Followers

Search Here...

Monday, 31 March 2025

ஸ்கந்தம் 10: அத்யாயம் 5 (நந்தகோபரும் வசுதேவரும் சந்தித்தல்) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 நந்தகோபரும் வசுதேவரும் சந்தித்தல்

ஸ்கந்தம் 10: அத்யாயம் 5


श्रीशुक उवाच
नन्दः तु आत्मज उत्पन्ने जात-आह्लादः महामनाः।
आहूय विप्रान् वेद-ज्ञान् स्नातः शुचिः अलंकृतः ॥१॥

वाचयित्वा स्वस्त्ययनं जात-कर्म आत्मजस्य वै।
कारयामास विधिवत् पितृ-देव-अर्चनं तथा ॥२॥

धेनूनां नियुते प्रादाद् विप्रेभ्यः समलंकृते।
तिल-अद्रीन् सप्त रत्न-ओघ-शातकौंभ-अंबर-आवृतान् ॥३॥

कालेन स्नान-शौचाभ्यां संस्कारैः तपसा इज्यया।
शुध्यन्ति दानैः संतुष्ट्या द्रव्याणि आत्म-आत्म-विद्यया ॥४॥

सौमंगल्य-गिरः विप्राः सूत-मागध-वन्दिनः।
गायकाः च जगुः नेदुः भेर्यः दुन्दुभयः मुहुः ॥५॥

व्रजः सम्मृष्ट-संसिक्त द्वार-आजिर-गृह-अंतरः।
चित्र-ध्वज-पताका-अस्रक् चैल-पल्लव-तोरणैः ॥६॥

गावः वृषाः वत्सतराः हरिद्र-आतैल-रूषिताः।
विचित्र-धातु-बर्ह-स्रक् वस्त्र-काञ्चन-मालिनः ॥७॥

महार्ह-वस्त्राभरण-कञ्चुक-उष्णीष-भूषिताः।
गोपाः समाययुः राजन् नान-उपायन-पाणयः ॥८॥

गोप्यः च आकर्ण्य मुदिताः यशोदायाः सुत-उद्भवम्।
आत्मानं भूषयां चक्रुः वस्त्र-आकल्प-अञ्जन-आदिभिः ॥९॥

नव-कुंकुम-किञ्जल्क मुख-पंकज-भूतयः।
बलिभिः त्वरितं जग्मुः पृथु-श्रोण्यः चलत्-कुचाः ॥१०॥

गोप्यः सुमृष्ट-मणि-कुण्डल-निष्क-कण्ठ्यः
चित्र-अम्बराः पथि शिखा-आच्युत-माल्य-वर्षाः।
नन्दालयं स-वलयाः व्रजतीः विरेजुः
व्यालोल-कुण्डल-पयोधर-हार-शोभाः ॥११॥

ता आशिषः प्रयुञ्जानाः चिरं पाहि इति बालके।
हरिद्रा-चूर्ण-तैल-अद्भिः सिञ्चन्त्यः जनम् उज्जगुः ॥१२॥

अवाद्यन्त विचित्राणि वादित्राणि महोत्सवे।
कृष्णे विश्व-ईश्वरे अनन्ते नन्दस्य व्रजम् आगते ॥१३॥

गोपाः परस्परं हृष्टाः दधि-क्षीर-घृत-अम्बुभिः।
आसिञ्चन्तः विलिम्पन्तः नवनीतैः च चिक्षिपुः ॥१४॥

नन्दः महामनाः तेभ्यः वासः अलंकार-गोधनम्।
सूत-मागध-वन्दिभ्यः ये अन्ये विद्या-उपजीविनः ॥१५॥

तैः तैः कामैः अदीनात्मा यथा उचितं अपूजयत्।
विष्णोः आराधन-अर्थाय स्वपुत्रस्य उदयाय च ॥१६॥

रोहिणी च महाभागा नन्दगोप-अभिनन्दिता।
व्यचरत् दिव्य-वासः-स्रक्-कण्ठ-आभरण-भूषिता ॥१७॥

ततः आरभ्य नन्दस्य व्रजः सर्व-समृद्धिमान्।
हरेः निवास-आत्म-गुणैः रमा-क्रीडम् अभूत् नृप ॥१८॥

गोपान् गोकुल-रक्षायां निरूप्य मथुरां गतः।
नन्दः कंसस्य वार्षिक्यं करं दातुं कुरूद्वह ॥१९॥

वसुदेवः उपश्रुत्य भ्रातरं नन्दम् आगतम्।
ज्ञात्वा दत्त-करं राज्ञे ययौ तद्-अवमोचनम् ॥२०॥

तं दृष्ट्वा सहसा उत्थाय देहः प्राणम् इव आगतम्।
प्रीतः प्रियतमं दोर्भ्यां सस्वजे प्रेम-विह्वलः ॥२१॥

पूजितः सुखम् आसीनः पृष्ट्वा अनामयम् आदृतः।
प्रसक्त-धीः स्व-आत्म-जयोः इदम् आह विशाम्पते ॥२२॥

दिष्ट्या भ्रातः प्रवयसः इदानीम् अप्रजस्य ते।
प्रजा-आशाया निवृत्तस्य प्रजा यत् समपद्यत ॥२३॥

दिष्ट्या संसार-चक्रे अस्मिन् वर्तमानः पुनः भवः।
उपलब्धः भवान् अद्य दुर्लभं प्रिय-दर्शनम् ॥२४॥

न एकत्र प्रिय-संवासः सुहृदाम् चित्र-कर्मणाम्।
ओघेन व्यूह्यमानानाम् प्लवानाम् स्रोतसः यथा ॥२५॥

कच्चित् पशव्यं निरुजं भूरि अम्बु तृण-वीरुधम्।
बृहद् वनं तत् अधुना यत्र आसे त्वं सुहृद्-वृतः ॥२६॥

भ्रातः मम सुतः कच्चित् मात्रा सह भवत्-व्रजे।
तातं भवन्तं मन्वानः भवद्भ्याम् उपलालितः ॥२७॥

पुंसः त्रि-वर्गः विहितः सुहृदः हि अनुभावितः।
न तेषु क्लिश्यमानेषु त्रि-वर्गः अर्थाय कल्पते ॥२८॥

श्री-नन्द उवाच

अहो ते देवकी-पुत्राः कंसेन बहवः हताः।
एका अवशिष्ट-अवरजा कन्या सा अपि दिवं गता ॥२९॥

नूनं हि अदृष्ट-निष्ठः अयम् अदृष्ट-परमः जनः।
अदृष्टम् आत्मनः तत्त्वं यः वेद न सः मुह्यति ॥३०॥

श्री-वसुदेव उवाच

करः वै वार्षिकः दत्तः राज्ञे दृष्टाः वयं च वः।
न इह स्थेयं बहु-तिथं सन्ति उत्पाताः च गोकुले ॥३१॥

श्री-शुक उवाच

इति नन्द-आदयः गोपाः प्रोक्ताः ते शौरिणा ययुः।
अनुभिः अनडु-युक्तैः तम् अनुज्ञाप्य गोकुलम् ॥३२॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे नन्दवसुदेवसंगमो नाम पञ्चमोऽध्यायः॥ 5


No comments:

Post a Comment