த்ருதராஷ்டிரர் மாளிகையை விட்டு வெளியேறினார்
ஸ்கந்தம் 1: அத்யாயம் 13
सूत उवाच
विदुर: तीर्थ यात्रायां मैत्रेया: आत्मनो गतिम् ।
ज्ञात्व आगाद् हास्तिनपुरं तया अवाप्त विवित्सित: ॥
यावत: कृतवान् प्रश्नान् क्षत्ता कौषारव अग्रत: ।
जातैक भक्ति: गोविन्दे तेभ्य: च उपरराम ह ॥
तं बन्धुम् आगतं दृष्ट्वा धर्मपुत्र: सह अनुज: ।
धृतराष्ट्रो युयुत्सु: च सूत: शारद्वत: पृथा ॥
गान्धारी द्रौपदी ब्रह्मन् सुभद्रा च उत्तरा कृपी ।
अन्या: च जामय: पाण्डो: ज्ञातय: स-सुता: स्त्रिय: ॥
प्रति उज्जग्मु: प्रहर्षेण प्राणं तन्व इव आगतम् ।
अभिसङ्गम्य विधि वत् परिष्वङ्ग अभिवादनै: ॥
मुमुचु: प्रेम बाष्प औघं विरह औत्कण्ठ्य कातरा: ।
राजा तम् अर्हयाम् चक्रे कृत आसन परिग्रहम् ॥
तं भुक्तवन्तं विश्रान्तम् आसीनं सुखम् आसने ।
प्रश्रय अवनतो राजा प्राह तेषां च शृण्वताम् ॥
युधिष्ठिर उवाच
अपि स्मरथ नो युष्मत् पक्ष छाया समेधितान् ।
विपद् गणाद् विष अग्नि-आदे: मोचिता यत् स मातृका: ॥
कया वृत्त्या वर्तितं व: चरद्भि: क्षिति मण्डलम् ।
तीर्थानि क्षेत्र मुख्यानि सेवितानि इह भूतले ॥
भवद् विधा भागवता: तीर्थ भूता: स्वयं विभो ।
तीर्थी कुर्वन्ति तीर्थानि स्व अन्त: स्थेन गदा भृता ॥
अपि न: सुहृद: तात बान्धवा: कृष्ण देवता: ।
दृष्टा: श्रुता वा यदव: स्व-पुर्यां सुखम् आसते ॥
इति उक्तो धर्म राजेन सर्वं तत् समवर्णयत् ।
यथा अनुभूतं क्रमशो विना यदु-कुल-क्षयम् ॥
ननु अप्रियं दुर्विषहं नृणां स्वयम् उपस्थितम् ।
न आवेदयत् सकरुणो दु:खितान् द्रष्टुम् अक्षम: ॥
कञ्चित् कालम् अथ अवात्सीत् सत्कृतो देव-वत् सुखम् ।
भ्रातु: ज्येष्ठस्य श्रेय:-कृत् सर्वेषां सुखम् आवहन् ॥
अबिभ्रद् अर्यमा दण्डं यथावद् अघ कारिषु ।
यावद् दधार शूद्रत्वं शापाद् वर्ष-शतं यम: ॥
युधिष्ठिरो लब्ध राज्यो दृष्ट्वा पौत्रं कुलम् धरम् ।
भ्रातृभि: लोक-पालाभै: मुमुदे परया श्रिया ॥
एवं गृहेषु सक्तानां प्रमत्तानां तद् ईहया ।
अत्यक्रामद् अविज्ञात: काल: परम दुस्तर: ॥
विदुर तद् अभिप्रेत्य धृतराष्ट्रम् अभाषत ।
राजन् निर्गम्यतां शीघ्रं पश्येदं भयम् आगतम् ॥
प्रतिक्रिया न यस्येह कुतश्चित् कर्हिचित् प्रभो ।
स एष भगवान् काल: सर्वेषां न: समागत: ॥
येन चैव अभिपन्न: अयं प्राणै: प्रिय तमै: अपि ।
जन: सद्यो वियुज्येत किम् उत अन्यै: धन आदिभि: ॥
