
ता जलाशयम् आसाद्य कन्याः कमल-लोचनाः।
तीरे न्यस्य दुकूलानि विजह्रुः सिञ्चतीः मिथः ॥८॥
वीक्ष्य व्रजन्तं गिरिशं सह देव्या वृष-स्थितम्।
सहसा उत्तीर्य वासांसि पर्यधुः व्रीडिताः स्त्रियः ॥९॥
शर्मिष्ठा जानती वासः गुरु-पुत्र्याः सम-अव्ययत्।
स्वीयं मत्वा प्रकुपिता देव-यानी इदम् अब्रवीत् ॥१०॥
देव-यानी उवाच।
अहो निरीक्ष्यताम् अस्याः दास्याः कर्म हि असाम्प्रतम्।
अस्मत्-धार्यं धृतवती शुनी इव हविः अध्वरे ॥११॥
यैः इदं तपसा सृष्टं मुखं पुंसः परस्य ये।
धार्यते यैः इह ज्योतिः शिवः पन्थाः च दर्शितः ॥१२॥
यान् वन्दन्ति उपतिष्ठन्ते लोक-नाथाः सुर-ईश्वराः।
भगवान् अपि विश्व-आत्मा पावनः श्री-निकेतनः ॥१३॥
वयं तत्र अपि भृगवः शिष्यः अस्या नः पिता असुरः।
अस्मत्-धार्यं धृतवती शूद्रः वेदम् इव असती ॥१४॥
शर्मिष्ठा उवाच।
एवं शपन्तीं शर्मिष्ठा गुरु-पुत्रीम् अभाषत।
रुषा श्वसन्ती उरङ्गी इव धर्षिता दष्ट-दच्छदा ॥१५॥
आत्म-वृत्तम् अविज्ञाय कत्थसे बहु भिक्षुकि।
किं न प्रतीक्षसे अस्माकं गृहान् बलि-भुजः यथा ॥१६॥
शुक-देव उवाच।
एवं-विदैः सुपरुषैः क्षिप्त्वा आचार्य-सुतां सतीम्।
शर्मिष्ठा प्राक्षिपत् कूपे वासः आदाय मन्युना ॥१७॥
तस्यां गतायां स्वगृहं ययातिः मृगयां चरन्।
प्राप्तः यदृच्छया कूपे जल-अर्थी तां ददर्श ह ॥१८॥
दत्त्वा स्वम् उत्तरं वासः तस्यै राजा विवाससे।
गृहीत्वा पाणिना पाणिम् उद्धार दया-परः ॥१९॥
देव-यानी उवाच।
तं वीरम् आह औशनसी प्रेम-निर्भरया गिरा।
राजन् त्वया गृहीतः मे पाणिः पर-पुर-अञ्जय ॥२०॥
देवयानी उवाच।
हस्त-ग्राहः अपरः मा भूत् गृहीतायाः त्वया हि मे।
एषः ईश-कृतः वीर सम्बन्धः नौ न पौरुषः।
यत् इदं कूप-लग्नायाः भवतः दर्शनं मम ॥२१॥
न ब्राह्मणः मे भविता हस्त-ग्राहः महा-भुज।
कचस्य बार्हस्पत्यस्य शापात् यम-शपं पुरा ॥२२॥
शुक-देव उवाच।
ययातिः अनभि-प्रेतं दैव-उपहृतम् आत्मनः।
मनः तु तत्-गतं बुद्ध्वा प्रति-जग्राह तत्-वचः ॥२३॥
गते राजनि सा वीरे तत्र स्म रुदती पितुः।
न्यवेदयत् ततः सर्वम् उक्तं शर्मिष्ठया कृतम् ॥२४॥
दुर्मनाः भगवान् काव्यः पौरोहित्यं विगर्हयन्।
स्तुवन् वृत्तिं च कापोतीं दुहित्रा स ययौ पुरात् ॥२५॥
वृषपर्वा उवाच।
वृषपर्वा तम् आज्ञाय प्रत्य-नीक-विवक्षितम्।
गुरुं प्रसादयन् मूर्ध्ना पादयोः पतितः पथि ॥२६॥
क्षण-अर्ध-मन्युः भगवान् शिष्यं व्याचष्ट भार्गवः।
कामः अस्याः क्रियतां राजन् न एनां त्यक्तुम् इह उत्सहे ॥२७॥
तथा इति अवस्थिते प्राह देवयानी मनो-गतम्।
पित्रा दत्ता यतः यास्ये स-अनुगा यातु माम् अनु ॥२८॥
शुक-देव उवाच।
स्वानां तत् सङ्कटं वीक्ष्य तत्-अर्थस्य च गौरवम्।
देवयानीं पर्य-चरत् स्त्री-सहस्रेण दासवत् ॥२९॥
नाहुषाय सुतां दत्त्वा सह शर्मिष्ठया उशनः।
तम् आह राजन् शर्मिष्ठां मा धाः तल्पे न कर्हिचित् ॥३०॥
शुकदेव उवाच।
विलोक्य उशनसीं राजन् शर्मिष्ठा स-प्रजां क्वचित्।
तम् एव वव्रे रहसि सख्याः पतिम् ऋतौ सती ॥३१॥
राज-पुत्र्याः अर्थितः अपत्ये धर्मं च आवेक्ष्य धर्म-वित्।
स्मरन् शुक्र-वचः काले दिष्टम् एव अभ्यपद्यत ॥३२॥
शुकदेव उवाच।
यदुं च तुर्वसुं चैव देवयानी व्यजायत।
द्रुह्युं च अनुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ॥३३॥
गर्भ-सम्भवम् आसुर्या भर्तुः विज्ञाय मानिनी।
देवयानी पितुः गेहं ययौ क्रोध-विमूर्छिता ॥३४॥
प्रियाम् अनुगतः कामी वचोभिः उपमन्त्रयन्।
न प्रसादयितुं शेके पाद-संवाहन-आदिभिः ॥३५॥
शुक्र उवाच।
शुक्रः तम् आह कुपितः स्त्री-काम-अनृत-पूर्ष।
त्वां जरा विशतां मन्द विरूप-करणी नृणाम् ॥३६॥
श्री-ययातिर् उवाच।
अतृप्तः अस्मि अद्य कामानां ब्रह्मन् दुहितरि स्म ते।
व्यत्यस्यतां यथा-कामं वयसा यः अभिधास्यति ॥३७॥
शुकदेव उवाच।
इति लब्ध-व्यवस्थानः पुत्रं ज्येष्ठम् अवोचत।
यदो तात प्रतीच्छ इमां जरां देहि निजं वयः ॥३८॥
मातामह-कृतां वत्स न तृप्तो विषयेषु अहम्।
वयसा भवदीयेन रंस्ये कतिपयाः समाः ॥३९॥
श्री-यदुर् उवाच।
न उत्सहे जरसा स्थातुम् अन्तराः प्राप्तया तव।
अविदित्वा सुखं ग्राम्यं वैतृष्ण्यं न एति पूरुषः ॥४०॥
शुकदेव उवाच।
तुर्वसुः चोदितः पित्रा द्रुह्युः च अनुश्च भारत।
प्रत्याचख्युः अधर्म-ज्ञाः हि अनित्ये नित्य-बुद्धयः ॥४१॥
अपृच्छत् तनयं पूरुं वयसा उनं गुणाधिकम्।
न त्वम् अग्रज-वद् वत्स मां प्रत्याख्यातुम् अर्हसि ॥४२॥
श्री-पूरुर् उवाच।
को नु लोके मनुष्येन्द्र पितुः आत्म-कृतः पुमान्।
प्रतिकर्तुं क्षमः यस्य प्रसादात् विन्दते परम् ॥४३॥
उत्तमः चिन्तितं कुर्यात् प्रोक्त-कारी तु मध्यमः।
अधमः अश्रद्धया कुर्यात् अकर्ता उच्छरितं पितुः ॥४४॥
शुकदेव उवाच।
इति प्रमुदितः पूरुः प्रत्यगृह्णात् जरां पितुः।
सः अपि तद् वयसा कामान् यथावत् जुजुषे नृप ॥४५॥
सप्त-द्वीप-पतिः सम्यक् पितृवत् पालयन् प्रजाः।
यथोपजोषं विषयान् जुजुषे अव्याहत-इन्द्रियः ॥४६॥
देवयानी अपि अनुदिनं मनो-वाक्-देह-वस्तुभिः।
प्रेयसः परमां प्रीतिम् उवाह प्रेयसी रहः ॥४७॥
अयजत् यज्ञ-पुरुषं क्रतुभिः भूरि-दक्षिणैः।
सर्व-देव-मयं देवं सर्व-वेद-मयं हरिम् ॥४८॥
यस्मिन् इदं विरचितं व्योम्नि इव जलद-आवलिः।
नानेव भाति न अभाति स्वप्न-माया-मनो-रथः ॥४९॥
तम् एव हृदि विन्यस्य वासुदेवं गुहा-शयम्।
नारायणम् अणीयांसं निराशिः अयजत् प्रभुम् ॥५०॥
एवं वर्ष सहस्राणि मनःषष्ठैर्मनःसुखम्।
विदधानोऽपि ना-तृप्यत् सार्वभौमः कदिन्द्रियैः ॥ 51
No comments:
Post a Comment