Followers

Search Here...

Monday, 31 March 2025

ஸ்கந்தம் 10: அத்யாயம் 14 (ஸ்ரீ ப்ரம்ம ஸ்துதி) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

ஸ்ரீ ப்ரம்ம ஸ்துதி

ஸ்கந்தம் 10: அத்யாயம் 14

श्री ब्रह्म उवाच

नौमि ईड्य ते अभ्र वपुषे तडिद् अम्बराय

गुञ्ज अवतंस परिपिच्छ लसत् मुखाय ।

वन्य स्रजे कवल वेत्र विषाण वेणु-

लक्ष्म-श्रिये मृदु-पदे पशु-प अङ्ग-जाय ॥


अस्यापि देव वपुषो मद् अनुग्रहस्य

स्वेच्छा मयस्य न तु भूतमयस्य को अपि ।

नेशे महि त्ववसितुं मनसा अन्तरेण

साक्षात् तवैव किम् उत आत्म सुखानुभूते: ॥


ज्ञाने प्रयासम् उदपास्य नमन्त एव

जीवन्ति सत् मुखरितां भवदीय-वार्ताम् ।

स्थाने स्थिता: श्रुति-गतां तनु-वाङ्-‌मनोभि:

ये प्रायश अजित जितो अप्यसि तै स्त्रि-लोक्याम् ॥


श्रेय:सृतिं भक्तिम् उदस्य ते विभो

क्लिश्यन्ति ये केवल बोध लब्धये ।

तेषामसौ क्लेशल एव शिष्यते

नान्यद् यथा स्थूल-तुष अवघातिनाम् ॥


पुरेह भूमन् बहवोऽपि योगिन:

त्वद् अर्पित येहा निजकर्म लब्धया ।

विबुध्य भक्त्यैव कथ- उपनीतया

प्रपेदिरे अञ्ज अच्युत ते गतिं पराम् ॥


तथापि भूमन् महिमा अगुणस्य ते

विबोद्धुम् अर्हति अमल अन्तरात्मभि: ।

अविक्रियात् स्व- अनुभवाद् अरूपतो

हि अनन्य-बोध्यात्मतया न च अन्यथा ॥


गुणात्मन: तेऽपि गुणान् विमातुं

हित-अवतीर्णस्य क ईशिरेऽस्य ।

कालेन यैर्वा विमिता: सुकल्पै:

भू-पांशव: खे मिहिका द्यु-भास: ॥


तत्ते अनुकम्पां सु-समीक्षमाणो

भुञ्जान एव आत्मकृतं विपाकम् ।

हृद् वाग् वपुर्भि: विदधन् नमस्ते

जीवेत यो मुक्तिपदे स दाय-भाक् ॥


पश्येश मे अनार्यम् अनन्त आद्ये

परात्मनि त्वय्यपि मायि-मायिनि ।

मायां वितत्य ईक्षितुम् आत्म वैभवं

हि अहं कियानैच्छम् इव अर्चि: अग्नौ ॥ 


अत: क्षमस्व अच्युत मे रजोभुवो

हि अजानत त्वत् पृथग् ईश मानिन: ।

अज अवलेप अन्ध तमो अन्ध चक्षुष

एषो अनुकम्प्यो मयि नाथवान् इति ॥


क्‍व अहं तमो महद् अहं ख चर अग्नि वा: भू

संवेष्टित अण्डघट सप्त वितस्ति काय: ।

क्‍वेद‍ृग् विधा अविगणित अण्ड पर अणु चर्या

वात अध्व रोम विवरस्य च ते महित्वम् ॥


उत्क्षेपणं गर्भ गतस्य पादयो:

किं कल्पते मातु: अधोक्षज आगसे ।

किम् अस्ति नास्ति व्यपदेश भूषितं

तवास्ति कुक्षे: कियदपि अनन्त: ॥


जगत् त्रय अन्त: उदधि सम्प्लव उदे

नारायणस्य उदर नाभि नालात् ।

विनिर्गतो अजस्तु इति वाख् न वै मृषा

किन्‍तु ईश्वर त्वन्न विनिर्गतोऽस्मि ॥


नारायणस्त्वं न हि सर्व देहिनाम्

आत्म असि अधीश अखिल लोक-साक्षी ।

नारायणोऽङ्गं नर-भू-जल-अयनात्

तच्चापि सत्यं न तवैव माया ॥


तच्चेत् जलस्थं तव सत् जगद् वपु:

किं मे न द‍ृष्टं भगवंस्तदैव ।

किं वा सुद‍ृष्टं हृदि मे तदैव

किं नो सपद् एव पुन: व्यदर्शि ॥


अत्रैव माया-धमन अवतारे

ह्यस्य प्रपञ्चस्य बहि: स्फुटस्य ।

कृत्‍स्‍नस्य च अन्त: जठरे जनन्या

मायात्वम् एव प्रकटी-कृतं ते ॥


यस्य कुक्षाविदं सर्वं सात्मं भाति यथा तथा ।

तत् त्वयि अपीह तत् सर्वं किमिदं मायया विना ॥


अद्यैव त्वद‍ृते अस्य किं मम न ते मायात्वम् आदर्शितम्

एकोऽसि प्रथमं ततो व्रज-सुहृद् वत्सा: समस्ता अपि ।

तावन्तोऽसि चतुर्भुजा: तद् अखिलै: साकं मया उपासिता:

तावन्ति एव जगन्ति अभू:  तदमितं ब्रह्माद् वयं शिष्यते ॥


अजानतां त्वत् पदवीम्  अनात्मनि

आत्म  आत्मना भासि वितत्य मायाम् ।

सृष्टाविव अहं जगतो विधान

इव त्वमेषो अन्त इव त्रिनेत्र: ॥


सुरेषु ऋषिषु ईश तथैव नृषु अपि

तिर्यक्षु याद:षु अपि ते अजनस्य ।

जन्म असतां दुर्मद निग्रहाय

प्रभो विधात: सदनुग्रहाय च ॥


को वेत्ति भूमन् भगवन् परात्मन्

योगेश्वरोती: भवत: त्रिलोक्याम् ।

क्‍व वा कथं वा कति वा कदेति

विस्तारयन् क्रीडसि योग-मायाम् ॥


तस्मादिदं जगद् अशेषम् असत् स्वरूपं

स्वप्न-आभम् अस्त-धिषणं पुरु-दु:ख-दु:खम् ।

त्वय्येव नित्य सुख बोध तनाव अनन्ते

मायात उद्यद् अपि यत् सदिव अवभाति ॥


एकस्त्वम् आत्मा पुरुष: पुराण:

सत्य: स्वयं ज्योति: अनन्त आद्य: ।

नित्य: अक्षर अजस्र सुखो निरञ्जन:

पूर्ण अद्वयो मुक्त उपाधितो अमृत: ॥


एवं-विधं त्वां सकल आत्मनाम् अपि

स्व आत्मानम् आत्म आत्मतया विचक्षते ।

गुरु अर्क लब्ध उपनिषत् सु चक्षुषा

ये ते तरन्तीव भव अनृत आम्बुधिम् ॥


आत्मानम् एव आत्मतया अवि-जानतां

तेनैव जातं निखिलं प्रपञ्चितम् ।

ज्ञानेन भूयोऽपि च तत् प्रलीयते

रज्ज्वाम् अहेर्भोग भवा-भवौ यथा ॥


अज्ञान संज्ञौ भव-बन्ध मोक्षौ

द्वौ नाम नान्यौ स्त ऋत ज्ञभावात् ।

अजस्र चिति आत्मनि केवले परे

विचार्य माणे तरणाविव अहनी ॥


त्वाम् आत्मानं परं मत्वा परमात्मानम् एव च ।

आत्मा पुनर्बहि: मृग्य अहो अज्ञ जनता अज्ञता ॥


अन्तर्भवे अनन्त भवन्तमेव

ह्यतत् त्यजन्तो मृगयन्ति सन्त: ।

असन्तम् अप्यन्ति अहिम् अन्तरेण

सन्तं गुणं तं किमु यन्ति सन्त: ॥


अथापि ते देव पदाम्बुज-द्वय-

प्रसाद लेश अनुगृहीत एव हि ।

जानाति तत्त्वं भगवन् महिम्नो

न च अन्य एकोऽपि चिरं विचिन्वन् ॥


तदस्तु मे नाथ स भूरि-भागो

भवेऽत्र वान्यत्र तु वा तिरश्चाम् ।

येनाहम् एकोऽपि भवत् जनानां

भूत्वा निषेवे तव पाद पल्लवम् ॥


अहो अति धन्या व्रज-गो-रमण्य:

स्तन्य अमृतं पीतम्  अतीव ते मुदा ।

यासां विभो वत्सतर आत्मज आत्मना

यत्  तृप्तये अद्यापि न च अलम् अध्वरा: ॥


अहो भाग्यं अहो  भाग्यं नन्दगोप व्रज औकसाम् ।

यन्मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् ॥


एषां तु भाग्य महिमा अच्युत तावदास्ताम्

एकादश इव हि वयं बत भूरिभागा: ।

एतद् ‌धृषीक चषकै: असकृत् पिबाम:

शर्वादयो अङ्‍‍घ्रि उदज मधु अमृत आसवं ते ॥


तद् भूरिभाग्यम् इह जन्म किमपि अटव्यां

यद् गोकुलेऽपि कतम अङ्‍‍घ्रि रजोऽभिषेकम् ।

यज्जीवितं तु निखिलं भगवान् मुकुन्द:

तु अद्यापि यत् पद-रज: श्रुति मृग्यम् एव ॥


एषां घोष निवासिनाम् उत भवान् किं देव राता इति न:

चेतो विश्व फलात् फलं त्वदपरं कुत्रापि अयत् मुह्यति ।

सद् वेषाद् इव पूतनापि स-कुला त्वामेव देव-आपिता

यद्धाम अर्थ सुहृत् प्रिय आत्म तनय प्राण आशया: त्वत्कृते ॥


तावद् राग आदय: स्तेना: तावत् कारागृहं गृहम् ।

तावत् मोहो अङ्‍‍‍‍‍घ्रि निगडो यावत् कृष्ण न ते जना: ॥


प्रपञ्चं निष्-प्रपञ्चोऽपि विडम्बयसि भूतले ।

प्रपन्न जनता आनन्द सन्दोहं प्रथितुं प्रभो ॥


जानन्त एव जानन्तु किं बहूक्त्या न मे प्रभो ।

मनसो वपुषो वाचो वैभवं तव गोचर: ॥


अनुजानीहि मां कृष्ण सर्वं त्वं वेत्सि सर्वद‍ृक् ।

त्वमेव जगतां नाथो जगदेतत् तव अर्पितम् ॥


श्रीकृष्ण वृष्णि कुल पुष्कर जोष दायिन्

क्ष्मा निर्जर द्विज पशू उदधि वृद्धि कारिन् ।

उद्धर्म शार्वर हर क्षिति राक्षस ध्रुग्

आ-कल्पम् आ-अर्कम् अर्हन् भगवन् नमस्ते ॥


श्रीशुक उवाच

इति अभिष्टूय भूमानं त्रि: परिक्रम्य पादयो: ।

नत्वा अभीष्टं जगद् धाता स्वधाम प्रत्यपद्यत ॥


ततो अनुज्ञाप्य भगवान् स्वभुवं प्राग् अवस्थितान् ।

वत्सान् पुलिनम् आनिन्ये यथा पूर्व सखं स्वकम् ॥


एकस्मिन् अपि यातेऽब्दे प्राणेशं च अन्तरात्मन: ।

कृष्ण माया आहता राजन् क्षणार्धं मेनिरे अर्भका: ॥


किं किं न विस्मरन्ति  इह माया मोहित चेतस: ।

यन्मोहितं जगत् सर्वम् अभीक्ष्णं विस्मृत- आत्मकम् ॥


ऊचुश्च सुहृद: कृष्णं स्वागतं ते अति-रंहसा ।

न एकोपि अभोजि कवल एहि इत: साधु भुज्यताम् ॥


ततो हसन् हृषीकेशो अभ्य-वहृत्य सह अर्भकै: ।

दर्शयं चर्म आजगरं न्यवर्तत वनाद् व्रजम् ॥


बर्ह प्रसून वन-धातु विचित्रित अङ्ग:

प्रोद्दाम वेणु-दल श‍ृङ्ग रव उत्सव आढ्य: ।

वत्सान् गृणन् अनुग गीत पवित्र कीर्ति:

गोपी द‍ृग् उत्सव द‍ृशि: प्रविवेश गोष्ठम् ॥


अद्य अनेन महा-व्यालो यशोदा नन्द सूनुना ।

हतो अविता वयं च अस्माद् इति बाला व्रजे जगु: ॥


श्रीराज उवाच

ब्रह्मन् पर उद्भ‍वे कृष्णे इयान् प्रेमा कथं भवेत् ।

यो अभूत पूर्व: तोकेषु स्व-उद्भ‍वेषु अपि कथ्यताम् ॥


श्रीशुक उवाच

सर्वेषामपि भूतानां नृप स्व-आत्मैव वल्लभ: ।

इतरे अपत्य वित्त आद्या तद् वल्लभता इव हि ॥


तद् राजेन्द्र यथा स्नेह: स्व-स्वक आत्मनि देहिनाम् ।

न तथा ममता आलम्बि पुत्र वित्त गृहादिषु ॥


देहात्म वादिनां पुंसामपि राजन्य सत्तम ।

यथा देह: प्रियतम: तथा न ह्यनु ये च तम् ॥


देहोऽपि ममता भाक् चेत् तर्ह्यसौ न आत्मवत् प्रिय: ।

यत् जीर्यति अपि देहेऽस्मिन् जीविताशा बलीयसी ॥


तस्मात् प्रियतम: स्व आत्मा सर्वेषामपि देहिनाम् ।

तदर्थमेव सकलं जगदेतत् चराचरम् ॥


कृष्णमेनम् अवेहि त्वम् आत्मानम् अखिलात्मनाम् ।

जगद् हिताय स: अपि अत्र देहि इव आभाति मायया ॥


वस्तुतो जानताम् अत्र कृष्णं स्थास्‍नु चरिष्णु च ।

भगवद् रूपमखिलं नान्यद् वस्तु इह किञ्चन ॥


सर्वेषामपि वस्तूनां भावार्थो भवति स्थित: ।

तस्यापि भगवान् कृष्ण: किमतद् वस्तु रूप्यताम् ॥


समाश्रिता ये पद पल्लव प्लवं

महत्पदं पुण्य यशो मुरारे: ।

भव अम्बुधि: वत्स-पदं परं पदं

पदं पदं यद् विपदां न तेषाम् ॥


एतत्ते सर्वम् आख्यातं यत् पृष्टो अहमिह त्वया ।

तत् कौमारे हरिकृतं पौगण्डे परि-कीर्तितम् ॥


एतत् सुहृद्भ‍ि: चरितं मुरारे:

अघ अर्दनं शाद्वल जेमनं च ।

व्यक्त इतरद् रूपम् अज उरु अभिष्टवं

श‍ृण्वन् गृणन्नेति नरो अखिल अर्थान् ॥


एवं विहारै: कौमारै: कौमारं जहतु: व्रजे ।

निलायनै: सेतु-बन्धै: र्मर्कट-उत्‍प्लवन आदिभि: ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे ब्रह्मस्तुतिर्नाम चतुर्दशोऽध्यायः ॥ 14

No comments: