Followers

Search Here...

Thursday, 24 April 2025

ஸ்கந்தம் 10: அத்யாயம் 64 (ந்ருகன் பெற்ற பிறவி - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

ந்ருகன் பெற்ற பிறவி

ஸ்கந்தம் 10: அத்யாயம் 64

श्री-शुकः उवाच
एकदा उपवनम् राजन् जग्मुः यदु-कुमारकाः।
विहर्तुम् साम्ब-प्रद्युम्न-चारु-भानु-गद-आदयः॥ १ ॥


क्रीडित्वा सु-चिरम् तत्र विचिन्वन्तः पिपासिताः।
जलम् निर्-उदके कूपे ददृशुः सत्त्वम् अद्भुतम् ॥ २ ॥


कृकलासम् गिरि-निभम् वीक्ष्य विस्मित-मानसाः।
तस्य च उद्धरणे यत्नम् चक्रुः ते कृता-अन्विताः ॥ ३ ॥


चर्मजैः तान्तवैः पाशैः बद्ध्वा पतितम् अर्भकाः।
न अशक्नुवन् सम्-उद्धर्तुम् कृष्णाय आचख्युः उत्सुकाः ॥ ४ ॥


तत्र आगत्य अरविन्द-अक्षः भगवान् विश्व-भावनः।
वीक्ष्य उज्जहार वामेन तम् करेण सः लीलया ॥ ५ ॥


सः उत्तम-श्लोक-कर-अभिमृष्टः
विहाय सद्यः कृकलास-रूपम्।
सन्तप्त-चामीकर-चारु-वर्णः
स्वर्ग्य-अद्भुत-आलङ्करण-अम्बर-स्रक् ॥ ६ ॥


पप्रच्छ विद्वान् अपि तत् निदानम्
जनेषु विख्यापयितुम् मुकुन्दः।
कः त्वम् महा-भाग वरेण्य-रूपः
देव-उत्तमम् त्वाम् गणयामि नूनम् ॥ ७ ॥


दशाम् इमाम् वा कतमेन कर्मणा
सम्प्रापितः अस्य तत् अर्हः सुभद्र।
आत्मानम् आख्याहि विवित्सताम् नः
यत् मन्यसे नः क्षमम् अत्र वक्तुम् ॥ ८ ॥


श्री-शुक उवाच -
इति स्म राजा सम्पृष्टः कृष्णेन अनन्त-मूर्तिना।
माधवम् प्रणिपत्य आह किरीटेन अर्क-वर्चसा ॥ ९ ॥


नृगः उवाच -
नृगः नाम नरेन्द्रः अहम् इक्ष्वाकु-तनयः प्रभो।
दानिषु आख्यायमानेषु यदि ते कर्णम् अस्पृशम् ॥ १० ॥


किम् नु ते अविदितम् नाथ सर्व-भूत-आत्म-साक्षिणः।
कालेन अव्याहत-दृशः वक्ष्ये अथ अपि तव आज्ञया ॥ ११ ॥


यावत्यः सिकताः भूमेः यावत्यः दिवि तारकाः।
यावत्यः वर्ष-धाराः च तावतः अददं स्म गाः ॥ १२ ॥


पयस्विनः तरुणीः शील-रूप-
गुण-उपपन्नाः कपिलाः हेम-सृङ्गीः।
न्याय-अर्जिताः रूप्य-खुराः स-वत्साः
दुकूल-माला-आभरणाः अददाम् अहम् ॥ १३ ॥


स्व-अलङ्कृतेभ्यः गुण-शील-वद्भ्यः
सीदत्-कुटुम्बेभ्यः ऋत-व्रतेभ्यः।
तपः-श्रुत-ब्रह्म-वदान्य-सद्भ्यः
प्रादाम् युवभ्यः द्विज-पुङ्गवेभ्यः ॥ १४ ॥


गो-भू-हिरण्य-आयतन-अश्व-हस्तिनः
कन्याः सदा-असीः तिल-रूप्य-शय्याः।
वासांसि रत्नानि परिच्छदान् रथान्
निष्ठाम् च यज्ञैः चरितम् च पूर्तम् ॥ १५ ॥


कस्यचित् द्विज-मुख्यस्य भ्रष्टा गौः मम गो-धने।
सम्पृक्ता अविदुषा सा च मया दत्ता द्विजातये ॥ १६ ॥


ताम् नीयमानाम् तत्-स्वामी दृष्ट्वा उवाच मम् इति तम्।
मम् इति प्रतिग्राह्य आह नृगः मे दत्तवान् इति ॥ १७ ॥


विप्रौ विवदमानौ माम् ऊचतुः स्व-अर्थ-साधकौ।
भवान् दाता अपहर्ता इति तत् श्रुत्वा मे अभवत् भ्रमः ॥ १८ ॥


अनुनीतौ उभौ विप्रौ धर्म-कृच्छ्र-गतेन वै।
गवाम् लक्षम् प्रकृष्टानाम् दास्यामि एषा प्रदीयताम् ॥ १९ ॥


भवन्तौ अनुगृह्णीताम् किङ्करस्य अविजानतः।
सम्-उद्धरतम् माम् कृच्छ्रात् पतन्तम् निरये अशुचौ ॥ २० ॥


न अहम् प्रतीच्छे वै राजन् नित्य-उक्त्वा स्वामि-अपाक्रमत्।
न अन्यत् गवाम् अपि अयुतम् इच्छामि इति अपरः ययौ ॥ २१ ॥

एतस्मिन् अन्तर-ए यामैः दूतैः नीतः यम-अक्षयम्।
यमेन पृष्टः तत्र अहम् देव-देव जगत्-पते ॥ २२ ॥

पूर्वम् तु अम्-अशुभम् भुङ्क्षे उत आहो नृपते शुभम्।
न अन्तम् दानस्य धर्मस्य पश्ये लोकस्य भास्वतः ॥ २३ ॥

पूर्वम् देव अशुभम् भुञ्ज इति प्राह पतिः इति सः।
तावत् अद्राक्षम् आत्मानम् कृकलासम् पतन् प्रभो ॥ २४ ॥

ब्रह्मण्यस्य वदान्यस्य तव दासस्य केशव।
स्मृतिः न अद्य अपि विध्वस्ता भवत्-सन्दर्शन-अर्थिनः ॥ २५ ॥

सः त्वम् कथम् मम विभो अपि इतः पर-आत्मा।
योग-ईश्वरैः श्रुति-दृशाम् अमल-हृत्-विभाव्यः॥
साक्षात् अधः-क्षजः उरु-व्यसन-अन्ध-बुद्धेः।
स्यात् मे अनुदृश्यः इह यस्य भव-अपवर्गः ॥ २६ ॥

देव-देव जगत्-नाथ गोविन्द पुरुष-उत्तम।
नारायण हृषी-केश पुण्य-श्लोक-अच्युत-अव्यय ॥ २७ ॥

अनुजानीहि माम् कृष्ण यान्तम् देव-गतिम् प्रभो।
यत्र क्व अपि सतः चेतः भूयात् मे त्वत्-पद-आस्पदम् ॥ २८ ॥

नमः ते सर्व-भावाय ब्रह्मणे अनन्त-शक्तये।
कृष्णाय वासुदेवाय योगानाम् पतये नमः ॥ २९ ॥

