யசோதை கண்ணனை உரலில் கட்டுகிறாள்
ஸ்கந்தம் 10: அத்யாயம் 9
श्री शुक उवाच
एकदा गृहा-दासीषु यशोदा नन्द-गेहिनी।
कर्म-अन्तर-नियुक्तासु निर्ममन्थ स्वयं दधि ॥ १ ॥
यानि यानि इह गीतानि तद् बाल-चरितानि च।
दधि-निर्मन्थने काले स्मरन्ती तानि अगायत ॥ २ ॥
क्षौमं वासः पृथु-कटि-तटे बिभ्रती सूत्र-नद्धम्।
पुत्र-स्नेह-स्नुत-कुच-युगं जात-कम्पं च सुभ्रूः।
रज्ज्वा-आकर्ष-श्रम-भुज-चलत् कङ्कणौ कुण्डले च
स्विन्नं वक्त्रं कबर-विगलत् मालती निर्ममन्थ ॥ ३ ॥
तां स्तन्य-कामः आसाद्य मथ्नन्तीं जननीं हरिः।
गृहीत्वा दधि-मन्थानं न्यषेधत् प्रीतिम् आवहन् ॥ ४ ॥
तम् अङ्कम् आरूढम् अपाययत् स्तनं
स्नेह-स्नुतं सस्मितम् ईक्षती मुखम्।
अतृप्तम् उत्सृज्य जवेन सा ययौ
उत्सिच्यमाने पयसि तु अधि-श्रिते ॥ ५ ॥
सञ्जात-कोपः स्फुरित-अरुण-अधरं
संदृश्य दद्भिः दधि-मन्थ-भाजनम्।
भित्त्वा मृषा-अश्रुः दृषद् अश्मना रहः
जघास हैयङ्गवम् अन्तरं गतः ॥ ६ ॥
उत्तार्य गोपी सुशृतं पयः पुनः
प्रविश्य संदृश्य च दधि-अमत्रकम्।
भग्नं विलोक्य स्व-सुतस्य कर्म
तत् जहास तं च अपि न तत्र पश्यती ॥ ७ ॥
उलूखल-अङ्घ्रिः उपरि व्यवस्थितं
मर्काय कामं ददतं शिचि स्थितम्।
हैयङ्गवं चौर्य-विशङ्कित-ईक्षणं
निरीक्ष्य पश्चात् सुतम् आगमच्छ शनैः ॥ ८ ॥
तां आत्त-यष्टिं प्र-समीक्श्य सत्वरः
ततः अवरुह्य अपससार भीतवत्।
गोप्य् अन्वधावत् न यम् आप योगिनां
क्षमं प्रवेष्टुं तपसा ईरितं मनः ॥ ९ ॥
अन्वञ्चमाना जननी बृहत्-चलत्
श्रोणी-भर-आक्रान्त-गतिः सुमध्यमा।
जवेन विस्रंसित-केश-बन्धना
च्युत-प्रसून-अनुगतिः परामृशत् ॥ १० ॥
कृत-अगसं तं प्ररुदन्तम् अक्षिणी
कषन्तम् अञ्जन्-मषिणी स्व-पाणिना।
उद्वीक्षमाणं भय-विह्वल-ईक्षणं
हस्ते गृहीत्वा भिषयन्ती अवागुरत् ॥ ११ ॥
त्यक्त्वा यष्टिं सुतं भीतं विज्ञाय अर्भक-वत्सला।
इयेष किल तं बद्धुं दाम्ना अतद् वीर्य-कोविदा ॥ १२ ॥
न च अन्तः न बहिः यस्य न पूर्वं न अपि च अपरम्।
पूर्व-अपरं बहिः च अन्तः जगतः यः जगत् च यः ॥ १३ ॥
तं मत्वा आत्मजम् अव्यक्तं मर्त्य-लिङ्गम् अधोक्षजम्।
गोपिका उलूखले दाम्ना बबन्ध प्राकृतं यथा ॥ १४ ॥
तत् दाम बध्यमानस्य स्व-अर्भकस्य कृत-अगसः।
द्व्यङ्गुलम् उन्म अभूत् तेन सन्दधे अन्यच् च गोपिका ॥ १५ ॥
यदा आसीत् तत् अपि न्यूनं तेन अन्यद् अपि सन्दधे।
तत् अपि द्व्यङ्गुलं न्यूनं यत् यत् आत्त बन्धनम् ॥ १६ ॥
एवं स्व-गेह-दामानि यशोदा सन्दधती अपि।
गोपीनां सुस्मयन्तीनां स्मयन्ती विस्मिता अभवत् ॥ १७ ॥
स्व-मातुः स्विन्न-गात्रायाः विस्रस्त-कबर-स्रजः।
दृष्ट्वा परिश्रमं कृष्णः कृपया आसीत् स्व-बन्धने ॥ १८ ॥
एवं सन्दर्शिता हि अङ्ग हरिणा भृत्य- वश्यता।
स्व-वशेन अपि कृष्णेन यस्य इदं स-ईश्वरं वशे ॥ १९ ॥
न एषं विरिञ्चः न भवः न श्रीः अपि अङ्ग-संश्रया।
प्रसादं लेभिरे गोपी यत् तत् प्राप विमुक्ति-दात् ॥ २० ॥
नायं सुख-आपः भगवान् देहिनां गोपिका-सुतः।
ज्ञानिनां च आत्म-भूतानां यथा भक्तिमताम् इह ॥ २१ ॥
कृष्णः तु गृह-कृत्येषु व्यग्रायां मातरि प्रभुः।
अद्राक्षीत् अर्जुनौ पूर्वं गुह्यकौ धनद-आत्मजौ ॥ २२ ॥
पुरा नारद-शापेन वृक्षतां प्रापितौ मदात्।
नलकूबर-मणिग्रीवौ इति ख्यातौ श्रियान्वितौ ॥ २३ ॥
No comments:
Post a Comment