Followers

Search Here...

Monday, 31 March 2025

ஸ்கந்தம் 10: அத்யாயம் 1 (யார் கிருஷ்ணன்) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 யார் கிருஷ்ணன்

ஸ்கந்தம் 10: அத்யாயம் 1


श्री राजा उवाच ।

कथितः वंश विस्तारः भवता सोम सूर्ययोः ।
राज्ञाम् च उभय वंश्यानाम् चरितम् परम अद्भुतम् ॥ 1 ॥

यदोष् च धर्म शीलस्य नितरां मुनि सत्तम ।
तत्र अंशेन अवतीर्णस्य विष्णोः वीर्याणि शंस नः ॥ 2 ॥

अवतीर्य यदोः वंशे भगवान् भूत भावनः ।
कृतवान् यानि विश्व आत्मा तानि नः वद विस्तरात् ॥ 3 ॥

निवृत्त तर्षैः उपगीय मानात्
भव औषधात् श्रवण मनः अभिरामात् ।
कः उत्तम श्लोक गुण अनु वादात्
पुमान् विरज्येत विना पशु घ्नात् ॥ 4 ॥

पितामहः मे समरे अमर अञ्जयैः
देव व्रतात् याति रथैः तिमिङ्गिलैः ।
दुरत्ययम् कौरव सैन्य सागरम्
कृत्वा अतरत् वत्स पदम् स्म यत् प्लवाः ॥ 5 ॥

द्रौणि अस्त्र विप्लुष्टम् इदं मद् अङ्गम्
सन्तान बीजम् कुरु पाण्डव नाम् ।
जुगोप कुक्षिं गतः आत्त चक्रः
मातुः च मे यः शरणम् गतायाः ॥ 6 ॥

वीर्याणि तस्य अखिल देह भाजाम्
अन्तः बहिः पूरुष काल रूपैः ।
प्रयच्छतः मृत्युम् उत अमृतम् च
मायाम् मनुष्यस्य वदस्व विद्वन् ॥ 7 ॥

रोहिण्याः तनयः प्रोक्तः रामः संकर्षणः तु या ।
देवक्या गर्भ संबंधः कुतः देह अन्तरम् विना ॥ 8 ॥

कस्मात् मुकुन्दः भगवान् पितुः गेहात् व्रजम् गतः ।
क्व वासम् ज्ञातिभिः सार्धम् कृतवान् सात्वताम् पतिः ॥ 9 ॥

व्रजे वसन् किम् अकरोत् मधु पुर्याम् च केशवः ।
भ्रातरम् च अवधीत् कंसम् मातुः अद्धात दर्हणम् ॥ 10 ॥

देहम् मानुषम् आश्रित्य कति वर्षाणि वृष्णिभिः ।

यदु पुर्याम् सह अवात्सीत् पत्न्यः कतिः अभवन् प्रभोः ॥ 11 ॥


एतत् अन्यत् च सर्वम् मे मुने कृष्ण विचेष्टितम् ।

वक्तुम् अर्हसि सर्वज्ञ श्रद्दधानाय विस्तृतम् ॥ 12 ॥


न एषा अति दुःसहा क्षुः माम् त्यक्त ओदम् अपि बाधते ।

पिबन्तम् त्वत् मुख अम्भोज च्युतम् हरि कथा अमृतम् ॥ 13 ॥


सूतः उवाच ।


एवं निशम्य भृगु नन्दन साधु वादम्

वैयासकिः स भगवान् अथ विष्णु रतम् ।

प्रत्यर्च्य कृष्ण चरितम् कलि कल्मष घ्नम्

व्याहर्तुम् आरभत भागवत प्रधानः ॥ 14 ॥


श्री शुक उवाच ।


सम्यक् व्यवसितः बुद्धिः तव राजर्षि सत्तम ।

वासुदेव कथायाम् ते यत् जाता नैष्ठिकी रतिः ॥ 15 ॥


वासुदेव कथा प्रश्नः पुरुषान् त्रीन् पुनाति हि ।

वक्तारम् पृच्छकम् श्रोतॄन् तत् पाद सलिलम् यथा ॥ 16 ॥


भूमिः दृप्त नृप व्याज दैत्य आनीक शत आयुतैः ।

आक्रान्ता भूरि भारेण ब्रह्माणम् शरणम् ययौ ॥ 17 ॥


गौः भूत्वा अश्रु मुखी खिन्ना क्रन्दन्ती करुणम् विभोः ।

उपस्थित अन्तिके तस्मै व्यसनम् स्वम् अवोचत ॥ 18 ॥


ब्रह्मा तत् उपधार्य अथ सह देवैः तया सह ।

जगाम स त्रि नयनः तीरम् क्षीर पयः निधेः ॥ 19 ॥


तत्र गत्वा जगत् नाथम् देव देवम् वृषाकपिम् ।

पुरुषम् पुरुष सूक्तेन उपतस्थे समाहितः ॥ 20 ॥

गिरम् समाधौ गगने समीरिताम्
निशम्य वेधाः त्रिदशान् उवाच ह ।
गाम् पौरुषीम् मे श्रृणुत आमराः पुनः
विधीयताम् आशु तथा एव मा चिरम् ॥ 21 ॥