इति उक्त्वा तम् परिक्रम्य पादौ स्पृष्ट्वा स्व-मौलिना।
अनुज्ञातः विमान-अग्र्यम् आरुहत् पश्यताम् नृणाम् ॥ ३० ॥

कृष्णः परिजनम् प्राह भगवान् देवकी-सुतः।
ब्रह्मण्य-देवः धर्म-आत्मा राजन्-यान् अनुशिक्षयन् ॥ ३१ ॥

दुर्जरम् बत ब्रह्म-स्वम् भुक्तम् अग्नेः मनाक् अपि।
तेजीयसः अपि किम् उत राज्ञाम् ईश्वर-मानिनाम् ॥ ३२ ॥

न अहम् हालाहलम् मन्ये विषम् यस्य प्रतिक्रिया।
ब्रह्म-स्वम् हि विषम् प्रोक्तम् न अस्य प्रतिविधिः भुवि ॥ ३३ ॥

हिनस्ति विषम् अत्तारम् वह्निः अद्भिः प्रशाम्यति।
कुलम् समूलम् दहति ब्रह्म-स्व-रणि-पावकः ॥ ३४ ॥

ब्रह्म-स्वम् दुर्-अनुज्ञातम् भुक्तम् हन्ति त्रि-पुरुषम्।
प्रसह्य तु बलात् भुक्तम् दश पूर्वान् दश अपरान् ॥ ३५ ॥

राजानः राज-लक्ष्म्या अन्धाः न आत्म-पातम् विचक्षते।
निरयम् ये अभिमन्यन्ते ब्रह्म-स्वम् साधवः बालिशाः ॥ ३६ ॥

गृह्णन्ति यावतः पांसून् क्रन्दताम् अश्रु-बिन्दवः।
विप्राणाम् हृत-वृत्तीनाम् वदान्यानाम् कुटुम्बिनाम् ॥ ३७ ॥

राजानः राज-कुल्याः च तावतः अब्दान् निरङ्कुशाः।
कुम्भी-पाकेषु पच्यन्ते ब्रह्म-दाय-अपहारिणः ॥ ३८ ॥

स्व-दत्ताम् पर-दत्ताम् वा ब्रह्म-वृत्तिम् हरेत् च यः।
षष्टि-वर्ष-सहस्राणि विष्ठायाम् जायते कृमिः ॥ ३९ ॥

न मे ब्रह्म-धनम् भूयात् यत् गृद्ध्वा अल्प-आयुषः नराः।
पराजिताः च्युताः राज्यात् भवन्ति उद्वेजिनः अहयः ॥ ४० ॥

विप्रम् कृत-अगसम् अपि नैव द्रुह्यत मामकाः।

घ्नन्तम् बहु शपन्तम् वा नमस्कुरुत नित्यशः ॥ ४१ ॥


यथा अहम् प्रणमे विप्रान् अनु-कालम् समाहितः।

तथा नमत यूयं च यः अन्यथा मे सः दण्ड-भाक् ॥ ४२ ॥


ब्राह्मण-अर्थः हि अपहृतः हर्तारम् पातयति अधः।

अजानन्तम् अपि हि एनम् नृगम् ब्राह्मण-गौर् इव ॥ ४३ ॥


एवम् विश्राव्य भगवान् मुकुन्दः द्वारका-उकसः।

पावनः सर्व-लोकानाम् विवेश निज-मन्दिरम् ॥ ४४ ॥


॥ इति श्रीमद्भागवते महा-पुराणे पारमहंस्याम् संहितायाम्

दशम-स्कन्धे उत्तर-अर्धे नृग-उपाख्यानम् नाम

चतुः-षष्टितमः अध्यायः ॥ ६४ ॥

ஸ்கந்தம் 10: அத்யாயம் 63 (கண்ணன் பானாசுரனோடு யுத்தம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

கண்ணன் பானாசுரனோடு யுத்தம்

ஸ்கந்தம் 10: அத்யாயம் 63

श्री-शुकः उवाच 
अपश्यताम् च अनिरुद्धम् तद्-बन्धूनाम् च भारत। चत्वारः वार्षिकाः मासाः व्यतीयुः अनुशोचताम् ॥ १ ॥ 

नारदात् तत् उपाकर्ण्य वार्ताम् बद्धस्य कर्म च। प्रययुः शोणित-पुरम् वृष्णयः कृष्ण-दैवताः ॥ २ ॥ 

प्रद्युम्नः युयुधानः च गदः साम्बः अथ सारणः। नन्द-उपनन्द-भद्र-आद्याः राम-कृष्ण-अनुवर्तिनः ॥ ३ ॥ 

अक्षौहिणीभिः द्वादशभिः समेताः सर्वतः दिशम्। रुरुधुः बाण-नगरम् समन्तात् सात्वत-ऋषभाः ॥ ४ ॥ 

भज्यमान-पुर-उद्यान-प्राकार-अट्टाल-गोपुरम्। प्रेक्षमाणः रुषा आविष्टः तुल्य-सैन्यः अभिनिर्ययौ ॥ ५ ॥ 

बाण-अर्थे भगवान् रुद्रः स-सुतैः प्रमथैः वृतः। आरुह्य नन्दि-वृषभम् युयुधे राम-कृष्णयोः ॥ ६ ॥ 

आसीत् सुतुमुलम् युद्धम् अद्‌भुतम् रोमहर्षणम्। कृष्ण-शङ्करयोः राजन् प्रद्युम्न-गुहयोः अपि ॥ ७ ॥ 

कुम्भाण्ड-कूपकर्ण-आभ्याम् बलेन सह संयुगः। साम्बस्य बाण-पुत्रेण बाणेन सह सात्यकेः ॥ ८ ॥ 

ब्रह्म-आदयः सुर-अधीशाः मुनयः सिद्ध-चारणाः। गन्धर्व-अप्सरसः यक्षाः विमानैः द्रष्टुम् आगमन् ॥ ९ ॥ 
शङ्कर-अनुचरान् शौरिः भूत-प्रमथ-गुह्यकान्। डाकिनी-यातुधानान् च वेतालान् स-विनायकान् ॥ १० ॥ 

प्रेत-मातृ-पिशाचान् च कूष्माण्डान् ब्रह्म-राक्षसान्। द्रावयामास तीक्ष्ण-अग्रैः शरैः शार्ङ्ग-धनुः-च्युतैः ॥ ११ ॥ 
पृथक्-विधानि प्रायुङ्क्त पिणाकि-अस्त्राणि शाङ्गिणे। प्रत्य-अस्त्रैः शमयामास शार्ङ्ग-पाणिः अविस्मितः ॥ १२ ॥ 

ब्रह्म-अस्त्रस्य च ब्रह्म-अस्त्रम् वायव्यस्य च पार्वतम्। आग्नेयस्य च पार्जन्यम् नैजम् पाशुपतस्य च ॥ १३ ॥ 

मोहयित्वा तु गिरिशम् जृम्भण-अस्त्रेण जृम्भितम्। बाणस्य पृतनाम् शौरिः जघान असि-गद-इषुभिः ॥ १४ ॥ 

स्कन्दः प्रद्युम्न-बाण-ओघैः अर्द्यमानः समन्ततः। असृक् विमुञ्चन् गात्रेभ्यः शिखिना अपक्रमत् रणात् ॥ १५ ॥ 

