பரீக்ஷித் பெற்ற சாபம்
ஸ்கந்தம் 1: அத்யாயம் 18
सूत उवाच
यो वै द्रौणि-अस्त्र विप्लुष्टो न मातु: उदरे मृत: ।
अनुग्रहाद् भगवत: कृष्णस्य अद्भुत कर्मण: ॥
ब्रह्म-कोप उत्थिताद् य: तु तक्षकात् प्राण-विप्लवात् ।
न सम्मुमोह उरु-भयाद् भगवति अर्पित आशय: ॥
उत्सृज्य सर्वत: सङ्गं विज्ञात अजित संस्थिति: ।
वैयासके: जहौ शिष्यो गङ्गायां स्वं कलेवरम् ॥
न उत्तम-श्लोक वार्तानां जुषतां तत् कथा-अमृतम् ।
स्यात् सम्भ्रम: अन्त काले अपि स्मरतां तत् पद-अम्बुजम् ॥
तावत् कलि: न प्रभवेत् प्रविष्ट: अपि इह सर्वत: ।
यावद् ईशो महान् उर्व्याम् आभिमन्यव एकराट् ॥
यस्मिन् अहनि यर्हि एव भगवान् उत्ससर्ज गाम् ।
तदा एव इह अनुवृत्त असौ अधर्म प्रभव: कलि: ॥
न अनुद्वेष्टि कलिं सम्राट् सारङ्ग इव सार-भुक् ।
कुशलानि अशु सिद्ध्यन्ति न इतराणि कृतानि यत् ॥
किं नु बालेषु शूरेण कलिना धीर भीरुणा ।
अप्रमत्त: प्रमत्तेषु यो वृको नृषु वर्तते ॥
उपवर्णितम् एतद् व: पुण्यं पारीक्षितं मया ।
वासुदेव कथा उपेतम् आख्यानं यद् अपृच्छत ॥
या या: कथा भगवत: कथनीय उरु-कर्मण: ।
गुण कर्म आश्रया: पुम्भि: संसेव्या: ता बुभूषुभि: ॥
ऋषय ऊचु:
सूत जीव समा: सौम्य शाश्वती विशदं यश: ।
य: त्वं शंससि कृष्णस्य मर्त्यानाम् अमृतं हि न: ॥
कर्मणि अस्मिन् अनाश्वासे धूम धूम्र-आत्मनां भवान् ।
आपाययति गोविन्द पाद पद्म-आसवं मधु ॥
तुलयाम लवेन अपि न स्वर्गं न अपुन: भवम् ।
भगवत् सङ्गि सङ्गस्य मर्त्यानां किम् उत आशिष: ॥
को नाम तृप्येद् रस-वित् कथायां महत्-तम एकान्त परायणस्य ।
न अन्तं गुणानाम् अगुणस्य जग्मु: योग-ईश्वर: ये भव पाद्म मुख्या: ॥
तत् न: भवान् वै भगवत् प्रधानो महत्तम: एकान्त परायणस्य ।
हरे: उदारं चरितं विशुद्धं शुश्रूषतां नो वितनोतु विद्वन् ॥
स वै महा-भागवत: परीक्षिद् येन अपवर्ग आख्यम् अदभ्र बुद्धि: ।
ज्ञानेन वैयासकि शब्दितेन भेजे खग-इन्द्र ध्वज पाद-मूलम् ॥
तत् न: परं पुण्यम् असंवृत-अर्थम् आख्यानम् अत्यद्भुत योग निष्ठम् ।
आख्याहि अनन्त आचरित उपपन्नं पारीक्षितं भागवत अभिरामम् ॥
सूत उवाच
अहो वयं जन्म-भृत: अद्य ह आस्म वृद्ध-अनुवृत्त्या अपि विलोम जाता: ।
दौष्कुल्यम् आधिं विधुनोति शीघ्रं महत्-तमानाम् अभिधान योग: ॥
कुत: पुन: गृणत: नाम तस्य महत्तम एकान्त परायणस्य ।
य: अनन्त शक्ति: भगवान् अनन्तो महद् गुणत्वाद् यम् अनन्तम् आहु: ॥
एतावता अलं ननु सूचितेन गुणै: असाम्य अनति शायनस्य ।
हित्वा इतरान् प्रार्थयत: विभूति: यस्य अङ्घ्रि रेणुं जुषते अनभीप्सो: ॥
अथ अपि यत् पाद-नख अवसृष्टं जगद् विरिञ्च उपहृत अर्हण अम्भ: ।
स ईशं पुनाति अन्यतम: मुकुन्दात् क: नाम लोके भगवत् पद अर्थ: ॥
यत्र अनुरक्ता: सहसा एव धीरा व्यपोह्य देह आदिषु सङ्गम् ऊढम् ।
व्रजन्ति तत् पारम-हंस्यम् अन्त्यं यस्मिन् अहिंसा उपशम: स्वधर्म: ॥
अहं हि पृष्ट: अर्यमणो भवद्भि- राचक्ष आत्म अवगम: अत्र यावान् ।
नभ: पतन्ति आत्म-समं पतत्त्रिण: तथा समं विष्णु-गतिं विपश्चित: ॥
एकदा धनु: उद्यम्य विचरन् मृगयां वने ।
मृगान् अनुगत: श्रान्त: क्षुधित: तृषितो भृशम् ॥
जल-आशयम् अचक्षाण: प्रविवेश तम् आश्रमम् ।
ददर्श मुनिम् आसीनं शान्तं मीलित लोचनम् ॥
