தேவர்களின்
கிருஷ்ண துதி
ஸ்கந்தம் 10: அத்யாயம் 2
श्री शुकः उवाच
प्रलम्ब बक चाणूर तृणावर्त महाशनैः।
मुष्टिक अरिष्ट द्विविद पूतना केशी धेनुकैः॥ १
अन्यैः च असुर भूपालैः बाण भौम आदिभिः युतः।
यदूनां कदनं चक्रे बली मागध संश्रयः॥ २
ते पीडिताः निविविशुः कुरु पाञ्चाल केकयान्।
शाल्वान् विदर्भान् निषधान् विदेहान् कोशलान् अपि॥ ३
एके तम् अनुरुन्धानाः ज्ञातयः पर्युपासते।
हतेषु षट्सु बालेषु देवक्या औग्रसेनिना॥ ४
सप्तमः वैष्णवं धाम यम् अनन्तं प्रचक्षते।
गर्भः बभूव देवक्या हर्ष शोक विवर्धनः॥ ५
भगवान् अपि विश्व आत्मा विदित्वा कंसजं भयम्।
यदूनां निज नाथानां योग मायां समादिशत्॥ ६
गच्छ देवि व्रजं भद्रे गोप गोभिः अलङ्कृतम्।
रोहिणी वसुदेवस्य भार्या आस्ते नन्द गोकुले।
अन्याः च कंस संविग्नाः विवरेषु वसन्ति हि॥ ७
देवक्या जठरे गर्भं शेष आख्यं धाम मामकम्।
तत् संनिकृष्य रोहिण्या उदरे संनिवेशय॥ ८
अथ अहम् अंश भागेन देवक्याः पुत्रतां शुभे।
प्राप्स्यामि त्वं यशोदायां नन्द पत्नीं भविष्यसि॥ ९
अर्चिष्यन्ति मनुष्यास् त्वां सर्व काम वर ईश्वरीम्।
धूप उपहार बलिभिः सर्व काम वर प्रदाम्॥ १०
नामधेयानि कुर्वन्ति स्थानानि च नराः भुवि।
दुर्गा इति भद्र काली इति विजया वैष्णवी इति च॥ ११
कुमुदा चण्डिका कृष्णा माधवी कन्यका इति च।
माया नारायणी ईशानी शारदा इति अम्बिका इति च॥ १२
गर्भ सङ्कर्षणात् तं वै प्राहुः सङ्कर्षणं भुवि।
राम इति लोक रमणात् बलं बलवद् उच्छ्रयात्॥ १३
सन्दिष्टा एवम् भगवता तथ इति ऊम् इति तत् वचः।
प्रतिगृह्य परिक्रम्य गां गता तत् तथा अकरोत्॥ १४
गर्भे प्रणीते देवक्या रोहिणीं योग निद्रया।
अहो विस्रंसितः गर्भः इति पौराः विचुक्रुशुः॥ १५
भगवान् अपि विश्व आत्मा भक्तानाम् अभय अङ्करः।
आविवेश अंश भागेन मन आनक दुन्दुभेः॥ १६
स बिभ्रत् पौरुषं धाम भ्राजमानः यथा रविः।
दुरासदः अति दुर्धर्षः भूतानां सम्बभूव ह॥ १७
ततः जगत् मङ्गलम् अच्युत अंशं
समाहितं शूर सुतेन देवी।
दधार सर्व आत्मकम् आत्म भूतं
काष्ठा यथा आनन्दकरं मनस्तः॥ १८
सा देवकी सर्व जगत् निवास
निवास भूता नितरां न रेजे।
भोजेन्द्र गेहे अग्नि शिखा इव रुद्धा
सरस्वती ज्ञान खले यथा सती॥ १९
तां वीक्ष्य कंसः प्रभया जित अन्तरां
विरोचयन्तीं भवनं शुचि स्मिताम्।
आह एष मे प्राण हरः हरिः गुहां
ध्रुवं श्रितः यत् न पुरा इयम् ईदृशी॥ २०
किम् अद्य तस्मिन् करणीयम् आशु मे
यत् अर्थ तन्त्रः न विहन्ति विक्रमम्।
स्त्रियाः स्वसुः गुरु मत्या वधः अयं
यशः श्रियं हन्ति अनुकालम् आयुः॥ २१
सः एषः जीवन् खलु सम्परेतः
वर्तेत यः अति अत्यन्त नृशंसितेन।
देहे मृते तं मनुजाः शपन्ति
गन्ता तमः अन्धं तनु मानिनः ध्रुवम्॥ २२
इति घोर तमात् भावात् सन्निवृत्तः स्वयं प्रभुः।
आस्ते प्रतीक्षन् तत् जन्म हरेः वैरानुबन्ध कृत्॥ २३
आसीनः संविशन् तिष्ठन् भुञ्जानः पर्यटन् महीम्।