कुम्भाण्डः कूपकर्णः च पेततुः मुषल-अर्दितौ। दुद्रुवुः तत्-अनीकानि हत-नाथानि सर्वतः ॥ १६ ॥ 

विशीर्यमाणम् स्व-बलम् दृष्ट्वा बाणः अत्य-अमर्षणः। कृष्णम् अभ्यद्रवत् संख्ये रथी हित्वा एव सात्यकिम् ॥ १७ ॥ 

धनूंषि आकृष्य युगपत् बाणः पञ्च-शतानि वै। एक-एकस्मिन् शरौ द्वौ-द्वौ सन्दधे रण-दुर्मदः ॥ १८ ॥ 

तानि चिच्छेद भगवान् धनूंषि युगपत् हरिः। सारथिम् रथम् अश्वान् च हत्वा शङ्खम् अपूरयत् ॥ १९ ॥ 

तत्-माता कोटरा नाम नग्ना मुक्त-शिर-उरुहा। पुरः अवतस्थे कृष्णस्य पुत्र-प्राण-रिरक्षया ॥ २० ॥

ततः तिर्यङ्मुखः नग्नाम् अनिरीक्षन् गद-अग्रजः।
बाणः च तावत् विरथः छिन्न-धन्वा अविशत् पुरम् ॥ २१ ॥

विद्राविते भूत-गणे ज्वरः तु त्रि-शिराः त्रि-पात्।
अभ्यधावत दाशार्हम् दहन् इव दिशः दश ॥ २२ ॥

अथ नारायणः देवः तम् दृष्ट्वा व्यसृजत् ज्वरम्।
माहेश्वरः वैष्णवः च युयुधाते ज्वरौ उभौ ॥ २३ ॥

माहेश्वरः सम्-आक्रन्दन् वैष्णवेन बल-अर्दितः।
अलब्ध्वा अभयम् अन्यत्र भीतः माहेश्वरः ज्वरः।
शरण-अर्थी हृषीकेशम् तुष्टाव प्रयत-अञ्जलिः ॥ २४ ॥

ज्वरः उवाच -
नमामि त्वा अनन्त-शक्तिम् परेशम्
सर्व-आत्मानम् केवलम् ज्ञप्ति- मात्रम्।
विश्व-उत्पत्ति-स्थान-संरोध-हेतुम्
यत् तत् ब्रह्म ब्रह्म-लिङ्गम् प्रशान्तम् ॥ २५ ॥

कालः दैवम् कर्म जीवः स्वभावः
द्रव्यम् क्षेत्रम् प्राणः आत्मा विकारः।
तत्-सङ्घातः बीज-रोह-प्रवाहः
त्वत्-माया एषा तत्-निषेधम् प्रपद्ये ॥ २६ ॥

नाना-भावैः लीलया एव उपपन्नैः
देवान् साधून् लोक-सेतून् बिभर्षि।
हंसि उन्मार्गान् हिंसया वर्तमानान्
जन्म एतत् ते भार-हाराय भूमेः ॥ २७ ॥

तप्तः अहम् ते तेजसा दुःसहेन
शान्त-उग्रेण अति-उल्बणेन ज्वर्रेण।
तावत् तापः देहिनाम् ते अङ्घ्रि-मूलम्
नः सेवेरन् यावत् आशा-अनुबद्धाः ॥ २८ ॥

श्री-भगवान् उवाच -
त्रि-शिराः ते प्रसन्नः अस्मि व्येतु ते मत्-ज्वरात् भयम्।
यः नौ स्मरति संवादम् तस्य त्वम् न भवेत् भयम् ॥ २९ ॥

इति उक्तः अच्युतम् आनम्य गतः माहेश्वरः ज्वरः।
बाणः तु रथम् आरूढः प्रागात् योत्स्यम् जनार्दनम् ॥ ३० ॥

ततः बाहु-सहस्रेण नाना-आयुध-धरः असुरः।
मुमोच परम-क्रुद्धः बाणान् चक्रायुधे नृप ॥ ३१ ॥

तस्य अस्यतः अस्त्राणि असकृत् चक्रेण क्षुर-नेमिना।
चिच्छेद भगवान् बाहून् शाखाः इव वनस्पतेः ॥ ३२ ॥

बाहुषु उच्छिद्यमानेषु बाणस्य भगवान् भवः।
भक्तान् अ-कम्प्य उपव्रज्य चक्रायुधम् अभाषत ॥ ३३ ॥

श्री-रुद्रः उवाच -
त्वम् हि ब्रह्म परम् ज्योतिः गूढम् ब्रह्मणि वाङ्मये।
यम् पश्यन्ति अमल-आत्मानः आकाशम् इव केवलम् ॥ ३४ ॥

नाभिः नभः अग्निः मुखम् अम्बु रेतः
द्यौः शीर्षम् आशाः श्रुतिः अङ्घ्रिः उर्वी।
चन्द्रः मनः यस्य दृक् अर्कः आत्मा
अहम् समुद्रः जठरम् भुज-इन्द्रः ॥ ३५ ॥

रोमाणि यस्य औषध्यः अम्बु-वाहाः
केशाः विरिञ्चः धिषणा विसर्गः।
प्रजापतिः हृदयं यस्य धर्मः
सः वै भवान् पुरुषः लोक-कल्पः ॥ ३६ ॥

तव अवतारः अयम् अकुण्ठ-धामन्
धर्मस्य गुप्त्यै जगतः भवाय।
वयम् च सर्वे भवता अनुभाविताः
विभावयामः भुवनानि सप्त ॥ ३७ ॥

त्वम् एकः आद्यः पुरुषः अद्वितीयः
तुर्यः स्व-दृक् हेतु-अहेतुः ईशः।
प्रतीयसे अथ अपि यथा अविकारम्
स्व-मायया सर्व-गुण-प्रसिद्ध्यै ॥ ३८ ॥

यथा एव सूर्यः पिहितः छायया स्वया
छायाम् च रूपाणि च सञ्चकास्ति।
एवम् गुणेन अपिहितः गुणान् त्वम्
आत्म-प्रदीपः गुणिनः च भूमन् ॥ ३९ ॥

यत् माया-मोहित-धियः पुत्र-दार-गृह-आदिषु।
उन्मज्जन्ति निमज्जन्ति प्रसक्ताः वृजिन-अर्णवे ॥ ४० ॥

देवदत्तम् इम् अम् लब्ध्वा नृ-लोकम् अजित-इन्द्रियः।
यः न आद्रियेत त्वत्-पादौ सः शोच्यः हि आत्म-वञ्चकः ॥ ४१ ॥

यः त्वाम् विसृजते मर्त्यः आत्मानम् प्रियम् ईश्वरम्।
विपर्यय-इन्द्रिय-अर्थ-अर्थम् विषम् अत्त्य् अमृतम् त्यजन् ॥ ४२ ॥

अहम् ब्रह्म अथ विबुधाः मुनयः च अमल-आशयाः।
सर्व-आत्मना प्रपन्नाः त्वाम् आत्मानम् प्रेष्ठम् ईश्वरम् ॥ ४३ ॥

