Followers

Search Here...

Sunday, 30 March 2025

ஸ்கந்தம் 8: அத்யாயம் 15 (பலி சக்கரவர்த்தி மேலுலகங்களை கைப்பற்றினான் ) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

பலி சக்கரவர்த்தி மேலுலகங்களை கைப்பற்றினான் 

ஸ்கந்தம் 8: அத்யாயம் 15

श्री-राजः-उवाच।

बलेः पद-त्रयं भूमेः कस्मात्-हरिः-अयाचत।
भूत्वा-ईश्वरः कृपण-वल्लभ-लभ्ध-अर्थः-अपि बबन्ध तम्॥ 1

एतत् वेदितुम्-इच्छामः महत् कौतूहलम् हि नः।
यज्ञ-ईश्वरस्य पूर्णस्य बन्धनम् च-अपि अनागसः॥ 2

श्री-शुकः-उवाच।
पराजित-श्रीः-असुभिः-च हापितः
इन्द्रेण राजन्-भृगुभिः स जीवितः।
सर्व-आत्मना तान्-अभजत् भृगून्-बलिः
शिष्यः महात्मा-अर्थ-निवेदनेन॥ 3

तम् ब्राह्मणाः भृगवः प्रीयमाणाः
अयाजयन्-विश्वजिता त्रिणाकम्।
जिगीषमाणम् विधिना-अभिषिच्य
महाभिषेकेण महानुभावाः॥ 4

ततः रथः काञ्चन-पट्ट-नद्धः
हयाः-च हर्य-अश्व-तुरङ्ग-वर्णाः।
ध्वजः-च सिंहेन विराजमानः
हुताशनात्-आस हविभिः-इष्टात्॥ 5

धनुः-च दिव्यम् पुरट-उपनद्धम्
तूण-अवरिक्तौ कवचम्-च दिव्यम्।
पितामहः-तस्य ददौ-च माला
अम्लान-पुष्पाम् जलजम्-च शुक्रः॥ 6

एवम् स विप्र-अर्जित-योधन-अर्थः
तैः कल्पित-स्वस्त्य-यनः-अथ विप्रान्।
प्रदक्षिणीकृत्य कृत-प्रणामः
प्रह्लादम्-आमन्त्र्य नमः-चकार॥ 7

अथ-आरुह्य रथम् दिव्यम् भृगु-दत्तम् महा-रथः।
सु-स्रक्-धरः-अथ संनह्य धन्वी खड्गी धृत-इषुधिः॥ 8

हेम-अङ्ग-दल-सद्-बाहुः स्फुरत्-मकर-कुण्डलः।
रराज रथम्-आरूढः धिष्ण्य-स्थः इव हव्य-वाट्॥ 9

तुल्य-ऐश्वर्य-बल-श्रीभिः स्व-यूथैः-दैत्य-यूथ-पैः।
पिबद्भिः-इव खम् दृग्भिः-दहद्भिः परिधीन-इव॥ 10

वृतः विकर्षन् महतीम्-आसुरीम् ध्वजिनीम् विभुः।
ययौ-इन्द्र-पुरīm स्व-उृद्धाम् कम्पयन्-इव रोदसी॥ 11

रम्याम्-उपवन-उद्यानैः श्रीमद्भिः-नन्दन-आदिभिः।
कूजत्-विहङ्ग-मिथुनैः गायत्-मत्त-मधु-व्रतैः॥ 12

प्रवाल-फल-पुष्प-उरु-भार-शाख-अमर-द्रुमैः।
हंस-सारस-चक्राह्व-कारण्डव-कुल-आकुलाः।
नलिन्यः यत्र क्रीडन्ति प्रमदाः सुर-सेविताः॥ 13

आकाश-गङ्गया देव्या वृताम् परिखा-भूतया।
प्राकार-एण-अग्नि-वर्णेन साट्टालेन-उन्नतेन च॥ 14

रुक्म-पट्ट-कपाटैः-च द्वारैः स्फटिक-गोपुरैः।
जुष्टाम् विभक्त-प्रपथाम् विश्वकर्मा-विनिर्मिताम्॥ 15

सभा-चत्वर-रथ्या-आढ्याम् विमानैः-न्यर्बुदैः-युताम्।
शृङ्गाटकैः-मणि-मयैः वज्र-विद्रुम-वेदिभिः॥ 16

यत्र नित्य-वयः-रूपाः श्यामा विरज-वाससः।
भ्राजन्ते रूप-वन-नार्यः हि-अर्चिः-भिः-इव वह्नयः॥ 17

