பூதனை மோக்ஷம்
ஸ்கந்தம் 10: அத்யாயம் 6
श्रीशुक उवाच
नन्दः पथि वचः शौरेः न मृषा इति विचिन्तयन्।
हरिं जगाम शरणम् उत्पात-आगम-शङ्कितः ॥१॥
कंसेन प्रहिताः घोराः पूतना बाल-घातिनी।
शिशून् च चार निघ्नन्ती पुर-ग्राम-व्रज-आदिषु ॥२॥
न यत्र श्रवण-आदीनि रक्षोघ्नानि स्वकर्मसु।
कुर्वन्ति सात्वतां भर्तुः यातुधान्यः च तत्र हि ॥३॥
सा खेचरी एकदा उपेत्य पूतना नन्द-गोकुलम्।
योषित्वा मायया आत्मानम् प्राविशत् कामचारिणी ॥४॥
तां केश-बन्ध-व्यातिषक्त-मल्लिकाम्
बृहत्-नितंब-स्तन-कृच्छ्र-मध्याम्।
सुवाससं कल्पित-कर्ण-भूषणम्
त्विषा उल्लसत्-कुन्तल-मण्डित-आननाम्॥५॥
वल्गु-स्मित-अपाङ्ग-विसर्ग-वीक्षितैः
मनो हरन्तीं वनितां व्रज-औकसाम्।
अमंसतां अम्भोज-कर-रूपिणीं
गोप्यः श्रियं द्रष्टुम् इव आगतां पतिम्॥६॥
बालग्रहः तत्र विचिन्वती शिशून्
यदृच्छया नन्द-गृहे असत्-अन्तकम्।
बालम् प्रतिच्छन्न-निज-उरु-तेजसम्
ददर्श तल्पे अग्निम् इव आहितं भसि॥७॥
विबुध्य तां बालक-मारिका-ग्रहम्
चर-अचर-आत्मा आनिमीलित-ईक्षणः।
अनन्तम् आरोपयत् अङ्कम् अन्तकम्
यथा उरगं सुप्तम् अबुद्धि-रज्जु-धीः॥८॥
तां तीक्ष्ण-चित्ताम् अतिवाम-चेष्टिताम्
वीक्ष्य अन्तरा कोश-परिच्छद-आसिवत्।
वर-स्त्रियं तत्-प्रभया च धर्षिते
निरीक्ष्यमाणे जननी हि अतिष्ठताम्॥९॥
तस्मिन् स्तनं दुर्जर-वीर्यम् उल्बणम्
घोर-अङ्कम् आदाय शिशोः ददौ अथ।
गाढं कराभ्यां भगवान् प्रपीड्य तत्
प्राणैः समं रोष-समन्वितः अपिबत्॥१०॥
सा मुञ्च मुञ्च आलम् इति प्रभाषिणी
निष्पीड्यमाना अखिल-जीव-मर्मणि।
विवृत्य नेत्रे चरणौ भुजौ मुहुः
प्रस्विन्न-गात्रा क्षिपती रुरोद ह॥११॥
तस्याः स्वनेन अति-गभीर-रंहसा
स-अद्रिः मही द्यौः च चचाल स-ग्रहा।
रसा दिशः च प्रतिनेदिरे जनाः
पेतुः क्षितौ वज्र-निपात-शङ्कया॥१२॥
निशाचरी इत्थं व्यथित-स्तना व्यसुः
व्यादाय केशान् चरणौ भुजौ अपि।
प्रसार्य गोष्ठे निज-रूपम् आस्थिताः
वज्र-आहतः वृत्र इव अपतत् नृप॥१३॥
पतमानः अपि तत्-देहः त्रि-गव्यूति-अन्तर-द्रुमान्।
चूर्णयामास राजेन्द्र महत् आसीत् तत् अद्भुतम्॥१४॥
ईषा-मात्र-उग्र-दंष्ट्र-आस्यं गिरि-कन्दर-नासिकम्।
गण्ड-शैल-स्तनं रौद्रं प्रकीर्ण-अरुण-मूर्धजम्॥१५॥
अन्ध-कूप-गभीर-आक्षं पुलिन-आरोह-भीषणम्।
बद्ध-सेतु-भुज-ऊर्व-अङ्घ्रि शून्य-तोय-ह्रद-उदरम्॥१६॥
सन्तत्रसुः स्म तत् वीक्ष्य गोपाः गोप्यः कलेवरम्।
पूर्वं तु तत्-निःस्वनित-भिन्न-हृत्-कर्ण-मस्तकाः॥१७॥
बालं च तस्या उरसि क्रीडन्तम् अकुतोभयम्।
गोप्यः तूर्णं समभ्येत्य जगृहुः जात-संभ्रमाः॥१८॥
यशोदा-रोहिणीभ्यां ताः समं बालस्य सर्वतः।
रक्षां विदधिरे सम्यक् गो-पुच्छ-भ्रमण-आदिभिः॥१९॥
गो-मूत्रेण स्नापयित्वा पुनः गो-रज-सार्भकम्।
रक्षां चक्रुः च शकृता द्वादश-अङ्गेषु नामभिः॥२०॥
गोप्यः संस्पृष्ट-सलिला अङ्गेषु करयोः पृथक्।