तम् त्वाम् जगत्-स्थिति-उदय-अन्त-हेतुम्
समम् प्रशान्तम् सुहृत्-आत्म-दैवम्।
अनन्यम् एकम् जगत्-आत्म-केतुम्
भव-अपवर्गाय भजाम देवम् ॥ ४४ ॥

अयम् मम इष्टः दयितः अनुवर्ती
मया अभयम् दत्तम् अमुष्य देव।
संपाद्यताम् तत् भवतः प्रसादः
यथा हि ते दैत्य-पतौ प्रसादः ॥ ४५ ॥

श्री-भगवान् उवाच -
यत् आत्तः भगवन् त्वम् नः करवाम प्रियम् तव।
भवतः यत् व्यवसितम् तत् मे साधु अनुमोदितम् ॥ ४६ ॥

अवध्यः अयम् मम अपि एषः वैरोचनि-सुतः असुरः।
प्रह्रादाय वरः दत्तः न वध्यः मे तव अन्वयः ॥ ४७ ॥

दर्प-उपशमनाय अस्य प्रवृक्ताः बाहवः मया।
सूदितम् च बलम् भूरि यत् च भारायितम् भुवः ॥ ४८ ॥

चत्वारः अस्य भुजाः शिष्टाः भविष्यन्ति अजर-अमराः।
पार्षद-मुख्यः भवतः न कुतःचित् भयः असुरः ॥ ४९ ॥

इति लब्ध्वा अभयम् कृष्णम् प्रणम्य शिरसा असुरः।
प्राद्युम्निम् रथम् आरोप्य स-वध्वा सम्-उपानयत् ॥ ५० ॥

अक्षौहिण्या परिवृतम् सु-वासः सम्-अलङ्कृतम्।
स-पत्नीकम् पुरः-कृत्य ययौ रुद्र-अनुमोदितः ॥ ५१ ॥

स्व-राज-धानीम् सम्-अलङ्कृताम् ध्वजैः
स-तोरणैः उक्षित-मार्ग-चत्वराम्।
विवेश शङ्ख-अनक-दुन्दुभि-स्वनैः
अभ्युद्यतः पौर-सुहृत्-द्विजातिभिः ॥ ५२ ॥

यः एवम् कृष्ण-विजयम् शङ्करेण च सं-युगम्।
संस्मरेत् प्रातः-उत्थाय न तस्य स्यात् पराजयः ॥ ५३ ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे अनिरुद्धानयनं नाम त्रिषष्टितमोऽध्यायः ॥ 63

ஸ்கந்தம் 10: அத்யாயம் 62 (அநிருத்தன் உஷா சந்திப்பு - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

அநிருத்தன் உஷா சந்திப்பு

ஸ்கந்தம் 10: அத்யாயம் 62

श्रीशुक उवाच बाणः पुत्र-शत- ज्येष्ठः बलेः आसीत् महा-आत्मनः। येन वामन-रूपाय हरये अदायि मेदिनी॥ 2 ॥ तस्य औरसः सुतः बाणः शिव-भक्ति-रतः सदा। मान्यः वदान्यः धीमान् च सत्य-सन्धः दृढ-व्रतः॥ 3 ॥ शोणित-आख्ये पुरे रम्ये सः राज्यम् अकरोत् पुरा। तस्य शम्भोः प्रसादेन किङ्कराः इव ते अमराः॥ सहस्र-बाहुः वाद्येन ताण्डवे अतोषयत् मृडम्॥ 4 ॥ भगवान् सर्व-भूत-ईशः शरण्यः भक्त-वत्सलः। वरेण इच्छन्दयामास सः तम् वव्रे पुर-अधिपम्॥ 5 ॥ सः एकदा आह गिरिशम् पार्श्व-स्थम् वीर्य-दुर्मदः। किरीटेण अर्क-वर्णेन संस्पृशन् तत्-पद-अम्बुजम्॥ 6 ॥ नमस्ये त्वाम् महा-देव लोकानाम् गुरुम् ईश्वरम्। पुंसाम् अपूर्ण-कामानाम् काम-पूर्ण अमर-अङ्घ्रिपम्॥ 7 ॥ दोह्-सहस्रम् त्वया दत्तम् परम् भाराय मे अभवत्। त्रि-लोक्याम् प्रति-योधारम् न लभे त्वत् ऋते समम्॥ 8 ॥ कण्डूत्या निभृतैः दोर्भिः युयुत्सुः दिग्-गजान् अहम्। आद्यायाम् चूर्णयन् अद्रीन् भीताः ते अपि प्रदुद्रुवुः॥ 9 ॥ तत् श्रुत्वा भगवान् क्रुद्धः केतुस्ते भज्यते यदा। त्वत्-दर्प-घ्नं भवेत् मूढ संयुगम् मत्-समेन ते॥ 10 ॥ इति उक्तः कुमतिः हृष्टः स्व-गृहम् प्राविशत् नृप। प्रतीक्षन् गिरिश-आदेशम् स्व-वीर्य-नशनम् कु-धीः॥ 11 ॥ तस्य ऊषा नाम दुहिता स्वप्ने प्राद्युम्निना रतिम्। कन्यालभत कान्तेन प्राक्-दृष्ट-श्रुतेन सा॥ 12 ॥ सा तत्र तम् अपश्यन्ती क्व असि कान्त इति वादिनी। सखीनाम् मध्ये उत्तस्थौ विह्वला व्रीडिता भृशम्॥ 13 ॥ बाणस्य मन्त्री कुम्भाण्डः चित्रलेखा च तत्-सुता। सख्यः अपृच्छत् सखीम् ऊषाम् कौतूहल-समन्विता॥ 14 ॥ कं त्वम् मृगयसे सुभ्रु कीदृशः ते मनोरथः। हस्त-ग्रहम् न ते अद्य अपि राज-पुत्रि उपलक्षये॥ 15 ॥ ऊषा उवाच दृष्टः कश्चित् नरः स्वप्ने श्यामः कमल-लोचनः। पीत-वासा बृहत्-बाहुः योषिताम् हृदय-अङ्गमः॥ 16 ॥ तम् अहम् मृगये कान्तम् पाययित्वा अधरम् मधु। क्व अपि यातः स्पृहयतीम् क्षिप्त्वा माम् वृजिन-अर्णवे॥ 17 ॥ चित्रलेखा उवाच व्यसनम् ते अपकर्षामि त्रि-लोक्याम् यदि भाव्यते। तम् आनेष्ये नरम् यः ते मनः-हर्ता तम् आदिश॥ 18 ॥ इति उक्त्वा देव-गन्धर्व-सिद्ध-चारण-पन्नगान्। दैत्य-विद्याधरान् यक्षान् मनुजान् च यथा अलिखत्॥ 19 ॥ मनुजेषु च सा वृष्णीन् शूरम् आनक-दुन्दुभिम्। व्यलिखत् राम-कृष्णौ च प्रद्युम्नम् वीक्ष्य लज्जिता॥ 20 ॥


अनिरुद्धं विलिखितं वीक्ष्य ऊषा अवाङ्-मुखी ह्रिया।
सः असौ-असौ इति प्राह स्मयमाना मही-पते ॥ २१ ॥

चित्रलेखा तम् आज्ञाय पौत्रम् कृष्णस्य योगिनी।
ययौ विहायसा राजन् द्वारकाम् कृष्ण-पालिताम् ॥ २२ ॥