प्रतिरुद्ध इन्द्रिय प्राण मन: बुद्धिम् उपारतम् ।
स्थान त्रयात्-परं प्राप्तं ब्रह्मभूतम् अविक्रियम् ॥
विप्रकीर्ण जट-आच्छन्नं रौरवेण अजिनेन च ।
विशुष्यत् तालु: उदकं तथा-भूतम् अयाचत ॥
अलब्ध तृण भूमि आदि: असम्प्राप्त अर्घ्य सूनृत: ।
अवज्ञातम् इव आत्मानं मन्यमान: चुकोप ह ॥
अभूत-पूर्व: सहसा क्षुत् तृड्भ्याम् अर्दित आत्मन: ।
ब्राह्मणं प्रति अभूद् ब्रह्मन् मत्सरो मन्यु: एव च ॥
स तु ब्रह्म-ऋषे: अंसे गतासुम् उरगं रुषा ।
विनिर्गच्छन् धनु: कोट्या निधाय पुरम् आगत: ॥
एष किं निभृत अशेष करणो मीलित ईक्षण: ।
मृषा समाधि: आहो स्वित् किं नु स्यात् क्षत्र-बन्धुभि: ॥
तस्य पुत्र: अति तेजस्वी विहरन् बालक: अर्भकै: ।
राज्ञा अघं प्रापितं तातं श्रुत्वा तत्र इदम् अब्रवीत् ॥
अहो अधर्म: पालानां पीव्नां बलि-भुजाम् इव ।
स्वामिनि अघं यद् दासानां द्वार-पानां शुनाम् इव ॥
ब्राह्मणै: क्षत्र-बन्धु: हि गृह-पाल: निरूपित: ।
स कथं तद्गृहे द्वा:-स्थ: स-भाण्डं भोक्तुम् अर्हति ॥
कृष्णे गते भगवति शास्तरि उत्पथ-गामिनाम् ।
तद्-भिन्न सेतून् अद्य अहं शास्मि पश्यत मे बलम् ॥
इति उक्त्वा रोष ताम्र अक्ष: वयस्यान् ऋषि-बालक: ।
कौशिकि आप उपस्पृश्य वाग्-वज्रं विससर्ज ह ॥
इति लङ्घित मर्यादं तक्षक: सप्तमे अहनि ।
दङ्क्ष्यति स्म कुल अङ्गारं चोदितो मे तत द्रुहम् ॥
तत: अभ्येत्य आश्रमं बालो गले सर्प कलेवरम् ।
पितरं वीक्ष्य दु:ख आर्त: मुक्त-कण्ठ: रुरोद ह ॥
स वा आङ्गिरस: ब्रह्मन् श्रुत्वा सुत विलापनम् ।
उन्मील्य शनकै: नेत्रे दृष्ट्वा च अंसे मृत-उरगम् ॥
विसृज्य तं च पप्रच्छ वत्स कस्माद् हि रोदिषि ।
केन वा ते अपकृतम् इति उक्त: स न्यवेदयत् ॥
निशम्य शप्तम् अतद् अर्हं नरेन्द्रं स ब्राह्मणो न आत्मजम् अभ्यनन्दत् ।
अहो बता अंह: महद् अद्य ते कृतम् अल्पीयसि द्रोह उरु: दमो धृत: ॥
न वै नृभि: नर-देवं पर-आख्यं सम्मातुम् अर्हसि अविपक्व बुद्धे ।
यत् तेजसा दुर्विषहेण गुप्ता विन्दन्ति भद्राणि अकुत: भया: प्रजा: ॥
अलक्ष्यमाणे नरदेव नाम्नि रथ-अङ्ग-पाणौ अयम् अङ्ग लोक: ।
तदा हि चौर प्रचुर: विनङ्क्ष्यति अरक्ष्यमाण: अविवरूथ-वत् क्षणात् ॥
तद् अद्य न: पापम् उपैति अनन्वयं यत् नष्ट नाथस्य वसो: विलुम्पकात् ।
परस्परं घ्नन्ति शपन्ति वृञ्जते पशून् स्त्रिय: अर्थान् पुरु दस्यव: जना: ॥
तदा आर्य धर्म: प्रविलीयते नृणां वर्ण आश्रम आचार-युत: त्रयी-मय: ।
तत: अर्थ काम अभिनिवेशित आत्मनां शुनां कपीनाम् इव वर्ण सङ्कर: ॥
धर्म-पाल: नर-पति: स तु सम्राड् बृहद् श्रवा: ।
साक्षाद् महा भागवत: राजर्षि: हय मेधयाट् ।
क्षुत्-तृट् श्रम-युत: दीनो न: एव अस्मत् शापम् अर्हति ॥
अपापेषु स्व-भृत्येषु बालेन अपक्व बुद्धिना ।
पापं कृतं तद्-भगवान् सर्व-आत्मा क्षन्तुम् अर्हति ॥
तिर: कृता विप्रलब्धा: शप्ता: क्षिप्ता हता अपि ।
नास्य तत् प्रति-कुर्वन्ति तद्-भक्ता: प्रभव: अपि हि ॥
इति पुत्र कृत अघेन स: अनुतप्त: महा-मुनि: ।
स्वयं विप्रकृत: राज्ञा न एव अघं तद् अचिन्तयत् ॥
प्रायश: साधव: लोके परै: द्वन्द्वेषु योजिता: ।
न व्यथन्ति न हृष्यन्ति यत आत्मा अगुण आश्रय: ॥
No comments:
Post a Comment