न्यस्य आत्मनि अथ बालस्य बीज-न्यासम् अकुर्वत॥२१॥
अव्यात अजः अङ्घ्रि मणिमान् तव जानु अथ ऊरू
यज्ञः अच्युतः कटितटं जठरं हयास्यः।
हृत् केशवः त्वदुरः ईशः इनः तु कण्ठं
विष्णुः भुजं मुखम् उरुक्रम ईश्वरः कम्॥२२॥
चक्री अग्रतः सह-गदः हरिः अस्तु पश्चात्।
त्वत्-पार्श्वयोः धनुः-असी मधुहाः जनः च।
कोणेषु शङ्खः उरुगायः उपरि-उपेन्द्रः
तार्क्ष्यः क्षितौ हलधरः पुरुषः समन्तात्॥२३॥
इन्द्रियाणि हृषीकेशः प्राणान् नारायणः अवतु।
श्वेत-द्वीप-पतिः चित्तं मनः योगेश्वरः अवतु॥२४॥
पृश्निगर्भः तु ते बुद्धिम् आत्मानं भगवान् परः।
क्रीडन्तं पातु गोविन्दः शयानं पातु माधवः॥२५॥
व्रजन्तम् अव्यात् वैकुण्ठः आसीनं त्वां श्रियः पतिः।
भुञ्जानं यज्ञभुक् पातु सर्व-ग्रह-भयङ्करः॥२६॥
डाकिन्यः यातुधान्यः च कूष्माण्डाः ये अर्भक-ग्रहाः।
भूत-प्रेत-पिशाचाः च यक्ष-रक्षः-विनायकाः॥२७॥
कोटरा रेवती ज्येष्ठा पूतना मातृका-आदयः।
उन्मादाः ये हि अपस्माराः देह-प्राण-इन्द्रिय-द्रुहः॥२८॥
स्वप्न-दृष्टाः महा-उत्पाताः वृद्ध-बाल-ग्रहाः च ये।
सर्वे नश्यन्तु ते विष्णोः नाम-ग्रहण-भीरवः॥२९॥
श्रीशुक उवाच।
इति प्रणय-बद्धाभिः गोपीभिः कृत-रक्षणम्।
पाययित्वा स्तनं माता संन्यवेशयत् आत्मजम्॥३०॥
तावत् नन्द-आदयः गोपाः मथुरायाः व्रजं गताः।
विलोक्य पूतना-देहं बभूवुः अति-विस्मिताः॥३१॥
नूनं बत ऋषिः सञ्जातः योगेशः वा समास सः।
सः एव दृष्टः हि उत्पातः यत् आह आनकदुन्दुभिः॥३२॥
कलेवरं परशुभिः छित्त्वा तत् ते व्रज-औकसः।
दूरे क्षिप्त्वा अवयवशः न्यदहन् काष्ठ-दिष्टितम्॥३३॥
दह्यमानस्य देहस्य धूमः च अगुरु-सौरभः।
उत्थितः कृष्ण-निर्भुक्त- स-पदि आहत-पाप्मनः॥३४॥
पूतना लोक-बाल-घ्नी राक्षसी रुधिर-आशना।
जिघांसया अपि हरये स्तनं दत्त्वा आप सद्गतिम्॥३५॥
किं पुनः श्रद्धया भक्त्या कृष्णाय परमात्मने।
यच्छन् प्रियतमं किं नु रक्ताः तन्मातरः यथा॥३६॥
पद्भ्यां भक्त-हृदिस्थाभ्यां वन्द्याभ्यां लोक-वन्दितैः।
अङ्गं यस्याः समाक्रम्य भगवान् अपिबत् स्तनम्॥३७॥
यातुधान्यः अपि सा स्वर्गम् अवाप जननी-गतिम्।
कृष्ण-भुक्त-स्तन-क्षीराः किमु गावः नु मातरः॥३८॥
पयांसि यासाम् अपिबत् पुत्र-स्नेह-स्नुतानि अलम्।
भगवान् देवकी-पुत्रः कैवल्य-अद्य अखिल-प्रदः॥३९॥
तासाम् अविरतं कृष्णे कुर्वतीनाम् सुतेक्षणम्।
न पुनः कल्पते राजन् संसारः अज्ञान-सम्भवः॥४०॥
कट-धूमस्य सौरभ्यम् अवघ्राय व्रज-औकसः।
किम् इदम् कुतः एव इति वदन्तः व्रजम् आययुः॥४१॥
ते तत्र वर्णितं गोपैः पूतना-आगमन-आदिकम्।
श्रुत्वा तत् निधनं स्वस्ति शिशोः च आसन् सुविस्मिताः॥४२॥
नन्दः स्वपुत्रम् आदाय प्रेत्य-आगतम् उदार-धीः।
मूर्ध्नि उपाघ्राय परमां मुदं लेभे कुरु-उद्वह॥४३॥
यः एतत् पूतना-मोक्षं कृष्णस्य अर्भकम् अद्भुतम्।
श्रृणुयात् श्रद्धया मृत्यु गोविन्दे लभते रतिम्॥४४॥
No comments:
Post a Comment