तत्र सुप्तम् सुपर्यङ्के प्राद्युम्निम् योगम् आस्थिताः।
गृहीत्वा शोणित-पुरम् सख्यै प्रियम् अदर्शयत् ॥ २३ ॥

सा च तम् सुन्दर-वरम् विलोक्य मुदित-आनना।
दुष्प्रेक्ष्ये स्व-गृहे पुम्भी रेमे प्राद्युम्निना समम् ॥ २४ ॥

परार्ध्य-वासः-स्रक्-गन्ध-धूप-दीप-आसन-आदिभिः।
पान-भोजन-भक्ष्यैः च वाक्यैः शुश्रूषया अर्चितः ॥ २५ ॥

गूढः कन्या-पुरे शश्वत् प्रवृद्ध-स्नेहया तया।
न अहर्-गणान् स बुबुधे ऊषया अपहृत-इन्द्रियः ॥ २६ ॥

ताम् तथा यदु-वीरेण भुज्यमानाम् हत-व्रताम्।
हेतुभिः लक्षयाञ्चक्रुः आप्रीताम् दुरवच्छदैः ॥ २७ ॥

भटाः आवेदयाञ्चक्रुः राजन् ते दुहितुः वयम्।
विचेष्टितम् लक्षयाम कन्यायाः कुल-दूषणम् ॥ २८ ॥

अनपायिभिः अस्माभिः गुप्तायाः च गृहे प्रभो।
कन्यायाः दूषणम् पुम्भिः दुष्प्रेक्षायाः न विद्महे ॥ २९ ॥

ततः प्रव्यथितः बाणः दुहितुः श्रुत-दूषणः।
त्वरितः कन्यका-आगारम् प्राप्तः अद्राक्षीत् यदु-उद्वहम् ॥ ३० ॥

काम-आत्मजम् तम् भुवन-एक-सुन्दरम्
श्यामम् पिशङ्ग-अम्बरम् अम्बुज-ईक्षणम्।
बृहत्-भुजम् कुण्डल-कुन्तल-त्विषा
स्मित-आवलोकेन च मण्डित-आननम् ॥ ३१ ॥

दीव्यन्तम् अक्षैः प्रियया अभिनृम्णया
तत्-अङ्ग-सङ्ग-स्तन-कुङ्कुम-स्रजम्।
बाह्वोः दधानम् मधु-मल्लिका-आश्रिताम्
तस्य अग्रे आसीनम् अवेक्ष्य विस्मितः ॥ ३२ ॥

सः तम् प्रविष्टम् वृतम् आततायिभिः
भटैः अनीकैः अवलोक्य माधवः।
उद्यम्य मौर्वम् परिघम् व्यवस्थितः
यथा अन्तकः दण्ड-धरः जिघांसया ॥ ३३ ॥

जिघृक्षया तान् परितः प्रसर्पतः
शुनः यथा शूकर-यूथपः अहनत्।
ते हन्यमानाः भवनात् विनिर्गताः
निर्भिन्न-मूर्धा-उरु-भुजाः प्रदुद्रुवुः ॥ ३४ ॥

तम् नाग-पाशैः बलि-नन्दनः बली
घ्नन्तम् स्व-सैन्यम् कुपितः बबन्ध ह।
ऊषा भृशम् शोक-विषाद-विह्वला
बद्धम् निशम्य अश्रु-कल-आक्ष्य रौदिषीत् ॥ ३५ ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे अनिरुद्धबन्धो नाम द्विषष्टितमोऽध्यायः ॥ 62 ॥

ஸ்கந்தம் 10: அத்யாயம் 61 (ருக்மி வதம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

ருக்மி வதம்

ஸ்கந்தம் 10: அத்யாயம் 61

श्रीशुक उवाच एकैकशः ताः कृष्णस्य पुत्रान् दश दश अबलाः। अजीजनन् अनवमान् पितुः सर्व-आत्म-सम्पदा ॥ 1 ॥ गृहात् अनपगम् वीक्ष्य राज-पुत्र्यः अच्युतम् स्थितम्। प्रेष्ठम् न्यमंसत स्वम् स्वम् न तत्-तत्त्व-विदः स्त्रियः ॥ 2 ॥ चारु-अब्ज-कोश-वदन-आयत-बाहु-नेत्र- स-प्रेम-हास-रस-वीक्षित-वल्गु-जल्पैः। सम्मोहिता भगवतः न मनः विजेतुम् स्वैः विभ्रमैः समशकन् वानिता विभूम्नः ॥ 3 ॥ स्माय-अवलोक-लव-दर्शित-भाव-हारि- भ्रू-मण्डल-प्रहित-सौरत-मन्त्र-शौण्डैः। पत्न्यः तु षोडश-सहस्रम् अनङ्ग-बाणैः यस्य इन्द्रियम् विमथितुम् करणैः न शेकुः ॥ 4 ॥ इत्थम् रमा-पतिम् अवाप्य पतिम् स्त्रियः ताः ब्रह्म-आदयः अपि न विदुः पदवीं यदीयाम्। भेजुः मुदा अविरत-मेधित-या अनुराग- हास-अवलोक-नव-सङ्गम-लालसा-अद्यं ॥ 5 ॥ प्रत्युद्गम-आसन-वर-अर्हण-पाद-शौच- ताम्बूल-विश्रमण-वीजन-गन्ध-माल्यैः। केश-प्रसार-शयन-स्नपन-उपहार्यैः दासी-शताः अपि विभोः विदधुः स्म दास्यम् ॥ 6 ॥ तासाम् या दश-पुत्राणाम् कृष्ण-स्त्रीणाम् पुरा उदिताः। अष्टौ महिष्यः तत्-पुत्रान् प्रद्युम्न-आदीन् गृणामि ते ॥ 7 ॥ चारु-देष्णः सुदेष्णः च चारु-देहः च वीर्यवान्। सुचारुः चारु-गुप्तः च भद्र-चारुः तथा अपरः ॥ 8 ॥ चारु-चन्द्रः विचारुः च चारुः च दशमः हरेः। प्रद्युम्न-प्रमुखाः जाताः रुक्मिण्याम् न अवमाः पितुः ॥ 9 ॥ भानुः सुभानुः स्वः-भानुः प्रभानुः भानु-मान् तथा। चन्द्र-भानुः बृहद्-भानुः अतिभानुः तथा अष्टमः ॥ 10 ॥ श्री-भानुः प्रतिभानुः च सत्य-भामा-आत्मजा दश। साम्बः सुमित्रः पुरुजित् शतजित् च सहस्रजित् ॥ 11 ॥ विजयः चित्रकेतुः च वसुमान् द्रविडः क्रतुः। जाम्बवत्या ः सुताः हि एते साम्ब-आद्याः पितृ-सम्मताः ॥ 12 ॥ वीरः चन्द्रः अश्वसेनः च चित्रगुः वेगवान् वृषः। आमः शङ्कुः वसुः श्रीमान् कुन्तिः नाग्नजितेः सुताः ॥ 13 ॥ श्रुतः कविः वृषः वीरः सुबाहुः भद्रः एकलः। शान्तिः दर्शः पूर्णमासः कालिन्द्याः सोमकः अवरः ॥ 14 ॥ प्रघोषः गात्रवान् सिंहः बलः प्रबलः ऊर्ध्वगः। माद्र्याः पुत्राः महा-शक्तिः सः ओजः अपराजितः ॥ 15 ॥ वृकः हर्षः अनिलः गृध्रः वर्धनः अन्नादः एव च। महा-अशः पावनः वह्निः मित्रविन्दा-आत्मजाः क्षुधिः ॥ 16 ॥ सङ्ग्राम-जित् बृहत्सेनः शूरः प्रहरणः अरिजित्। जयः सुभद्रः भद्रायाः वामः आयुः च सत्यकः ॥ 17 ॥ दीप्तिमान् ताम्र-तप्त-आद्याः रोहिण्याः तनयाः हरेः। प्रद्युम्नात् च अनिरुद्धः अभूत् रुक्मवत्याम् महा-बलः ॥ 18 ॥ पुत्र्याम् तु रुक्मिणः राजन् नाम्ना भोजकटे पुरे। एतेषाम् पुत्र-पौत्राः च बभूवुः कोटिशः नृप ॥ मातरः कृष्ण-जातीनाम् सहस्राणि च षोडश ॥ 19 ॥ श्रीराजा उवाच कथम् रुक्म्य-रिपुत्राय प्रादात् दुहितरम् युधि। कृष्णेन परिभूतः तम् हन्तुम् रन्ध्रम् प्रतीक्षते। एतत् आख्याहि मे विद्वन् द्विषोः वैवाहिकम् मिथः ॥ 20 ॥