चिन्तयानः हृषीकेशम् अपश्यत् तत् मयं जगत्॥ २४
ब्रह्मा भवः च तत्र एत्य मुनिभिः नारद आदिभिः।
देवैः स अनुचरैः साकं गीर्भिः वृषणम् ऐडयन्॥ २५
सत्यव्रतं सत्यपरं त्रि-सत्यं
सत्यस्य योनिं निहितं च सत्ये।
सत्यस्य सत्यम् अमृत सत्य नेत्रं
सत्यात्मकं त्वां शरणं प्रपन्नाः॥ २६
एकायनः असौ द्विफलः त्रिमूलः
चतुः रसः पञ्चविधः षडात्मा।
सप्त त्वक् अष्ट विटपः नव अक्षः
दशच्छदी द्विखगः हि आदिवृक्षः॥ २७
त्वम् एक एव अस्य सतः प्रसूति-
स्त्वं सन्निधानं त्वम् अनुग्रहः च।
त्वत् मायया संवृत चेतसः त्वां
पश्यन्ति नाना न विपश्चितः ये॥ २८
बिभर्षि रूपाणि अवबोध आत्मा
क्षेमाय लोकस्य चर-अचरस्य।
सत्त्व उपपन्नानि सुख-अवहानि
सताम् अभद्राणि मुहुः खलानाम्॥ २९
त्वयि अम्बुजाक्ष अखिल सत्त्व धाम्नि
समाधिना आवेशित चेतसः एके।
त्वत् पाद पोतेन महत् कृतेन
कुर्वन्ति गोवत्स पदं भव-अब्धिम्॥ ३०
स्वयं समुत्तीर्य सुदुस्तरं द्युमन्
भव-अर्णवम् भीमम् अदभ्र-सौहृदाः।
भवत्-पद-अम्भोरुह-नावम् अत्र ते
निधाय याताः सत्-अनुग्रहः भवान् ॥३१॥
ये अन्ये अरविन्द-आक्ष विमुक्त-मानिनः
त्वयि अस्त-भावात् अविशुद्ध-बुद्धयः।
आरुह्य कृच्छ्रेण परं पदं ततः
पतन्ति अधः अनादृत-युष्मत्-अङ्घ्रयः ॥३२॥
तथा न ते माधव तावकाः क्वचित्
भ्रश्यन्ति मार्गात् त्वयि बद्ध-सौहृदाः।
त्वया अभिगुप्ताः विचरन्ति निर्भयाः
विनायक-अनीक-प-मूर्धसु प्रभो ॥३३॥
सत्त्वं विशुद्धं श्रयते भवान् स्थितौ
शरीरिणां श्रेयः-उपायनं वपुः।
वेद-क्रिया-योग-तपः-समाधिभिः
तव अर्हणं येन जनः समीहते ॥३४॥
सत्त्वं न चेत् धातर् इदं निजं भवेत्
विज्ञानम् अज्ञान-भिदा-अपमार्जनम्।
गुण-प्रकाशैः अनुमान्यते भवान्
प्रकाशते यस्य च येन वा गुणः ॥३५॥
न नाम-रूपे गुण-जन्म-कर्मभिः
निर्वाच्य-तव्ये तव तस्य साक्षिणः।
मनो-वचोभ्यां अनुमेय-वर्त्मनः
देव क्रियायां प्रतियन्ति अथ अपि हि ॥३६॥
शृण्वन् गृणन् संस्मरयन् च चिन्तयन्
नामानि रूपाणि च मङ्गलानि ते।
क्रियासु यः त्वत्-चरण-अरविन्दयोः
आविष्ट-चेताः न भवाय कल्पते ॥३७॥
दिष्ट्या हरे अस्या भवतः पदः भुवः
भारः अपनीतः तव जन्मना ईशितुः।
दिष्ट्या अङ्कितां त्वत्-पदकैः सुशोभनैः
द्रक्ष्याम गां द्यां च तव अनुकम्पिताम् ॥३८॥
न ते अभवस्य ईश भवस्य कारणं
विना विनोदं बत तर्कयामहे।
भवः निरोधः स्थितिः अपि अविद्यया
कृता यतः त्वयि अभय-आश्रय-आत्मनि ॥३९॥
मत्स्य-अश्व-कच्छप-नृसिंह-वराह-हंस-
राजन्य-विप्र-विबुधेषु कृत-अवतारः।
त्वं पासि नः त्रिभुवनं च यथा अधुना ईश
भारं भुवः हर यदूत्तम वन्दनं ते ॥४०॥
दिष्ट्या अम्ब ते कुक्षि-गतः परः पुमान्
अंशेन साक्षात् भगवान् भवाय नः।
मा भूः भयम् भोज-पतेः मुमूर्षोः
गोप्ता यदूनां भविता तव आत्मजः ॥४१॥
श्री-शुकः उवाच
इति अभिष्टूय पुरुषं यत्-रूपम् अनिदं यथा।
ब्रह्म-ईशानौ पुरोधाय देवाः प्रतिययुः दिवम् ॥४२॥
No comments:
Post a Comment