ஸ்ரீ ப்ரம்ம ஸ்துதி
ஸ்கந்தம் 10: அத்யாயம் 14
श्री ब्रह्म उवाच
नौमि ईड्य ते अभ्र वपुषे तडिद् अम्बराय
गुञ्ज अवतंस परिपिच्छ लसत् मुखाय ।
वन्य स्रजे कवल वेत्र विषाण वेणु-
लक्ष्म-श्रिये मृदु-पदे पशु-प अङ्ग-जाय ॥
अस्यापि देव वपुषो मद् अनुग्रहस्य
स्वेच्छा मयस्य न तु भूतमयस्य को अपि ।
नेशे महि त्ववसितुं मनसा अन्तरेण
साक्षात् तवैव किम् उत आत्म सुखानुभूते: ॥
ज्ञाने प्रयासम् उदपास्य नमन्त एव
जीवन्ति सत् मुखरितां भवदीय-वार्ताम् ।
स्थाने स्थिता: श्रुति-गतां तनु-वाङ्-मनोभि:
ये प्रायश अजित जितो अप्यसि तै स्त्रि-लोक्याम् ॥
श्रेय:सृतिं भक्तिम् उदस्य ते विभो
क्लिश्यन्ति ये केवल बोध लब्धये ।
तेषामसौ क्लेशल एव शिष्यते
नान्यद् यथा स्थूल-तुष अवघातिनाम् ॥
पुरेह भूमन् बहवोऽपि योगिन:
त्वद् अर्पित येहा निजकर्म लब्धया ।
विबुध्य भक्त्यैव कथ- उपनीतया
प्रपेदिरे अञ्ज अच्युत ते गतिं पराम् ॥
तथापि भूमन् महिमा अगुणस्य ते
विबोद्धुम् अर्हति अमल अन्तरात्मभि: ।
अविक्रियात् स्व- अनुभवाद् अरूपतो
हि अनन्य-बोध्यात्मतया न च अन्यथा ॥
गुणात्मन: तेऽपि गुणान् विमातुं
हित-अवतीर्णस्य क ईशिरेऽस्य ।
कालेन यैर्वा विमिता: सुकल्पै:
भू-पांशव: खे मिहिका द्यु-भास: ॥
तत्ते अनुकम्पां सु-समीक्षमाणो
भुञ्जान एव आत्मकृतं विपाकम् ।
हृद् वाग् वपुर्भि: विदधन् नमस्ते
जीवेत यो मुक्तिपदे स दाय-भाक् ॥
पश्येश मे अनार्यम् अनन्त आद्ये
परात्मनि त्वय्यपि मायि-मायिनि ।
मायां वितत्य ईक्षितुम् आत्म वैभवं
हि अहं कियानैच्छम् इव अर्चि: अग्नौ ॥
अत: क्षमस्व अच्युत मे रजोभुवो
हि अजानत त्वत् पृथग् ईश मानिन: ।
अज अवलेप अन्ध तमो अन्ध चक्षुष
एषो अनुकम्प्यो मयि नाथवान् इति ॥
क्व अहं तमो महद् अहं ख चर अग्नि वा: भू
संवेष्टित अण्डघट सप्त वितस्ति काय: ।
क्वेदृग् विधा अविगणित अण्ड पर अणु चर्या
वात अध्व रोम विवरस्य च ते महित्वम् ॥
उत्क्षेपणं गर्भ गतस्य पादयो:
किं कल्पते मातु: अधोक्षज आगसे ।
किम् अस्ति नास्ति व्यपदेश भूषितं
तवास्ति कुक्षे: कियदपि अनन्त: ॥
जगत् त्रय अन्त: उदधि सम्प्लव उदे
नारायणस्य उदर नाभि नालात् ।
विनिर्गतो अजस्तु इति वाख् न वै मृषा
किन्तु ईश्वर त्वन्न विनिर्गतोऽस्मि ॥
नारायणस्त्वं न हि सर्व देहिनाम्
आत्म असि अधीश अखिल लोक-साक्षी ।
नारायणोऽङ्गं नर-भू-जल-अयनात्
तच्चापि सत्यं न तवैव माया ॥
तच्चेत् जलस्थं तव सत् जगद् वपु:
किं मे न दृष्टं भगवंस्तदैव ।
किं वा सुदृष्टं हृदि मे तदैव
किं नो सपद् एव पुन: व्यदर्शि ॥
अत्रैव माया-धमन अवतारे
ह्यस्य प्रपञ्चस्य बहि: स्फुटस्य ।
कृत्स्नस्य च अन्त: जठरे जनन्या
मायात्वम् एव प्रकटी-कृतं ते ॥
यस्य कुक्षाविदं सर्वं सात्मं भाति यथा तथा ।
तत् त्वयि अपीह तत् सर्वं किमिदं मायया विना ॥
अद्यैव त्वदृते अस्य किं मम न ते मायात्वम् आदर्शितम्
एकोऽसि प्रथमं ततो व्रज-सुहृद् वत्सा: समस्ता अपि ।
तावन्तोऽसि चतुर्भुजा: तद् अखिलै: साकं मया उपासिता:
तावन्ति एव जगन्ति अभू: तदमितं ब्रह्माद् वयं शिष्यते ॥
अजानतां त्वत् पदवीम् अनात्मनि
आत्म आत्मना भासि वितत्य मायाम् ।
सृष्टाविव अहं जगतो विधान
इव त्वमेषो अन्त इव त्रिनेत्र: ॥
सुरेषु ऋषिषु ईश तथैव नृषु अपि
तिर्यक्षु याद:षु अपि ते अजनस्य ।
जन्म असतां दुर्मद निग्रहाय
प्रभो विधात: सदनुग्रहाय च ॥
को वेत्ति भूमन् भगवन् परात्मन्
योगेश्वरोती: भवत: त्रिलोक्याम् ।
क्व वा कथं वा कति वा कदेति
विस्तारयन् क्रीडसि योग-मायाम् ॥
तस्मादिदं जगद् अशेषम् असत् स्वरूपं
स्वप्न-आभम् अस्त-धिषणं पुरु-दु:ख-दु:खम् ।
त्वय्येव नित्य सुख बोध तनाव अनन्ते
मायात उद्यद् अपि यत् सदिव अवभाति ॥
एकस्त्वम् आत्मा पुरुष: पुराण:
सत्य: स्वयं ज्योति: अनन्त आद्य: ।
नित्य: अक्षर अजस्र सुखो निरञ्जन:
पूर्ण अद्वयो मुक्त उपाधितो अमृत: ॥
एवं-विधं त्वां सकल आत्मनाम् अपि
स्व आत्मानम् आत्म आत्मतया विचक्षते ।
गुरु अर्क लब्ध उपनिषत् सु चक्षुषा
ये ते तरन्तीव भव अनृत आम्बुधिम् ॥
आत्मानम् एव आत्मतया अवि-जानतां
तेनैव जातं निखिलं प्रपञ्चितम् ।
ज्ञानेन भूयोऽपि च तत् प्रलीयते
रज्ज्वाम् अहेर्भोग भवा-भवौ यथा ॥
अज्ञान संज्ञौ भव-बन्ध मोक्षौ
द्वौ नाम नान्यौ स्त ऋत ज्ञभावात् ।
अजस्र चिति आत्मनि केवले परे
विचार्य माणे तरणाविव अहनी ॥
त्वाम् आत्मानं परं मत्वा परमात्मानम् एव च ।
आत्मा पुनर्बहि: मृग्य अहो अज्ञ जनता अज्ञता ॥
अन्तर्भवे अनन्त भवन्तमेव
ह्यतत् त्यजन्तो मृगयन्ति सन्त: ।
असन्तम् अप्यन्ति अहिम् अन्तरेण
सन्तं गुणं तं किमु यन्ति सन्त: ॥
अथापि ते देव पदाम्बुज-द्वय-
प्रसाद लेश अनुगृहीत एव हि ।
जानाति तत्त्वं भगवन् महिम्नो
न च अन्य एकोऽपि चिरं विचिन्वन् ॥
तदस्तु मे नाथ स भूरि-भागो
भवेऽत्र वान्यत्र तु वा तिरश्चाम् ।
येनाहम् एकोऽपि भवत् जनानां
भूत्वा निषेवे तव पाद पल्लवम् ॥
अहो अति धन्या व्रज-गो-रमण्य:
स्तन्य अमृतं पीतम् अतीव ते मुदा ।
यासां विभो वत्सतर आत्मज आत्मना
यत् तृप्तये अद्यापि न च अलम् अध्वरा: ॥
अहो भाग्यं अहो भाग्यं नन्दगोप व्रज औकसाम् ।
यन्मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् ॥
एषां तु भाग्य महिमा अच्युत तावदास्ताम्
एकादश इव हि वयं बत भूरिभागा: ।
एतद् धृषीक चषकै: असकृत् पिबाम:
शर्वादयो अङ्घ्रि उदज मधु अमृत आसवं ते ॥
तद् भूरिभाग्यम् इह जन्म किमपि अटव्यां
यद् गोकुलेऽपि कतम अङ्घ्रि रजोऽभिषेकम् ।
यज्जीवितं तु निखिलं भगवान् मुकुन्द:
तु अद्यापि यत् पद-रज: श्रुति मृग्यम् एव ॥
एषां घोष निवासिनाम् उत भवान् किं देव राता इति न:
चेतो विश्व फलात् फलं त्वदपरं कुत्रापि अयत् मुह्यति ।
सद् वेषाद् इव पूतनापि स-कुला त्वामेव देव-आपिता
यद्धाम अर्थ सुहृत् प्रिय आत्म तनय प्राण आशया: त्वत्कृते ॥
तावद् राग आदय: स्तेना: तावत् कारागृहं गृहम् ।
तावत् मोहो अङ्घ्रि निगडो यावत् कृष्ण न ते जना: ॥
प्रपञ्चं निष्-प्रपञ्चोऽपि विडम्बयसि भूतले ।
प्रपन्न जनता आनन्द सन्दोहं प्रथितुं प्रभो ॥