अनागतम् अतीतं च वर्तमानम् अतीन्द्रियम्।
विप्रकृष्टम् व्यवहितम् सम्यक् पश्यन्ति योगिनः॥ २१ ॥

श्रीशुक उवाच
वृतः स्वयंवरे साक्षात् अनङ्गः अङ्ग-युतः तया।
राज्ञः समेतान् निर्जित्य जहार एक-रथः युधि॥ २२ ॥

यद्यपि अनुस्मरन् वैरम् रुक्मी कृष्ण-अवमानितः।
व्यतरत् भागिनेयाय सुतां कुर्वन् स्वसुः प्रियम्॥ २३ ॥

रुक्मिण्याः तनयाम् राजन् कृतवर्म-सुतः बली।
उपयेमे विशालाक्षीं कन्यां चारुमतीम् किल॥ २४ ॥

दौहित्राय अनिरुद्धाय पौत्रीं रुक्म्यात् अदात् हरेः।
रोचनाम् बद्ध-वैरः अपि स्वसुः प्रिय-चिकीर्षया।
जानन् अधर्मम् तत् यौनम् स्नेह-पाश-अनुबन्धनः॥ २५ ॥

तस्मिन् अभ्युदये राजन् रुक्मिणी राम-केशवौ।
पुरम् भोजकटम् जग्मुः साम्ब-प्रद्युम्न-कादयः॥ २६ ॥

तस्मिन् निवृत्ते उद्वाहे कालिङ्ग-प्रमुखाः नृपाः।
दृप्ताः ते रुक्मिणम् प्रोचुः बलम् अक्षैः विनिर्जय॥ २७ ॥

अनक्ष-ज्ञः हि अयम् राजन् अपि तत् व्यसनम् महत्।
इति उक्तः बलम् आहूय तेन अक्षैः रुक्म्य दीव्यत॥ २८ ॥

शतम् सहस्रम् अयुतम् रामः तत्र आददे पणम्।
तम् तु रुक्मी अजयत् तत्र कालिङ्गः प्राहसत् बलम्।
दन्तान् सन्दर्शयन् उच्चैः न अमृष्यत् तत् हलायुधः॥ २९ ॥

ततः लक्षम् रुक्मी अगृह्णात् ग्लहम् तत्र अजयत् बलः।
जितवान् अहम् इति आह रुक्मी कैतवम् आश्रितः॥ ३० ॥

मन्युना क्षुभितः श्रीमान् समुद्रः इव पर्वणि।
जाति-अरुण-अक्षः अति-रुषा न्यर्बुदम् ग्लहम् आददे॥ ३१ ॥

तम् च अपि जितवान् रामः धर्मेण च्छलम् आश्रितः।
रुक्मी जितम् मया अत्र इमे वदन्तु प्राश्निकाः इति॥ ३२ ॥

तदा अब्रवीत् नभः-वाणी बलेन एव जितः ग्लहः।
धर्मतः वचनेन एव रुक्मी वदति वै मृषा॥ ३३ ॥

ताम् अनादृत्य वैदर्भः दुष्ट-राजन्य-चोदितः।
सङ्कर्षणम् परिहसन् बभाषे काल-चोदितः॥ ३४ ॥

न एव अक्ष-कोविदाः यूयम् गोपालाः वन-गोचराः।
अक्षैः दीव्यन्ति राजानः बाणैः च न भवत्-दृशाः॥ ३५ ॥

रुक्मिणा एवम् अधिक्षिप्तः राजभिः च उपहासितः।
क्रुद्धः परिघम् उद्यम्य जघ्ने तम् नृ-म्न-संसदि॥ ३६ ॥

कलिङ्ग-राजम् तरसा गृहीत्वा दशमे पदे।
दन्तान् अपातयत् क्रुद्धः यः अहसत् विवृतैः द्विजैः॥ ३७ ॥

अन्ये निर्भिन्न-बाहु-ऊरु-शिरसः रुधिर-उक्षिताः।
राजानः दुद्रुवुः भीताः बलेन परिघ-अर्दिताः॥ ३८ ॥

निहते रुक्मिणि श्याले न अब्रवीत् साधु असाधु वा।
रुक्मिणी-बलयोः राजन् स्नेह-भङ्ग-भयात् हरिः॥ ३९ ॥

ततः अनिरुद्धम् सह सूर्यया वरम्
रथम् समारोप्य ययुः कुशस्थलीम्।
राम-आदयः भोजकटात् दशार्हाः
सिद्ध-अखिल-अर्थाः मधुसूदन-आश्रयाः॥ ४० ॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे अनिरुद्धविवाहे रुक्मिवधो नामैकषष्टितमोऽध्यायः ॥ 61

Wednesday, 23 April 2025

ஸ்கந்தம் 10: அத்யாயம் 60 (ருக்மிணியை கண்ணன் சீண்டுகிறான் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

