த்ரினாவர்தன்
மோக்ஷம்
ஸ்கந்தம் 10: அத்யாயம் 7
श्रीराजा उवाच
येन येन अवतारेण भगवान् हरिः ईश्वरः।
करोति कर्ण-रम्याणि मनोज्ञानि च नः प्रभो॥१॥
यत् श्रुण्वतः अपैति अरतिः वि-तृष्णा
सत्त्वं च शुद्ध्यति अचिरेण पुंसः।
भक्तिः हरौ तत् पुरुषे च सख्यं
तत् एव हारं वद मन्यसे चेत्॥२॥
अथ अन्यद् अपि कृष्णस्य तोक-आचरितम् अद्भुतम्।
मानुषं लोकम् आसाद्य तत् जातिम् अनुरुन्धतः॥३॥
श्रीशुक उवाच
कदाचित् औत्थानिक-कौतुक-आप्लवे
जन्म-ऋक्ष-योगे समवेत-योषिताम्।
वादित्र-गीत-द्विज-मन्त्र-वाचकैः
चकार सूनोः अभिषेचनं सती॥४॥
नन्दस्य पत्नी कृत-मज्जन-आदिकं
विप्रैः कृत-स्वस्त्ययनं सुपूजितैः।
अन्न-आद्य-वासः-स्रक्-अभीष्ट-धेनुभिः
सञ्जात-निद्रा अक्षमशीशयत् शनैः॥५॥
औत्थानिक-उत्सुक्य-मनाः मनस्विनी
समागतान् पूजयती व्रज-औकसः।
न एव अशृणोत् वै रुदितं सुतस्य सा
रुदन् स्तन-अर्थी चरणौ उदक्षिपत्॥६॥
अधः-शयानस्य शिशोः अनः-अल्पक
प्रवाल-मृदु-अङ्घ्रि-हतं व्यवर्तत।
विध्वस्त-नाना-रस-कुप्य-भाजनं
व्यत्यस्त-चक्र-अक्ष-विभिन्न-कूबरम्॥७॥
दृष्ट्वा यशोदा-प्रमुखा व्रज-स्त्रियः
औत्थानिके कर्मणि याः समागताः।
नन्द-आदयः च अद्भुत-दर्शन-आकुलाः
कथं स्वयं वै शकटं विपर्यगात्॥८॥
ऊचुः अव्यवसित-मतीन् गोपान् गोपीः च बालकाः।
रुदता अनेन पादेन क्षिप्तम् एतत् न संशयः॥९॥
न ते श्रद्दधिरे गोपा बाल-भाषितम् इत्युत।
अप्रमेयं बलं तस्य बालकस्य न ते विदुः॥१०॥
रुदन्तं सुतम् आदाय यशोदा ग्रह-शङ्किता।
कृत-स्वस्त्ययनं विप्रैः सूक्तैः स्तनम् अपाययत्॥११॥
पूर्ववत् स्थापितं गोपैः बलिभिः सपरिच्छदम्।
विप्राः हुत्वा अर्चयाञ्चक्रुः दधि-अक्षत-कुश-अम्बुभिः॥१२॥
ये असूया-अनृत-दम्भ-ईर्ष्या हिंसा-मान-विवर्जिताः।
न तेषां सत्य-शीलानाम् आशिषः विफलाः कृताः॥१३॥
इति बालकम् आदाय सामर्ग्य-जुरुपाकृतैः।
जलैः पवित्र-औषधिभिः अभिषिच्य द्विज-उत्तमैः॥१४॥
वाचयित्वा स्वस्त्ययनं नन्द-गोपः समाहितः।
हुत्वा च अग्निं द्विजातिभ्यः प्रादात् अन्नं महा-गुणम्॥१५॥
गावः सर्व-गुण-उपेताः वासः-स्रक्-रुक्म-मालिनीः।
आत्मज-अभ्युदय-अर्थाय प्रादात् ते च अन्वयुञ्जत॥१६॥
विप्राः मन्त्र-विदः युक्ताः तैः याः प्रोक्ताः तथा आशिषः।
ता निष्फला भविष्यन्ति न कदाचित् अपि स्फुटम्॥१७॥
एकदा आरोहम् आरूढं लालयन्ती सुतं सती।
गरिमाणं शिशोः वोढुं न सेहे गिरि-कूटवत्॥१८॥
भूमौ निधाय तं गोपी विस्मिता भार-पीडिता।
महा-पुरुषम् आदध्यौ जगताम् आस कर्मसु॥१९॥
दैत्यो नाम्ना तृणावर्तः कंस-भृत्यः प्रणोदितः।
चक्रवात-स्वरूपेण जहार-आसीनम् अर्भकम्॥२०॥
अहो बत अति अद्भुतम् एषः रक्षसा
बालः निवृत्तिं गमितः अभ्यागत् पुनः।
हिंस्रः स्व-पापेन विहिंसितः खलः
साधुः समत्वेन भयात् विमुच्यते ॥ 31 ॥
किं नः तपः चीर्यं अधोक्षज-अर्चनं
पूर्त-इष्ट-दत्तम् उत भूत-सौहृदम्।
यत् सम्परेतः पुनः एव बालकः
दिष्ट्या स्व-बन्धून् प्रणयन् उपस्थितः ॥ 32 ॥
दृष्ट्वा अद्भुतानि बहुशः नन्द-गोपः बृहद्वने।
वसुदेव-वचः भूयः मानयामास विस्मितः ॥ 33 ॥
एकदा अर्भकम् आदाय स्व-अङ्कम् आरोप्य भामिनी।
प्रस्नुतं पाययामास स्तनं स्नेह-परिप्लुता ॥ 34 ॥
पीत-प्रायस्य जननी स तस्य रुचिर-स्मितम्।
मुखं लालयती राजन् जृम्भतः ददृशे इदम् ॥ 35 ॥
खं रोदसी ज्योतिः-अनीकम् आशाः
सूर्य-इन्दु-वह्नि-श्वसन-अम्बुधीन् च।
द्वीपान् नगान् तद्-दुहितॄः वनानि
भूतानि यानि स्थिर-जङ्गमानि ॥ 36 ॥
सा वीक्ष्य विश्वं सहसा राजन् सञ्जात-वेपथुः।
सम्मील्य मृग-शाव-आक्षी नेत्रे आसीत् सुविस्मिता ॥ 37 ॥
No comments:
Post a Comment