जानन्त एव जानन्तु किं बहूक्त्या न मे प्रभो ।
मनसो वपुषो वाचो वैभवं तव गोचर: ॥
अनुजानीहि मां कृष्ण सर्वं त्वं वेत्सि सर्वदृक् ।
त्वमेव जगतां नाथो जगदेतत् तव अर्पितम् ॥
श्रीकृष्ण वृष्णि कुल पुष्कर जोष दायिन्
क्ष्मा निर्जर द्विज पशू उदधि वृद्धि कारिन् ।
उद्धर्म शार्वर हर क्षिति राक्षस ध्रुग्
आ-कल्पम् आ-अर्कम् अर्हन् भगवन् नमस्ते ॥
श्रीशुक उवाच
इति अभिष्टूय भूमानं त्रि: परिक्रम्य पादयो: ।
नत्वा अभीष्टं जगद् धाता स्वधाम प्रत्यपद्यत ॥
ततो अनुज्ञाप्य भगवान् स्वभुवं प्राग् अवस्थितान् ।
वत्सान् पुलिनम् आनिन्ये यथा पूर्व सखं स्वकम् ॥
एकस्मिन् अपि यातेऽब्दे प्राणेशं च अन्तरात्मन: ।
कृष्ण माया आहता राजन् क्षणार्धं मेनिरे अर्भका: ॥
किं किं न विस्मरन्ति इह माया मोहित चेतस: ।
यन्मोहितं जगत् सर्वम् अभीक्ष्णं विस्मृत- आत्मकम् ॥
ऊचुश्च सुहृद: कृष्णं स्वागतं ते अति-रंहसा ।
न एकोपि अभोजि कवल एहि इत: साधु भुज्यताम् ॥
ततो हसन् हृषीकेशो अभ्य-वहृत्य सह अर्भकै: ।
दर्शयं चर्म आजगरं न्यवर्तत वनाद् व्रजम् ॥
बर्ह प्रसून वन-धातु विचित्रित अङ्ग:
प्रोद्दाम वेणु-दल शृङ्ग रव उत्सव आढ्य: ।
वत्सान् गृणन् अनुग गीत पवित्र कीर्ति:
गोपी दृग् उत्सव दृशि: प्रविवेश गोष्ठम् ॥
अद्य अनेन महा-व्यालो यशोदा नन्द सूनुना ।
हतो अविता वयं च अस्माद् इति बाला व्रजे जगु: ॥
श्रीराज उवाच
ब्रह्मन् पर उद्भवे कृष्णे इयान् प्रेमा कथं भवेत् ।
यो अभूत पूर्व: तोकेषु स्व-उद्भवेषु अपि कथ्यताम् ॥
श्रीशुक उवाच
सर्वेषामपि भूतानां नृप स्व-आत्मैव वल्लभ: ।
इतरे अपत्य वित्त आद्या तद् वल्लभता इव हि ॥
तद् राजेन्द्र यथा स्नेह: स्व-स्वक आत्मनि देहिनाम् ।
न तथा ममता आलम्बि पुत्र वित्त गृहादिषु ॥
देहात्म वादिनां पुंसामपि राजन्य सत्तम ।
यथा देह: प्रियतम: तथा न ह्यनु ये च तम् ॥
देहोऽपि ममता भाक् चेत् तर्ह्यसौ न आत्मवत् प्रिय: ।
यत् जीर्यति अपि देहेऽस्मिन् जीविताशा बलीयसी ॥
तस्मात् प्रियतम: स्व आत्मा सर्वेषामपि देहिनाम् ।
तदर्थमेव सकलं जगदेतत् चराचरम् ॥
कृष्णमेनम् अवेहि त्वम् आत्मानम् अखिलात्मनाम् ।
जगद् हिताय स: अपि अत्र देहि इव आभाति मायया ॥
वस्तुतो जानताम् अत्र कृष्णं स्थास्नु चरिष्णु च ।
भगवद् रूपमखिलं नान्यद् वस्तु इह किञ्चन ॥
सर्वेषामपि वस्तूनां भावार्थो भवति स्थित: ।
तस्यापि भगवान् कृष्ण: किमतद् वस्तु रूप्यताम् ॥
समाश्रिता ये पद पल्लव प्लवं
महत्पदं पुण्य यशो मुरारे: ।
भव अम्बुधि: वत्स-पदं परं पदं
पदं पदं यद् विपदां न तेषाम् ॥
एतत्ते सर्वम् आख्यातं यत् पृष्टो अहमिह त्वया ।
तत् कौमारे हरिकृतं पौगण्डे परि-कीर्तितम् ॥
एतत् सुहृद्भि: चरितं मुरारे:
अघ अर्दनं शाद्वल जेमनं च ।
व्यक्त इतरद् रूपम् अज उरु अभिष्टवं
शृण्वन् गृणन्नेति नरो अखिल अर्थान् ॥
एवं विहारै: कौमारै: कौमारं जहतु: व्रजे ।
निलायनै: सेतु-बन्धै: र्मर्कट-उत्प्लवन आदिभि: ॥
No comments:
Post a Comment