ருக்மிணியை கண்ணன் சீண்டுகிறான்

ஸ்கந்தம் 10: அத்யாயம் 60

श्रीशुक उवाच

कर्हिचित् सुखम् आसीनम् स्व-तल्प-स्थम् जगत्-गुरुम्।

पतिम् पर्यचरत् भैष्मी व्यजनेन सखी-जनैः ॥ १ ॥


यः तु एतत्-लीलया विश्वम् सृजति अत्ति अवति ईश्वरः।

सः हि जातः स्व-सेतूनाम् गोपी-ईथाय यदुषु अजः ॥ २ ॥


तस्मिन् अन्तः-गृहे भ्राजन् मुक्ता-दाम-विलम्बिना।

विराजिते वितानेन दीपैः मणि-मयैः अपि ॥ ३ ॥


मल्लिका-दामभिः पुष्पैः द्वि-रेफ-कुल-नादितैः।

जाल-रन्ध्र-प्रविष्टैः च गोभिः चन्द्र-मसः अमलैः ॥ ४ ॥


पारिजात-वन-आमोद- वायुना उद्यान-शालिना।

धूपैः अगुरु-जैः राजन् जाल-रन्ध्र-विनिर्गतैः ॥ ५ ॥


पयः-फेन-निभे शुभ्रे पर्यङ्के कशिपु-उत्तमे।

उपतस्थे सुख-आसीनम् जगताम् ईश्वरम् पतिम् ॥ ६ ॥


वाल-व्यजनम् आदाय रत्न-दण्डम् सखी-करात्।

तेन वीजयती देवी उपासाम्-चक्रे ईश्वरम् ॥ ७ ॥


सा उपाच्युतम् क्वणयती मणि-नूपुराभ्याम्

रेजे अङ्गुलीय-वलय-व्यजन-अग्र-हस्ता।

वस्त्र-अन्त-गूढ-कुच-कुङ्कुम-शोण-हार-

भासा नितम्ब-धृतया च परार्ध्य-काञ्च्या ॥ ८ ॥


ताम् रूपिणीम् श्रीयम् अनन्य-गतिम् निरीक्ष्य

या लीलया धृत-तनोः अनुरूप-रूपा।

प्रीतः स्मयन् अलक-कुण्डल-निष्क-कण्ठ-

वक्त्र-उल्लसत्-स्मित-सुधाम् हरिः आबभाषे ॥ ९ ॥


श्री-भगवान् उवाच

राज-पुत्री इप्सिताः भूपैः लोक-पाल-विभूतिभिः।

महा-अनुभावैः श्रीमत्भिः रूप-औदार्य-बल-उर्जितैः ॥ १० ॥


तान् प्राप्तान् अर्थिनः हित्वा चैद्य-आदीन् स्मर-दुर्मदान्।

दत्ता भ्रात्रा स्व-पित्रा च कस्मात् नः ववृषे असमान् ॥ ११ ॥


राजभ्यः बिभ्यतः सु-भ्रु समुद्रम् शरणम् गतान्।

बलवत्भिः कृत-द्वेषान् प्रायः त्यक्त-नृप-आसनान् ॥ १२ ॥


अस्पष्ट-वर्त्मनाम् पुंसाम् अलोक-पथम् ईयुषाम्।

आस्थिताः पदवीं सु-भ्रु प्रायः सीदन्ति योषितः ॥ १३ ॥


निष्किञ्चनाः वयम् शश्वत् निष्किञ्चन-जन-प्रियाः।

तस्मात् प्रायेण न हि आढ्याः माम् भजन्ति सु-मध्यमे ॥ १४ ॥


ययोः आत्म-समम् वित्तम् जन्म ऐश्वर्य आकृतिः भवः।

तयोः विवाहः मैत्री च न उत्तम-अधमयोः क्वचित् ॥ १५ ॥


वैदर्भ्यः एतत् अविज्ञाय त्वया दीर्घ-समीक्षया।

वृता वयम् गुणैः हीनाः भिक्षुभिः श्लाघिता मुधा ॥ १६ ॥


अथ आत्मनः अनुरूपम् वै भजस्व क्षत्रिय-ऋषभम्।

येन त्वम् आशिषः सत्याः इह अमुष्य च लप्स्यसे ॥ १७ ॥


चैद्य-शाल्व-जरासन्ध-दन्तवक्त्र-आदयः नृपाः।

मम द्विषन्ति वाम-उरु रुक्मी च अपि तव आग्रजः ॥ १८ ॥


तेषाम् वीर्य-मद-अन्धानाम् दृप्तानाम् स्मय अनुत्तये।

आनिता असि मया भद्रे तेजः अपहरतः असताम् ॥ १९ ॥


उदासीनाः वयम् नूनम् न स्त्री-अपत्य-अर्थ-कामुकाः।

आत्म-लब्ध्या आस्महे पूर्णाः गेहयोः ज्योतिः-अक्रियाः ॥ २० ॥


श्री-शुक उवाच –

एतावत् उक्त्वा भगवान् आत्मानं वल्लभाम् इव।

मन्यमानाम् अविश्लेषात् तत्-दर्प-घ्नः उपारमत्॥२१॥


इति त्रि-लोक-ईश-पतेः ततः आत्मनः

प्रियस्य देव्या-श्रुत-पूर्वम् अप्रियम्।

आश्रुत्य भीता हृदि जात-वेपथुः

चिन्तां दुरन्तां रुदती जगाम ह॥२२॥


पदा सुजातेन नख-अरुण-श्रिया

भुवं लिखन्ती अश्रुभिः अञ्जन-असितैः।

आसिञ्चती कुङ्कुम-रूषितौ स्तनौ

तस्थौ अधो-मुख्या अति-दुःख-रुद्ध-वाक्॥२३॥


तस्याः सुदुःख-भय-शोक-विनष्ट-बुद्धेः

हस्तात् श्लथ-द्वलयतः व्यजनं पपात।

देहः च विक्लव-धियः सहसा एव मुह्यन्

रम्भा इव वायु-विहता प्रविकीर्य केशान्॥२४॥


तत् दृष्ट्वा भगवान् कृष्णः प्रियायाः प्रेम-बन्धनम्।

हास्य-प्रौढिम् अजानन्त्याः करुणः सः अन्वकम्पत॥२५॥


पर्यङ्कात् अवरुह्य आशु ताम् उत्थाप्य चतुर्भुजः।

केशान् समुह्य तत्-वक्त्रं प्रामृजत् पद्म-पाणिना॥२६॥


प्रमृज्य अश्रु-कलं नेत्रे स्तनौ च उपहतौ शुचा।

आश्लिष्य बाहुना राजन् अनन्य-विषयां सतीम्॥२७॥


सान्त्वयामास सान्त्व-ज्ञः कृपया कृपणां प्रभुः।

हास्य-प्रौढि-भ्रमत्-चित्ताम् अतद्-अर्हां सतां गतिः॥२८॥


श्री-भगवान् उवाच –

मा मा वैदर्भि असूयथा जाने त्वां मत्-परायणाम्।

त्वत्-वचः श्रोतु-कामेन क्ष्वेल्या आचरितं अङ्गने॥२९॥


मुखं च प्रेम-संरम्भ-स्फुरित-अधरम् ईक्षितुम्।

कटाक्ष-इपारुण-अपाङ्गं सुन्दर-भ्रुकुटी-तटम्॥३०॥


अयं हि परमः लाभः गृहेषु गृह-मेधिनाम्।

यत् नर्मैः ईयते यामः प्रियया भीरु भामिनि॥३१॥


श्री-शुक उवाच –

सा एवं भगवता राजन् वैदर्भी परि-सान्त्विता।

ज्ञात्वा तत्-परिहास-उक्तिं प्रियत्-त्याग-भयं जहौ॥३२॥


