புரூரவஸ் பரம்பரை
ஸ்கந்தம் 9: அத்யாயம் 17
श्री-शुक-उवाच।
यः पुरूरवसः पुत्र आयुः तस्या भवन् सुताः।
नहुषः क्षत्र-वृद्धः च रजी रम्भः च वीर्य-वान् ॥१॥
अनेना इति राजेन्द्र शृणु क्षत्र-वृद्धः अन्वयम्।
क्षत्र-वृद्ध सुतस्य आसन् सुहोत्रस्य आत्मजाः त्रयः ॥२॥
काश्यः कुशः गृत्समदः इति गृत्समदात् अभूत्।
शुनकः शौनकः यस्य बह्वृच-प्रवरः मुनिः ॥३॥
काश्यस्य काशिः तत् पुत्रः राष्ट्रः दीर्घतमः पिता।
धन्वन्तरिः दैर्घतम आयुर्वेद-प्रवर्तकः ॥४॥
यज्ञ-भुक् वासुदेव-अंशः स्मृत-मात्र-आर्ति-नाशनः।
तत् पुत्रः केतुमानस्य जज्ञे भीम-रथः ततः ॥५॥
दिवोदासः द्युमान् तस्मात् प्रतर्दनः इति स्मृतः।
स एव शत्रु-जित् वत्स ऋत-ध्वजः इति ईरितः।
तथा कुवलय-आश्वः इति प्रोक्तः अलर्क-आदयः ततः ॥६॥
षष्टि-वर्ष-सहस्राणि षष्टि-वर्ष-शतानि च।
न-अलर्कात् अपरः राजन् मेदिनीं बुभुजे युवा ॥७॥
अलर्कात् सन्ततिः तस्मात् सुनीथः अथ सुकेतनः।
धर्म-केतुः सुतः तस्मात् सत्य-केतुः अजायत ॥८॥
धृष्ट-केतुः सुतः तस्मात् सुकुमारः क्षितीश्वरः।
वीति-होत्रस्य भर्गः अतो भार्ग-भूमिः अभूत् नृप ॥९॥
इति इमे काशयः भूपाः क्षत्र-वृद्ध-अन्वय-आयिनः।
रम्भस्य रभसः पुत्रः गम्भीरः च आक्रियः ततः ॥१०॥
तस्य क्षेत्रे ब्रह्म जज्ञे श्रृणु वंशम् अनेनसः।
शुद्धः ततः शुचिः तस्मात् त्रिककुद् धर्म-सारथिः ॥११॥
ततः शान्तरयः जज्ञे कृतकृत्यः स आत्मवान्।
रजेः पञ्च-शतानि आसन् पुत्राणाम् अमित-ओजसाम् ॥१२॥
देवैः अभ्यर्थितः दैत्यान् हत्वा इन्द्राय अददात् दिवम्।
इन्द्रः तस्मै पुनः दत्त्वा गृहीत्वा चरणौ रजेः ॥१३॥
आत्मानम् अर्पयामास प्रह्राद-आद्य-अरि-शङ्कितः।
पितरि उपरते पुत्राः याचमानाय नः ददुः ॥१४॥
त्रिविष्टपं महा-इन्द्राय यज्ञ-भागान् समाददुः।
गुरुणा हूयमाने अग्नौ बल-भित् तनयान् रजेः ॥१५॥
अवधीद् भ्रंशितान् मार्गात् न कश्चित् अवशेषितः।
कुशात् प्रतिः क्षात्र-वृद्धात् सञ्जयः तत् सुतः जयः ॥१६॥
ततः कृतः कृतस्य अपि जज्ञे हर्य-वनः नृपः।
सहदेवः ततः हीनः जयसेनः तु तत् सुतः ॥१७॥
सङ्कृतिः तस्य च जयः क्षत्र-धर्मा महा-रथः।
क्षात्र-वृद्ध-अन्वयाः भूपाः श्रृणु वंशं च नाहुषात् ॥१८॥
No comments:
Post a Comment