पितृ भ्रातृ सुहृत् पुत्रा हता: ते विगतं वयम् ।
आत्मा च जरया ग्रस्त: पर-गेहम् उपाससे ॥
अन्ध: पुरैव वधिरो मन्द प्रज्ञा: च साम्प्रतम् ।
विशीर्ण दन्तो मन्दाग्नि: स-राग: कफम् उद्वहन् ॥
अहो महीयसी जन्तो: जीवित आशा यथा भवान् ।
भीम अपवर्जितं पिण्डम् आदत्ते गृह पाल-वत् ॥
अग्नि: निसृष्टो दत्त: च गरो दारा: च दूषिता: ।
हृतं क्षेत्रं धनं येषां तद् दत्तै: असुभि: कियत् ॥
तस्यापि तव देह अयं कृपणस्य जिजीविषो: ।
परैति अनिच्छतो जीर्णो जरया वाससी इव ॥
गत स्व अर्थम् इमं देहं विरक्तो मुक्त बन्धन: ।
अविज्ञात गति: जह्यात् स वै धीर उदाहृत: ॥
य: स्वकात् परतो वा इह जात निर्वेद आत्मवान् ।
हृदि कृत्वा हरिं गेहात् प्रव्रजेत् स नरोत्तम: ॥
अथ: उदीचीं दिशं यातु स्वै: अज्ञात गति: भवान् ।
इत: अर्वाक् प्रायश: काल: पुंसां गुण विकर्षण: ॥
एवं राजा विदुरेण अनुजेन प्रज्ञा चक्षु: बोधित आजमीढ: ।
छित्त्वा स्वेषु स्नेह-पाशान् द्रढिम्न: निश्चक्राम भ्रातृ सन्दर्शित अध्वा ॥
पतिं प्रयान्तं सुबलस्य पुत्री पति-व्रता च अनुजगाम साध्वी ।
हिमालयं न्यस्त दण्ड प्रहर्षं मनस्विनाम् इव सत् सम्प्रहार: ॥
अजात-शत्रु: कृत मैत्रो हुत-अग्नि विप्रान् नत्वा तिल गो भूमि रुक्मै: ।
गृहं प्रविष्टो गुरु-वन्दनाय न च अपश्यत् पितरौ सौबलीं च ॥
तत्र सञ्जयम् आसीनं पप्रच्छ: उद्विग्न मानस: ।
गावल्गणे क्व न: तातो वृद्धो हीन: च नेत्रयो: ॥
अम्बा च हत-पुत्रा अर्ता पितृव्य: क्व गत: सुहृत् ।
अपि मयि अकृत-प्रज्ञे हत-बन्धु: स भार्यया ।
आशंसमान: शमलं गङ्गायां दु:खित अपतत् ॥
पितरि उपरते पाण्डौ सर्वान् न: सुहृद: शिशून् ।
अरक्षतां व्यसनत: पितृव्यौ क्व गतौ इत: ॥
सूत उवाच
कृपया स्नेडह-वैक्लव्यात् सूतो विरह कर्शित: ।
आत्म ईश्वरम् अचक्षाणो न प्रत्याह अति-पीडित: ॥
विमृज्य अश्रूणि पाणिभ्यां विष्टभ्य आत्मानम् आत्मना ।
अजात-शत्रुं प्रत्यूचे प्रभो: पादौ अनुस्मरन् ॥
सञ्जय उवाच
नाहं वेद व्यवसितं पित्रो: व: कुल-नन्दन ।
गान्धार्या वा महा-बाहो मुषित: अस्मि महा आत्मभि: ॥
अथ आजगाम भगवान् नारद: सह तुम्बुरु: ।
प्रत्युत्थाय अभिवाद्य अह स-अनुज: अभ्यर्चयन् मुनिम् ॥
युधिष्ठिर उवाच
नाहं वेद गतिं पित्रो भगवन् क्व गतौ इत: ।
अम्बा वा हत-पुत्रा आर्ता क्व गता च तपस्विनी ॥
कर्ण-धार इव अपारे भगवान् पार दर्शक: ।
अथ आबभाषे भगवान् नारदो मुनि-सत्तम: ॥