पुरा एव पुंसा अवधृतः धराअज्वरः
भवद्भिः अंशैः यदुषु उपजंयताम् ।
सः यावत् उर्व्याः भरम् ईश्वर ईश्वरः
स्व काल शक्त्या क्षपयन् चरेत् भुवि ॥ 22 ॥

वसुदेव गृहे साक्षात् भगवान् पुरुषः परः।
जनिष्यते तत् प्रिय अर्थम् संभवन्तु सुर स्त्रियः ॥ 23 ॥

वासुदेव कला अनन्तः सहस्र वदनः स्वराट्।
अग्रतः भविता देवः हरेः प्रिय चिकीर्षया ॥ 24 ॥

विष्णोः माया भगवती या सम्मोहितम् जगत्।
आदिष्टा प्रभुना अंशेन कार्य अर्थे संभविष्यति ॥ 25 ॥

श्री शुक उवाच ।

इति आदिश्य अमर गणान् प्रजापति पतिः विभुः।
आश्वास्य च महीं गीर्भिः स्व धाम परमं ययौ ॥ 26 ॥

शूरसेनः यदु पतिः मथुराम् आवसत् पुरीम्।
माथुरान् शूरसेनान् च विषयान् बुभुजे पुरा ॥ 27 ॥

राजधानी ततः सा अभूत् सर्व यदव भूभुजाम्।
मथुरा भगवान् यत्र नित्यं संनिहितः हरिः ॥ 28 ॥

यस्याम् तु कर्हिचित् शौरिः वसुदेवः कृत उद्वहः।
देवक्या सूर्यया सार्धं प्रयाणे रथम् आरुहत् ॥ 29 ॥

उग्रसेन सुतः कंसः स्वसुः प्रिय चिकीर्षया।
रश्मीन् हयानाम् जग्राह रौक्मैः रथ शतैः वृतः ॥ 30 ॥

चतुः-शतं पारि-बर्हं गजानां हेम-मालिनाम्।

अश्वानाम् अयुतं सार्धं रथानां च त्रि-षट्-शतम् ॥३१॥


दासीनां सु-कुमारीणां द्वे शते सम्-अलंकृते।

दुहित्रे देवकः प्रादात् याने दुहितृ-वत्सलः ॥३२॥


शङ्ख-तूर्य-मृदंगाः च नेदुः दुन्दुभयः समम्।

प्रयाण-प्रक्रमे तावत् वर-वध्वोः सु-मंगलम् ॥३३॥


पथि प्रग्रहिणं कंसम् आभाष्य आह अ-शरीर-वाक्।

अस्याः त्वाम् अष्टमः गर्भः हन्ता यां वहसे अबुध ॥३४॥


इत्युक्तः स खलः पापः भोजानां कुल-पांसनः।

भगिनीं हन्तुम् आरब्धः खड्ग-पाणिः कचे अ-ग्रहीत् ॥३५॥


तं जुगुप्सित-कर्माणं नृ-शंसं निर-पत्रपम्।

वसुदेवः महा-भागः उवाच परिसान्त्वयन् ॥३६॥


श्री-वसुदेवः उवाच

श्लाघनीय-गुणः शूरैः भवान् भोज-यशः-करः।

स कथं भगिनीं हन्यात् स्त्रियम् उद्वाह-पर्वणि ॥३७॥


मृत्युः जन्मवतां वीर देहेन सह जायते।

अद्य वा अब्द-शत-अन्ते वा मृत्यु: वै प्राणिनां ध्रुवः ॥३८॥


देहे पञ्चत्वम् आपन्ने देही कर्म-अनुगः अवशः।

देह-अन्तरम् अनुप्राप्य प्राक्तनं त्यजते वपुः ॥३९॥


व्रजन् तिष्ठन् पद-एकेन यथा एव एकेन गच्छति।

यथा तृण-ज-लूके एवम् देही कर्म-गतिं गतः ॥४०॥

स्वप्ने यथा पश्यति देहम् ईदृशं
मनोरथेन अभिनिविष्ट चेतनः।
दृष्ट श्रुताभ्यां मनसा अनुचिन्तयन्
प्रपद्यते तत् किम् अपि हि अपस्मृतिः॥ ४१

यतः यतः धावति दैव चोदितं
मन्: विकारात्मकम् आप पञ्चसु।
गुणेषु माया रचितेषु देह्य् असौ
प्रपद्यमानः सह तेन जायते॥ ४२

ज्योतिः यथा एव उदक पार्थिवेषु अदः
समीर वेग अनुगतं विभाव्यते।
एवं स्व माया रचितेषु असौ पुमान्
गुणेषु राग अनुगतः विमुह्यति॥ ४३

तस्मात् न कस्यचित् द्रोहम् आचरेत् स तथाविधः।
आत्मनः क्षेमम् अन्विच्छन् द्रोग्धुः वै परतः भयम्॥ ४४