सुर-स्त्री-केश-विभ्रष्ट नव-सौगन्धिक-स्रजाम्।
यत्र-आमोदम्-उपादाय मार्गः आवाति मारुतः॥ 18

हेम-जाल-आक्ष-निर्गच्छत्-धूमेन-अगुरु-गन्धिना।
पाण्डुरेण प्रति-च्छन्न-मार्गे यान्ति सुर-प्रियाः॥ 19

मुक्ता-वितानैः-मणि-हेम-केतुभिः
नाना-पताका-वलभी-भिः-आवृताम्।
शिखण्डि-पारावत-भृङ्ग-नादिताम्
वैमानिक-स्त्री-कल-गीत-मङ्गलाम्॥ 20

मृदङ्ग-शङ्ख-आनक-दुन्दुभि-स्वनैः स-ताल-वीणा-मुरज-र्ष्टि-वेणुभिः।

नृत्यैः स-वाद्यैः उप-देव-गीतकैः मनोरमाम् स्व-प्रभया जित-प्रभाम्॥ 21


याम् न व्रजन्ति अधर्मिष्ठाः खलाः भूत-द्रुहः शठाः।
मानिनः कामिनः लुब्धाः एभिः हीनाः व्रजन्ति यत्॥ 22


ताम् देव-धानीं स वरूथिनी-पतिः
बहिः समन्तात् रुरुधे पृतन्यया।
आचार्य-दत्तं जलजं महा-स्वनं
दध्मौ प्रयुञ्जन् भयम् इन्द्र-योषिताम्॥ 23


मघवान् तम् अभि-प्रेत्य बलेः परमम् उद्यमम्।
सर्व-देव-गण-उपेतः गुरुम् एतत् उवाच ह॥ 24


भगवन् उद्यमः भूयान् बलेः नः पूर्व-वैरिणः।
अविषहम् इमम् मन्ये केन आसीत् तेजसा-उर्जितः॥ 25


न एनम् कश्चित् कुतः वा अपि प्रति-व्योढुम् अधीश्वरः।
पिबन् इव मुखेन इदम् लिहन् इव दिशः दश।
दहन् इव दिशः दृग्भिः संवर्त-अग्निः इव उत्थितः॥ 26

ब्रूहि कारणम् एतस्य दुर्धर्ष-त्वस्य मद्रिपोः।
ओजः सहः बलं तेजः यत् एतत् समुद्यमः॥ 27

श्री-गुरुः उवाच।
जानामि मघवन् शत्रोः उन्नतेः अस्य कारणम्।
शिष्याय उपभृतं तेजः भृगुभिः ब्रह्म-वादिभिः॥ 28

भवत्-विधः भवान् वा अपि वर्जयित्वा ईश्वरं हरिम्।
न अस्य शक्तः पुरः स्थातुम् कृतान्तस्य यथा जनाः॥ 29

तस्मात् निलयम् उत्सृज्य यूयम् सर्वे त्रि-विष्टपम्।
यात कालम् प्रतीक्षन्तः यतः शत्रोः विपर्ययः॥ 30

एषः विप्र-बल-उदर्कः सम्प्रति-ऊर्जित-विक्रमः।
तेषाम् एव अपमानेन स-अनुबन्धः विनङ्क्ष्यति॥ 31

एवम् सुमन्त्रित-अर्थाः ते गुरुणा अर्थ-अनुदर्शिना।
हित्वा त्रि-विष्टपं जग्मुः गीर्वाणाः काम-रूपिणः॥ 32

देवेषु अथ निलीनेषु बलिः वैरोचनः पुरीम्।
देव-धानीम् अधिष्ठाय वशं निन्ये जगत्-त्रयम्॥ 33

तम् विश्व-जयिनं शिष्यं भृगवः शिष्य-वत्सलाः।
शतेन हय-मेधानाम् अनुव्रतम् अयाजयन्॥ 34

ततः तत्-अनुभावेन भुवन-त्रय-विश्रुताम्।
कीर्तिं दिक्षु वितन्वानः स रेज उडु-राट् इव॥ 35

बुभुजे च श्रियं स्व-ऋद्धां द्विज-देव-उपलम्भिताम्।
कृत-कृत्यम् इव आत्मानं मन्यमानः महा-मनाः॥ 36

॥ इति श्रीमद्भागवते महा-पुराणे पारमहंस्यां संहितायाम् अष्टम-स्कन्धे पञ्चदशोऽध्यायः ॥ 15 ॥

No comments:

Post a Comment