नारद उवाच
मा कञ्चन शुचो राजन् यद् ईश्वर-वशं जगत् ।
लोका: स-पाला यस्येमे वहन्ति बलिम् ईशितु: ।
स संयुनक्ति भूतानि स एव वियुनक्ति च ॥
यथा गावो नसि प्रोता: तन्त्यां बद्धा: च दामभि: ।
वाक्-तन्त्यां नामभि: बद्धा वहन्ति बलिम् ईशितु: ॥
यथा क्रीड उपस्कराणां संयोग विगमौ इह ।
इच्छया क्रीडितु: स्यातां तथैवेश इच्छया नृणाम् ॥
यन्मन्यसे ध्रुवं लोकम् अध्रुवं वा न च उभयम् ।
सर्वथा न हि शोच्या: ते स्नेहाद् अन्यत्र मोह-जात् ॥
तस्माद् जहि अङ्ग वैक्लव्यम् अज्ञान कृतम् आत्मन: ।
कथं तु अनाथा: कृपणा वर्तेरं ते च मां विना ॥
काल कर्म गुण अधीनो देहोऽयं पाञ्च भौतिक: ।
कथम् अन्यांस्तु गोपायेत् सर्प-ग्रस्तो यथा परम् ॥
अहस्तानि स-हस्तानाम् अपदानि चतु: पदाम् ।
फल्गूनि तत्र महतां जीवो जीवस्य जीवनम् ॥
तद् इदं भगवान् राजन् एक आत्म आत्मनां स्व-दृक् ।
अन्तर: अनन्तरो भाति पश्य तं मायया उरुधा ॥
स: अयम् अद्य महाराज भगवान् भूत-भावन: ।
काल-रूप: अवतीर्ण: अस्याम् अभावाय सुर-द्विषाम् ॥
निष्पादितं देव-कृत्यम् अवशेषं प्रतीक्षते ।
तावद् यूयम् अवेक्षध्वं भवेद् यावद् इह ईश्वर: ॥
धृतराष्ट्र: सह भ्रात्रा गान्धार्या च स्व-भार्यया ।
दक्षिणेन हिमवत ऋषीणाम् आश्रमं गत: ॥
स्रोतोभि: सप्तभि: या वै स्वर्धुनी सप्तधा व्यधात् ।
सप्तानां प्रीतये नाना सप्त-स्रोत: प्रचक्षते ॥
स्नात्वा अनुसवनं तस्मिन् हुत्वा च अग्नी यथा विधि ।
अब्भक्ष उपशान्त आत्मा स आस्ते विगतैषण: ॥
जित-आसनो जित-श्वास: प्रत्याहृत षड् इन्द्रिय: ।
हरि भावनया ध्वस्त रज:सत्त्व तम: मल: ॥
विज्ञान आत्मनि संयोज्य क्षेत्रज्ञे प्रविलाप्य तम् ।
ब्रह्मणि आत्मानम् आधारे घट-अम्बरम् इव अम्बरे ॥
ध्वस्त माया-गुण: उदर्को निरुद्ध करण आशय: ।
निवर्तित अखिल आहार आस्ते स्थाणु: इव अचल: ।
तस्य अन्तरायो मा एव अभू: सन्न्यस्त अखिल कर्मण: ॥
स वा अद्य तनाद् राजन् परत: पञ्चमे अहनि ।
कलेवरं हास्यति स्वं तच्च भस्मी भविष्यति ॥
दह्यमाने अग्निभि: देहे पत्यु: पत्नी सह-उटजे ।
बहि: स्थिता पतिं साध्वी तम् अग्निम् अनु वेक्ष्यति ॥
विदुर: तु तद् आश्चर्यं निशाम्य कुरु-नन्दन ।
हर्ष शोक युत: तस्माद् गन्ता तीर्थ निषेवक: ॥
इति उक्त्वा अथ आरुहत् स्वर्गं नारद: सह-तुम्बुरु: ।
युधिष्ठिरो वच: तस्य हृदि कृत्वा अजहात् छुच: ॥
No comments:
Post a Comment