உலக நிர்வாகம்
ஸ்கந்தம் 8: அத்யாயம் 14
श्री-राजा-उवाच
मन्वन्तरेषु भगवन् यथा मनु-आदयः त्विमे।
यस्मिन्-कर्मणि ये येन नियुक्ताः तद्-वदस्व मे॥ १
श्री-ऋषिः-उवाच
मनवः मनु-पुत्राः च मुनयः च मही-पते।
इन्द्राः सुर-गणाः च एव सर्वे पुरुष-शासनाः॥ २
यज्ञ-आदयः याः कथिताः पौरुष्यः तनवः नृप।
मनु-आदयः जगत्-यात्राम् नयन्ति आभिः प्रचोदिताः॥ ३
चतुः-युग-अन्ते कालेन ग्रस्तान् श्रुति-गणान् यथा।
तपसा ऋषयः अपश्यन् यतः धर्मः सनातनः॥ ४
ततः धर्मम् चतुः-पादम् मनवः हरिणा उदिताः।
युक्ताः सञ्चारयन्ति अद्धा स्वे स्वे काले महीं नृप॥ ५
पालयन्ति प्रजा-पालाः यावत्-अन्तम् विभागशः।
यज्ञ-भाग-भुजः देवाः ये च तत्र अन्विताः च तैः॥ ६
इन्द्रः भगवता दत्ताम् त्रै-लोक्य-श्रियम् ऊर्जिताम्।
भुञ्जानः पाति लोकान् त्रीन् कामम् लोके प्रवर्षति॥ ७
ज्ञानम् च अनु-युगम् ब्रूते हरिः सिद्ध-स्वरूप-धृक्।
ऋषि-रूप-धरः कर्म योगम् योगेश-रूप-धृक्॥ ८
सर्गम् प्रजा-ईश-रूपेण दस्यून् हन्यात् स्वराट्-वपुः।
काल-रूपेण सर्वेषाम् अभावाय पृथक्-गुणः॥ ९
स्तूयमानः जनैः एभिः मायया नाम-रूपया।
विमोहित-आत्मभिः नाना-दर्शनैः न च दृश्यते॥ १०
एतत् कल्प-विकल्पस्य प्रमाणम् परिकीर्तितम्।
यत्र मन्वन्तराणि आहुः चतुर्दश पुरा-विदः॥ ११
No comments:
Post a Comment