एषा तव अनुजा बाला कृपणा पुत्रिका उपमा।
हन्तुम् नार्हसि कल्याणीम् इमां त्वं दीनवत्सलः॥ ४५

श्रीशुक उवाच।
एवं स सामभिः भेदैः बोध्यमानः अपि दारुणः।
न न्यवर्तत कौरव्य पुरुष आद अनुव्रतः॥ ४६

निर्बन्धं तस्य तं ज्ञात्वा विचिन्त्य अनकदुन्दुभिः।
प्राप्तं कालं प्रतिव्योढुम् इदं तत्र अन्वपद्यत॥ ४७

मृत्युः बुद्धिमता अपोह्यः यावत् बुद्धि बल उदयम्।
यद्य् असौ न निवर्तेत न अपराधः अस्ति देहिनः॥ ४८

प्रदाय मृत्यवे पुत्रान् मोचये कृपणाम् इमाम्।
सुताः मे यदि जायेरन् मृत्युर्वा न म्रियेत चेत्॥ ४९

विपर्ययः वा किम् न स्यात् गतिः धातुः दुरत्यया।
उपस्थितः निवर्तेत निवृत्तः पुनः आपतेत्॥ ५०

अग्नेः यथा दारु वियोग योगयोः
अदृष्टतः अन्यत् न निमित्तम् अस्ति।
एवं हि जन्तोः अपि दुर्विभाव्यः
शरीर संयोग वियोग हेतुः॥ ५१

एवं विमृश्य तं पापं यावत् आत्मनि दर्शनम्।
पूजयामास वै शौरिः बहु-मान पुरःसरम्॥ ५२

प्रसन्न वदन अम्भोजः नृशंसं निरपत्रपम्।
मनसा दूयमानेन विहसन् इदम् अब्रवीत्॥ ५३

श्री वसुदेव उवाच।
न हि अस्या अस्ते भयम् सौम्य यत् वाक् आहा शरीरिणी।
पुत्रान् समर्पयिष्ये अस्या यतः ते भयम् उत्प्थितम्॥ ५४

श्री शुक उवाच।
स्वसुः वधात् निववृते कंसः तद् वाक्य सार वित्।
वसुदेवः अपि तं प्रीतः प्रशस्य प्राविशत् गृहम्॥ ५५

अथ काल उपावृत्ते देवकी सर्व देवता।
पुत्रान् प्रसुषुवे च अष्टौ कन्यां च एव अनुवत्सरम्॥ ५६

कीर्तिमन्तं प्रथमजं कंसाय अनकदुन्दुभिः।
अर्पयामास कृच्छ्रेण सः अनृतात् अतिविह्वलः॥ ५७

किं दुस्सहम् नु साधूनां विदुषां किम् अपेक्षितम्।
किम् कार्यं कदर्याणां दुस्त्यजं किम् धृतात्मनाम्॥ ५८

दृष्ट्वा समत्वं तत् शौर्येः सत्ये च एव व्यवस्थितिम्।
कंसः तुष्ट मना राजन् प्रहसन् इदम् अब्रवीत्॥ ५९

प्रतियातु कुमारः अयम् न हि अस्मात् अस्ति मे भयम्।
अष्टमात् युवयोः गर्भात् मृत्युः मे विहितः किल॥ ६०

तथाऽइति सुतम् आदाय ययौ अनकदुन्दुभिः।
न अभ्यनन्दत तत् वाक्यम् असतः अविजित आत्मनः॥ ६१

नन्द आदि ये व्रजे गोपाः याः च अामीषां च योषितः।
वृष्णयः वसुदेव आदि देवकी आदि यदु स्त्रियः॥ ६२

सर्वे वै देवता प्रायाः उभयोः अपि भारत।
ज्ञातयः बन्धु सुहृदः ये च कंस मनुव्रताः॥ ६३

एतत् कंसाय भगवान् शशंस अभ्येत्य नारदः।
भूमेः भार अयमानानां दैत्यानां च वध उद्यमम्॥ ६४

ऋषेः विनिर्गमे कंसः यदून् मत्वा सुरान् इति।
देवक्या गर्भ संभवतम् विष्णुं च स्व वधं प्रति॥ ६५

देवकीं वसुदेवं च निगृह्य निगडैः गृहे।
जातं जातं अहन् पुत्रं तयोः अजन शंकया॥ ६६

मातरं पितरं भ्रातॄन् सर्वान् च सुहृदः तथा।
घ्नन्ति हि असुतृपः लुब्धाः राजानः प्रायशः भुवि॥ ६७

आत्मानम् इह सञ्जातं जानन् प्राक् विष्णुना हतम्।
महासुरं कालनेमिं यदुभिः सः व्यरुध्यत॥ ६८

उग्रसेनं च पितरं यदु-भोज-अन्धक-अधिपम्।
स्वयं निगृह्य बुभुजे शूरसेनान् महाबलः॥ ६९

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे श्रिकृष्णावतार पक्रमे प्रथमोध्याऽयः॥1

No comments:

Post a Comment