बभाष ऋषभं पुंसां वीक्षन्ती भगवत्-मुखम्।

स-व्रीड-हास-रुचिर-स्निग्ध-अपाङ्गेन भारत॥३३॥


श्री-रुक्मिणी उवाच –

नु एवम् एतत् अरविन्द-विलोचन आह

यत् वै भवान् भगवतः असदृशी विभूम्नः।

क्व स्वे महिम्नि अभिरतः भगवन् त्रि-अधीशः

क्व अहं गुण-प्रकृतिः अज्ञ-गृहीत-पादा॥३४॥


सत्यं भयात् इव गुणेभ्यः उरु-क्रम-अन्तः

शेते समुद्रः उपलम्भन-मात्रः आत्मा।

नित्यम् कथम् इन्द्रिय-गणैः कृत-विग्रहः त्वम्

त्वत्-सेवकैः नृप-पदं विधुतं तमः-अन्धम्॥३५॥


त्वत्-पाद-पद्म-मकरन्द-जुषाम् मुनीनाम्

वर्त्म आस्फुटं नृप-शुभिः ननु दुर्विभाव्यम्।

यस्मात् अलौकिकम् इव इहितम् ईश्वरस्य

भूमन् तव इहितम् अथ अनु ये भवन्तम्॥३६॥


निःकिञ्चनः ननु भवान् न यतः अस्ति किञ्चित्

यस्मै बलिं बलि-भुजः अपि हरन्ति अज-आद्याः।

न त्वा विदन्ति असु-तृपः अन्तकम् आढ्य-ताः-अन्धाः

प्रेष्ठः भवान् बलि-भुजाम् अपि ते अपि तुभ्यम्॥३७॥


त्वं वै समस्त-पुरुष-अर्थ-मयः फल-आत्मा

यत् वाञ्छया सुमतयः विसृजन्ति कृत्स्नम्।

तेषां विभो समुचितः भवतः समाजः

पुंसः स्त्रियाः च रतयोः सुख-दुःखिनोः न॥३८॥


त्वं न्यस्त-दण्डम् मुनिभिः गदित-अनुभाव

आत्मा आत्मदः च जगताम् इति मे वृतः असि।

हित्वा भवत्-भ्रुवः उदीरित-काल-वेग

ध्वस्त-आशिषः अब्ज-भवन-अकपतीन् कुतः अन्ये॥३९॥


जाड्यं वचः तव गद-अग्रज यः तु भूपान्

विद्राव्य शार्ङ्ग-निनदेन जहर्थ माम् त्वम्।

सिंहः यथा स्व-बलिम् ईशः पशून् स्व-भागं

तेभ्यः भयात् यद् उदधिं शरणं प्रपन्नः॥४०॥


कान्यं श्रयेत् तव पाद-सरोज-गन्धम्
आघ्राय सन्-मुख-रितं जन-ताप-वर्गम्।
लक्ष्मी-आलयं त्व- अविगणय्य गुण-आलयस्य
मर्त्याः सदाऽउरुभयम् अर्थ-विविक्त-दृष्टिः॥ ४२॥

तं त्वा-अनुरूपम् अभजम् जगताम्-अधीशम्
आत्मानम् अत्र च परत्र च काम-पूर्तम्।
स्यात् मे तव-अङ्घ्रि-अरणम् सृतिभिः भ्रमन्त्या
यः वै भजन्तम् उपयाति अनृत-अपवर्गः॥ ४३॥

तस्याः स्युः अच्युत नृपाः भवतः-उपदिष्टाः
स्त्रीणाम् गृहेषु खर-गो-अश्व-बिडाल-भृत्याः।
यत्-कर्ण-मूलम् अरि-कर्षण न-उपयायात्
युष्मत्-कथा मृड-विरिञ्च-सभासु गीता॥ ४४॥

त्वक्-श्मश्रु-रोम-नख-केश-पिनद्धम् अन्तः-
मांस-अस्थि-रक्त-कृमि-विट्-कफ-पित्त-वातम्।
जीवत्-शवम् भजति कान्त-मतिः विमूढा
या ते पद-अब्ज-मकरन्दम् अजिघ्रती स्त्री॥ ४५॥

अस्तु अम्बुज-आक्ष मम ते चरण-अनुरागः
आत्मन् रतस्य मयि च अन-तिरिक्त-दृष्टेः।
यः हि अस्य वृद्धये उपात्त-रजः-अति-मात्रः
माम्-ईक्षसे तत्-उ हि नः परम-अनुकम्पा॥ ४६॥

न एव अलीकं अहं मन्ये वचः-ते मधु-सूदन।
अम्बायाः इव हि प्रायः कन्यायाः स्यात् रतिः क्वचित्॥ ४७॥

व्यूढायाः च अपि पुं-श्चल्याः मनः अभ्येति नवं-नवम्।
बुधः असतीम् न बिभृयात् ताम् बिभ्रत्-उभय-च्युतः॥ ४८॥

श्री-भगवान्-उवाच –
साध्वि एतत् श्रोतु-कामैः त्वं राज-पुत्री प्रलम्भिता।
मया-उदितम् यत्-अन्व-अत्थ सर्वम् तत् सत्यं एव हि॥ ४९॥

यान्-यान् कामयसे कामान् मयि-अकामाय भामिनि।
सन्ति हि एकान्त-भक्तायाः तव कल्याणि नित्यदा॥ ५०॥

उपलब्धम् पति-प्रेम पातिव्रत्यं च ते अनघे।
यत्-वाक्यैः चाल्यमानायाः न धीः मयि-अपकर्षिता॥ ५१॥

ये माम् भजन्ति दाम्पत्ये तपसा व्रत-चर्यया।
कामात्मानः अपवर्ग-ईशम् मोहिताः मम मायया॥ ५२॥

माम् प्राप्य मानिन्यः अपवर्ग-सम्पदम्
वाञ्छन्ति ये सम्पदः एव तत्-पतिम्।
ते मन्द-भाग्याः निरये अपि ये नृणाम्
मात्र-आत्मकत्वात् निरयः सु-सङ्गमः॥ ५३॥

दिष्ट्या गृह-ईश्वर्य सकृत् मयि त्वया
कृत-अनुवृत्तिः भव-मोचनी खलैः।
सु-दुष्करा असौ सुतराम् दुराशिषः
हि असुम्भरायाः निकृतिम्-जुषः स्त्रियाः॥ ५४॥

न त्वादृशीम् प्रणयिनीम् गृहिणीं गृहेषु
पश्यामि मानिनि यया स्व-विवाह-काले।
प्राप्तान् नृपान् वगणय्य रहः-हरः मे
प्रस्थापितः द्विजः उपश्रुत-सत्-कथस्य॥ ५५॥

भ्रातुः विरूप-करणम् युधि निर्जितस्य
प्रोद्वाह-पर्वणि च तत्-वधम् अक्ष-गोष्ठ्याम्।
दुःखम् समुत्थम् असहः अस्मद्-अयोग-भीत्या
न एव अब्रवीः किम्-अपि तेन वयम् जिताः ते॥ ५६॥

दूतः त्वया आत्म-लभने सु-विविक्त-मन्त्रः
प्रस्थापितः मयि चिरायति शून्यम् एतत्।
मत्वा जिहासः इदम्-अङ्गम् अनन्य-योग्यम्
तिष्ठेत् तत्-त्वयि वयम् प्रतिनन्दयामः॥ ५७॥

श्री-शुकः उवाच –
एवम् सौरत-संलापैः भगवान् जगत्-ईश्वरः।
स्वरतः रमया रेमे नर-लोकम् विडम्बयन्॥ ५८॥

तथा अन्यासाम् अपि विभुः गृहेषु गृहवान्-इव।
आस्थितः गृह-मेधीयान् धर्मान् लोक-गुरुः हरिः॥ ५९॥